________________
२६४
बृहत्कल्प-छेदसूत्रम् -३-४/१३८ क्रियते, यद् अन्तप्रान्तं चीवरं तत् प्रावृणोति । यदि च तरपण्यं नाविको मार्गयति तदा धर्मकथाऽनुशिष्टिश्च क्रियते । अथ न मुञ्चति ततो द्वितीयपदे यद् अन्तप्रान्तमुपकरणं तद्यतनया दातव्यम् । अथ तद् नेच्छति निरुणद्धि वा ततोऽनुकम्पया यदि अन्यो ददाति तदा न वारणीयः ।
मू. (१३९) से तणेसु वा तणपुंजेसु वा पलालेसु वा पलालपुंजेसु वा अप्पंडेसु अप्पपाणेसु अप्पबीएसु अप्पहरिएसु अप्पुस्सेसु अप्युत्तिंग-पणग-दगमट्टिय-मक्कडगसंताणएसु अहेसवणमायाए नो कप्पइ निग्गंथाण वा निग्गंधीण वा तहप्पगारे उवस्सए हेमंतगिम्हासु वत्थए ।
मू. (१४०) से तणेसु वा जाव संताणएसु उप्पिंसवणमायाए कप्पइ निग्गंथाण वा निग्गंथीण वा तहप्पगारे उवस्सए हेमंत- गिम्हासु वत्थए ।
मू. (१४१) से तणेसु वा जाव संताणएसु अहेरयणीमुक्कमउडेसु नो कप्पइ निग्गंधाण वा निग्गंथीण वा तहम्पगारे उवस्सए वासावासं वत्यए ।
मू. (१४२) से तणेसु वा जाव संताणएसु उप्पिरयणीमुक्कमउडेसु कप्पइ निग्गंथाण य निग्गंथीण य तहप्पगारे उवस्सए वासावासं वत्थए ।
वृ- अस्य सूत्रचतुष्टयस्य सम्बन्धमाह
[ भा. ५६६५ ] अद्धाणातो निलयं, उर्विति तहियं तु दो इमे सुत्ता । तत्थ वि उडुम्मि पढमं, उडुम्मि दूइजणा जेनं ॥
बृ- पूर्वसूत्रे 'अध्वा' जलपयलक्षणः प्रकृतस्तत उत्तीर्णा 'निलयम्' उपाश्रयमुपागच्छन्ति । तद्विषये च ऋतुबद्ध-वर्षावासयोः प्रत्येकमिमे द्वे सूत्रे आरभ्येते । तत्रापि प्रथमं सूत्रद्वयमृतुबद्धविषयं द्वियं वर्षावासविषयम् । कुतः ? इत्याह-ऋतुबद्धेयेन कारणेन "दूइजणा" विहारो भवते नवर्षावासे, पूर्वसूत्रे च विहारोऽधिकृतः, अतः सम्बन्धानुलोम्येन पूर्वमृतुबद्धसूत्रद्वयं ततो वर्षावाससूत्रद्वयमिति । [भा. ५६६६ ] अहवा अद्धाणविही, वुत्तो वसहीविहिं इमं भणई । सावी पुव्वं वुत्ता, इह उ पमाणं दुविह काले ॥
बृ- अथवाऽध्वनि विधिः पूर्वसूत्रे उक्तः, इमं तु परस्तुतसूत्रे वसतिविधिं भणति । साऽपि च वसति 'पूर्व' प्रथमोद्देशकादिष्वनेकशः प्रोक्ता, इह तु 'द्विविधेऽपि' ऋतुबद्ध-वर्षावासलक्षणे काले तस्याः प्रमाणमुच्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या- अथ तृणेषु वा तृणपुञ्जेषु वा पलालेषु वा पलालपुञ्जेषु वा अल्पाण्डेषु अल्पप्रणाणेषु । इह अण्डकानि पिपीलिकादीनाम्, प्राणाः- द्वीन्द्रियादयः, बीजम् - अनङ्कुरितम्, तदेवाङ्कुरितोद्भिन्नं हरितम्, अवश्यायः स्नेहः, उत्तिङ्गकीटिकानगरम्, पनकः पञ्चवर्ण-साङ्कुरोऽनङ्कुरो वाऽनन्तवनस्पतिविशेषः, दकमृत्तिका सचित्तो मिश्रो वा कर्दमः, मर्कटकः - कोलिकस्तस्य सन्तानकं-जालकम् । अल्पशब्दश्चेह सर्वत्राभावचनः, ततोऽण्डरहितेषु प्राणरहितेषु इत्यादि मन्तव्यम् । “अहेसवणमायाए” त्ति "अधः श्रवणमात्रया श्रवणयोरधस्ताद् यत्र छादनतृणादीनि भवन्ति तथाप्रकारे उपाश्रये नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्त ग्रीष्मेषु वस्तुम्, अष्टावृतुबद्धमासानित्यर्थः ॥
-
एवं प्रतिषेधसूत्रमभिधाय प्रपञ्चितज्ञविनेयानुग्रहार्थं विधिसूत्रमाह- अथ तृणेषु वा यावदल्प० सन्तानकेषु उपरिश्रवणमात्रया युक्तेषु तथाविधोपाश्रये कल्पते हेमन्त - ग्रीष्मेषु वस्तुम् ।। एवमृतुबद्धसूत्रद्वयं व्याख्यातम् । अथ वर्षावाससूत्रद्वयं व्याख्यायते - अथ तृणेषु वातृणपुत्रेषु
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International