________________
उद्देश : ४, मूलं - १४२ [भा. ५६६६ ]
२६५
वायावदल्प- सन्तानकेषु “अधेरयणीमुक्कमउडेसु 'त्ति अञ्जलिमुकुलितं बाहुद्वयमुच्छ्रितं भुकुट उच्यते स च हस्तद्वयप्रमाणः । यदाह बृहद्भाष्यकृत् मउडो पुन दोरयणी, पमाणतो होइ हूमुणेयव्वो ।
रनिभ्यां हस्ताभ्यां मुक्ताभ्यां उच्छ्रिताभ्यां यो निर्मितो मुकुटः स रत्निमुक्तमुकुटः । एतावत्प्रमाणमधस्तादुपरि च यत्रान्तरालं न प्राप्यते तेष्वघोरनिमुक्तमुकुटेषु तृणादिषु न कल्पते वर्षावासे वस्तुम् ॥ अथ तृणेषु वा यावदल्प ० सन्तानकेषु उपरिरनिमुक्तमुकुटेषु यथोक्तप्रमाणेषु मुकुटोपरिवर्तिषु संस्तारके निविष्टस्य साधोरर्थतृतीयहस्ताद्यपान्तरालयुक्तेष्वित्यर्थः । ईदृश्यां वसतौ कल्पते वर्षावासे वस्तुमिति सूत्रचतुष्टयार्थः ॥ अथ भाष्यकारः प्रथमसूत्रं विवरीषुराह[ भा. ५६६७ ] तणगहणाऽऽरन्नतणा, सामगमादी उ सूइया सव्वे । सालीमाति पलाला, पुंजा पुन मंडवेसु कता ॥
वृ-तृणग्रहणाद् आरण्यकानि श्यामाकादीनि सर्वाण्यपि तृणानि सूचितानि । पलालग्रहणेन शाल्यादीनि पलालानि गृहीतानि । पुञ्जः पुनस्तृणानां पलालानां वा उपरिमण्डपेषु कृता भवन्ति । येषु हि देशेषु स्वल्पानि तृणानि तेषु पुञ्जरूपतया तानि मण्डपेषु सङ्गृह्यन्ते, अधस्ताद्भूमौ स्थापितानि मा विनश्येयुरिति कृत्वा ॥
[ भा. ५६६८ ]
पुंजा उ जहिं देसे, अप्पप्पाणा य होंति एमादी । अप्प तिग पंच सत्त य एतेन य वच्चती सुत्तं ॥
वृ- एवं यत्र देशे मण्डपेषु पुञ्जाः कृता भवन्ति तत्र विवक्षितायां वसतौ ते पुञ्ज अल्पप्राणा अल्पबीजा एवमादिविशेषयुक्ता भवेयुः, अत्र कस्याप्येवं बुद्धि स्यात्- अल्पाः प्राणास्त्रयः पञ्च सप्त वा मन्तव्याः, अत आह-न 'एतेन' परोक्तेनाभिप्रायेण सूत्रं व्रजति, किं तर्हि ? अल्पशब्दोऽत्राभाववाचको द्रष्टव्यः, प्राणादयस्तेषु न सन्तीति भावः । अत्र परः प्राहवत्तव्वा उ अपाणा, बंधनुलोमेणिमं कयं सुत्तं । पाणादिमादिएसुं, ठंते सट्टाणपच्छित्तं ॥
[भा. ५६६९]
घृ-यदि अभावार्थोऽल्पशब्दस्तत एवं सूत्रालापका वक्तव्याः- “अपानेसु अबीएसु अहरिएसु" इत्यादि । गुरुराह-बन्धानुलोम्येनेत्थं सूत्रं कृतम् "अप्पपानेसु" इत्यादि, एवंविधो हि पाठः सुललितः सुखेनैवोच्चरितुं शक्यते । यदि पुनर्द्धा त्रयः पञ्च वा द्वीन्द्रियादयः प्राणिन आदिशब्दादण्डादीनि वा यत्र भवन्ति तत्र तिष्ठन्ति ततस्तेषां विराधनायां स्वस्थानप्रायश्चित्तं द्रष्टव्यम् ॥
कथं पुनरल्पशब्दोऽभावे वर्तते ? तत आह
[भा. ५६७०] धोवम्मि अभावम्मिय, विनिओगो होति अप्पसद्दस्स । थोवे उ अप्पमाणो, अप्पासी अप्पनिद्दोय ॥
- स्तोकेऽभावे च अल्पशब्दस्य 'विनियोगः' व्यापारो भवति । तत्र स्तोकार्थवाचको यथाअल्पमानो अल्पाशी अल्पनिद्रोऽयम् ॥ अभाववाचको यथा
[ भा. ५६७१] निस्सततस्स उ लोए, अभिहाणं होइ अप्पसत्तो त्ति ।
लोउत्तरे विसेसो, अप्पाहारो तुअट्टिजा ।।
वृ-यः किल निसत्त्वः पुरुषस्तस्य लोकेऽल्पसत्त्वोऽयमित्यभिधानं भवति । लोकोत्तरेऽप्ययं विशेषः समस्ति, यथा- अल्पाहारो भवेद् अल्पं च त्वग्वर्तयेत् । अभावेऽपि दृश्यते, यथा- "अप्पायंके"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org