________________
२७२
बृहत्कल्प-छेदसूत्रम् - ३-५/१४६
[ भा. ५७०१]
उप्पन्ने उवसग्गे, दिव्वे माणुस्सए तिरिक्खे य । हंदि ! असारं नाउं, मानुरसं जीवलोगं च ॥
वृ- दिव्य-मानुष्य-तैरश्चान् उपसर्गान् उत्पन्नान् सम्यगधिसहिष्याम इत्युपस्कारः । कुतः ? इत्याह- 'हन्दि ' इति हेतूपदर्शने, वयं मानुष्यं जीवलोकं चासारमेव जानीमस्ततस्दद् ज्ञात्वा कथमुपसर्यान् न सहिष्यामः ? ॥
[भा. ५७०२] ते निग्गया गुरुकुला, अनं गामं कमेण संपत्ता । काऊण विद्दरिसणं, इत्थीरूवेणुवस्सग्गी ॥
वृ- एवमुक्त्वा 'ते' साधवः स्वच्छन्देन गुरुकुलाद् निर्गताः क्रमेणान्यं ग्रामं सम्प्राप्ताः, तत्र चैकस्यां देवकुलिकायां स्थिताः । तेथां मध्ये यो मुख्यः स प्रतिश्रयपालः स्थितः, शेषा भिक्षार्थ प्रविष्टाः । ततः कयाचिद् देवतया 'विदर्शनं' विशेषेण दर्शनीयं रूपं कृत्वा स्त्रीरूपेणोपसर्ग कृतः ।
इदमेव सुव्यक्तमाह
[भा. ५७०३] पंता व नं छलिज्जा, नाणादिगुणा व होंतु सिं गच्छे। न नियत्तिर्हितऽ छलिया, भद्देयर भोग वीमंसा ॥
वृ- सम्यग्धष्टिरेका देवता चिन्तयति- एते तावद् अनुपदेशेन प्रस्थिताः अतो माऽमून् प्रान्ता देवता छलयेद्, ज्ञानादयो वा गुणाः “सिं" अमीषां गच्छे वसतां भवन्तु इति कृत्वा केनाप्युपसर्गेणाच्छलिताः सन्तो न निवर्तिष्ते इतिबुध्या भद्रिका समागच्छति । इतरा तु प्रान्ता भोगार्थिनी 'विमर्श वा' परीक्षां कर्तुकामा छलयेत् ॥ कतं पुनः स्त्रीरूपेणोपसर्गयेत् ? इत्याह[भा. ५७०४] भिक्ख गय सत्थ चेडी, गुज्झक्खिणी अम्ह साविया कहणं । विहवारूवविउव्वण, किइकम्माऽऽलोयणा इणमो ॥
कृ-सा देवता भिक्षां गतेषु साधुषु सार्थं विकुर्व्य तां देवकुलिकां परिक्षिप्यावासिता । ततश्चेटिकारूपं विकुर्व्य प्रतिश्रयमागत्य साधुं वन्दित्वा भणति - 'गोज्झक्खिणी' स्वामिनी मदीया श्राविका, सा न जानाति अत्र साधून् स्थितान्, ततोऽहं स्वामिन्याः कथयामि येन सा युष्मान् वन्दितुमायाति । ततः सा निर्गत्य विधवा रूपं विकुर्व्य चेटिकाचक्रवालपरिवृता प्रतिश्रयमागत्य 'कृतिकर्म' वन्दनं कृत्वा पर्युपास्ते ततः साधुना भणिता कुतः श्राविका समायाता ? । ततः सा इमामालोचनां ददाति ॥
[ भा. ५७०५ ]
पाडलिपुत्ते जम्मं, साएतगसेट्ठिपुत्तभज्जत्तं । पइमरण चेइवंदनछोम्मेण गुरू विसजणया ॥ पव्वज्जाए असत्ता, उज्जेनिं भोगकंखिया जामिं । तत्थ किर बहू साधू, अवि होज परीसहजिय त्था ।।
[भा. ५७०६ ]
वृ- पाटलिपुत्रे नगरे मम जन्म समजनि, साकेतवास्तव्यस्य श्रेष्ठिपुत्रस्य च भार्यात्वम, पतिमरणे ★ च सञ्जाते चैत्यवन्दनच्छद्मना 'गुरुभ्यः' श्वशुरादिभ्य आत्मनो विसर्जनं कृत्वा सम्प्रति प्रव्रज्यायामशक्ता सती उज्जयिन्यां भोगानां काङ्क्षिका गच्छामि । 'तत्र' उज्जयिन्यां किल इति श्रूयते बहवः साधवः परीषहपराजिताः सन्ति, 'थ' इति निपातः पादपूरणे, अमुनाऽभिप्रायेण निर्गताऽहम्, साम्प्रतं तु युष्मासु दृष्टेषु मदीयं मनो नाग्रतो गन्तुं ददाति ॥ ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org