________________
उद्देशक: ५, मूलं - १४६, [भा. ५६८६ ]
न विरुध्यते ॥ अत्र परः प्राह ननु चानेन सुवर्ण-वज्रध्टान्तेनेदमापन्नम् अधस्तनसूत्रेभ्यः पञ्चमस्यादिसूत्रं प्रधानतरम् । सूरिराह - नैवम्, प्राधान्यस्योभयोरप्यापेक्षिकतया तुल्यत्वात् । तथाहिकणएण विना वइरं, न भायए नेव संगहमुवेइ । न य तेन विना कणगं, तेन र अत्रोत्र पाहन्नं ॥
[ भा. ५६८७ ]
वृ-कनकेन विना वज्रं 'नभाति' न शोभते न च 'सङ्ग्रहं' सम्बन्धमुपैति, आश्रयाभावात्; न च 'तेन' वज्रेण विना कनकं शोभते, तेन कारणेन 'र' इति निपातः पादपूरणे उभयोरप्यन्योन्यं प्राधान्यम् । एवमधस्तनसूत्राणां कनकतुल्यानां पञ्चमोद्देशकादिसूत्रस्य च वज्रतुल्यस्य पापप्रतिषेधकत्वात् तुल्यमेव प्राधान्यम् ।। अनेन सम्बन्धचतुष्टयेनापतितस्यास्य व्याख्या-देवश्च स्त्रीरूपं विकुर्व्य निर्ग्रन्यं प्रतिगृह्णीयात, तच्च निर्ग्रन्थो मैथुनप्रतिसेवनप्राप्तो यदि 'स्वादयेद्' अनुमोदयेत् तत आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् ॥
२६९
एवं द्वितीयसूत्रं देवी स्त्रीरूपं विकुर्व्य निर्ग्रन्थं प्रतिगृह्णीयादित्याद्यपि मन्तव्यम् ।। तृतीयसूत्रम्देवी पुरुषस्य रूपं विकुर्व्यं निर्ग्रन्थीं प्रतिगृह्णीयात्, तच निर्ग्रन्थी स्वादयेद्, मैथुनप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकमनुद्धातिकं स्थानम् । एवं देवः पुरुषरूपं विकुर्व्य निर्ग्रन्थीं प्रतिगृहणीयादित्याद्यपि चतुर्थसूत्रं वक्तव्यम् । सूत्रचतुष्टयार्थः ॥ अथाद्यसूत्रद्वयं यावद् विवरीषुराह[भा. ५६८८ ] देवे य इथिरूवं, काउं गिण्हे तहेव देवी य ।
दोसु वि य परिणयाणं, चाउम्मासा भवे गुरुगा ॥
वृ-देवो देवी वा स्त्रीरूपं कृत्वा निर्ग्रन्थं गृह्णीयात्। ततः किम् ? इत्याह- 'द्वयोरपि' देवदेवीस्त्रियोः प्रतिसेवने परिणतानां चत्वारो मासा गुरुकाः प्रायश्चित्तं भवेत् ॥ अथैतयोः सूत्रयोर्विषयसम्भवमाह[ भा. ५६८९ ] गच्छगय निग्गए वा, होज्ज तगं तत्थ निग्गमो दुविहो । उवएस अनुवएसे, सच्छंदेणं इमं तत्थ ॥
वृ-गच्छगतस्य गच्छनिर्गतस्य वा 'तद्' अनन्तरोक्तं वृत्तान्तजातं भवेत् । तत्र गच्छाद् निर्गमो द्विविधः-उपदेशेन अनुपदेशेन च । अनुपदेशः स्वच्छन्द इति चैकोऽर्थः । तत्र स्वच्छन्देन इदं गच्छाद् निर्गमनमभिधीयते ॥
[भा. ५६९०]
सुतं अत्थो य बहु, गहियाइं नवरि मे झरेयव्वं ।
गच्छम्मिय वाघायं, नाईऊण इमेहिं ठाणेहिं ।।
वृ: कश्चिद् गृहीतसूत्रार्थश्चिन्तयति सूत्रमर्थश्च मया 'बहू' प्रभूतौ गृहीतौ, नवरमिदानीं मया पूर्वगृहीतं "झेरयव्वं" ति 'स्मर्तव्यं' परिजितं कर्तव्यम्, गच्छे च स्मरणस्यामीभि 'स्थानैः ' कारणैव्यार्घातं ज्ञात्वा निर्गमने मतिं करोति । कानि पुनस्तानि स्थानानि ? इत्याह
[ भा. ५६९१ ] धम्मकह महिड्डीए, आवास निसीहिया य आलोए । डिपुच्छ वादि पाहुण, महान गिलाणे दुलभभिक्खं ।।
वृ- स धर्मकथालब्धिसम्पत्रस्ततो भूयान् जनः श्रोतमागच्छतीति धर्मकथया व्याघातः । 'महर्द्धिकः' राजादिर्धर्मश्रवणाय समायाति तस्य विशेषतः कथनीयम्, तदावर्जने भूयसामावर्जनात् । तथा महति गच्छे बहवो निर्गच्छन्त आवश्यिकीं कुर्वन्ति प्रविशन्तो नैषेधिकीं कुर्वन्ति ते सम्यगू निरीक्षणीयाः । चशब्दाद् असङ्खडव्यवशमनादौ वा भूयसी वेला लगेत् । “आलोए” त्ति भिक्षामटित्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org