________________
२७१
उद्देशक : ५, मूलं-१४६, [मा. ५६९५] कृतं न भवति। तदकरणाच नासौ तत्वतस्तेषां गुरु । तथा चोक्तम्
अशासितारं च गुरुं मन्दस्नेहं च बान्धवम् ।
__ अदातारं च मरिं, जनस्थाने निवेशयेत् ॥ "आलोए"त्ति पदं व्याख्याति[भा.५६९६] सम्मोहो मा दोहवि, वियडिजंतम्भितेन न पढ़ति ।
पडिपुच्छे पलिमंथो, असंखड नेव वच्छल्लं ।। वृ-ये भिक्षाचां गतास्ते आगत्य यावद् आलोचयन्ति तावत्पूर्वागतानां परिवर्तनव्याघातः। अथालोचयतामपि परिवर्तयन्तितत आचार्या आलोच्यमानं नावधारयन्ति । आलोचकोऽपि सम्यग् हस्तं मात्रकं व्यापारंवा तेन व्याक्षेपेण न स्मरति । एवं 'द्वयेषामपि सम्मोहोमा भूत्' इति कृत्वा विकट्यमाने' आलोच्यमाने यन्नपठन्ति एष व्याघातः। “पडिपुच्छ"तिद्वारं व्याख्यायतेतस्यान्तिके ये सूत्रार्थप्रतिपृच्छां कुर्वते तेषां प्रत्युत्तरं ददतः स्वाध्यायपरिमन्थः । अथ प्रत्युत्तरं न ददाति ततस्तेरुष्येयुः-'स्तब्धस्त्वम्, कस्तवान्तिके प्रश्नयिष्यति?' इत्यादिचजल्पन्ति; ततोऽसडं भवति । नच प्रतिवचनमप्रयच्छता साधर्मिकवात्सल्यं कृतं भवति॥
अथ वादि-प्रागुणक-महाजन-ग्लान-दुर्लभमैक्षद्वाराणि व्याचष्टे[भा.५६९७] चिंतेइ वादसत्ये, वादिं पडियरति देति पडिवायं ।
महइगणे पाहुणगा, वीसामण पञ्जवासणया॥ वृ-वादिनमागच्छन्तं श्रुत्वा वादशास्त्राणि चिन्तयति।तंच वादितं यावत्प्रतिचरतिप्रतिवाद च यावत्तस्य प्रयच्छति तावद्व्यागातः । तथा महति गणेप्राघुणकाआगच्छेयुः तेषां विश्रामणा पर्युपासना च कर्तव्या ।। [मा.५६९८] आलोयणा सुणिज्जति, जाव य दिजइ गिलाण-बालाणं ।
हिंडंति चिरं अन्ने, पाओगुभयस्स वा अट्ठा ।। -आलोचना च यावत् तेषां श्रूयते, यावच्च ग्लान-वालानां दीयते, तथा प्राघुणकादीनां प्रायोग्यस्य उभयस्य-भक्तस्य पानकस्य चार्थाय चिरमेके पर्यटन्ति, 'अन्ये च निवृत्ता अपि तानागच्छतो यावत् प्रतीक्षन्ते॥ [भा.५६९९] पाउग्गोसह-उव्वत्तणादि अतरंति जंच वेजस्स।
किमहिज्जउ खलुभिक्खे, केसवितो भिक्ख-हिंडीहिं॥ वृ-'अतरतः' ग्लानस्य प्रायोग्यौषधादिकं यावद्आनयन्ति, उद्वर्तनादिकंवातरय कुर्वन्ति, वैद्यस्य वा 'यद्' मज्जनादिकंपरिकर्म कुर्वन्ति तावद् व्याधातः । खलुक्षेत्रे वा स्वल्पया भिक्षया बाह्यया च हिण्डया चिरं क्लेशितः सन् किमधीताम् ? न किञ्चिदित्यर्थः ।। [भा.५७०० ते गंतुमना बाहिं, आपुच्छंती तहिंतुआयरियं ।
भणिया मणंति भंते !, न ताव पज्जत्तगा तुब्मे॥ - एतैः कारणैः 'तत्र' गच्छे व्याघातं मत्वा 'ते' गृहीतसूत्रार्था साधवो बहिर्गन्तुमनस आचार्यमापृच्छन्ति।तत आचार्येण वारिता दिव्य-मानुष्य-तैरश्चोपसर्गसहने विहारे चन तावद् अद्यापि यूयं पर्याप्ताः । एवं भणितास्ते भणन्ति-भदन्त ! युषमचरणप्रसादेनेशा भविष्यामः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org