________________
उद्देशक : ४, मूलं- १३८,
[भा. ५६६१]
[भा. ५६६१ ]
दगतीरे वा चिट्टे, निष्पगलो जाव चोलपट्टी तु । सभए पलंबमाणं, गच्छति कारण अफुसंतो ॥
२६३
वृ- 'दकतीरे' स्निग्धपृथिव्यामप्कायरक्षणार्थं तावत् तिष्ठेत् यावत् घोलपट्टकोऽन्यद्वोपकरणं निष्प्रगलं भवति । अथ तत्र तिष्ठतः समयं ततः प्रगलन्तमेव तं चोलपट्टकं कायेनास्पृशन् बाहायां प्रलम्बमानं नयन् गच्छति । यत्र सार्थविरहित एकाकी समुत्तरति तत्रायं विधिः
[भा. ५६६२ ] असइ गिहि नालियाए, आणक्खेउं पुनो वि पडियरणं । एगाभोगं च करे, उवकरमं लेव उवरिं वा ॥
वृ-गृहिणामभावे सर्वोपकरणमवतरणतीरे मुक्त्वा नालिकां- आत्मप्रमाणात् चतुरङ्गुलातिरिक्तां यष्टिं गृहीत्वा तया "आनक्खेउं" अस्ताघतामनुमीय परतीरात् पुनरपि जले प्रतिचरणं करोति, प्रत्यागच्छतीत्यर्थः; आगत्य च तदुपकरणमेकाभोगं करोति, एकत्र नियन्त्रयतीत्यर्थः ततस्तद् गृहीत्वा तेन परीक्षितजलपथेनोत्तरति । एष लेपे लेपोपरौ वा विधिरुक्तः ॥ अथ नावं यैः कारणैरारोहेत तानि दर्शयति
[भा. ५६६३] बिइयपय तेन सावय, भिक्खेवा कारणे व आगाढे। कजुवहि मगर छुमण, नावोदग तं पि जतनाए ।
वृ-द्वितीयपदमत्रोच्यते - स्थल-सङ्घट्टादिपथेषु शरीरोपधिस्तेनाः सिंहादयो वा श्वापदा भवेयुः, मैक्षं वा न लभ्यते, आगाढं वा कारणम्-अहिदष्ट विष-विसूचिकादिकं भवेत् तत्र त्वरितमौषधान्यानेतव्यानि, कुलादिकार्यं वा अक्षेपेण करणीयमुपस्थितम्, उपधेरुत्पादनार्थं वा गन्तव्यम्, लेपे लेपोपरी वा मकरभयं ततो नावमारोहेत् । तत् च प्रथममेवोपकरणमेकाभोगं कुर्यात् । कुतः ? इत्याह- "छुम्मण "त्ति कदाचित् प्रत्यनीकेन उदके प्रक्षिप्येत, तत एकाभोगकृतेषु भाजनेषु विलग्नस्तरतीति । "नावोदग तं पि जयणाए "त्ति यदि बलाभियोगेन नावुदकस्योत्सेचापनं कार्यते तदा तदपि यतनया कर्तव्यम् ॥ कथं पुनरेकाभोगमुपकरणं करोति ? इत्याह
[ भा. ५६६४ ] पुरतो दुरुहणमेगतो, पडिलेहा पुव्व पच्छ समगं वा । सीसे मग्गतो मझे, बितियं उवकरण जयणाए ।
वृ- गृहिणां पुरत उपकरणं न प्रत्युपेक्षते, न वा एकाभोगं करोति । “दुरुहण"त्ति नावमारो दुकामेन एकान्तमपक्रम्योपकरणं प्रत्युपेक्षणीयम् । “पडिलेह "त्ति ततोऽधः कायं रजोहरणेन उपरिकायं मुखानन्तकेन प्रमृज्य भाजनान्येकत्र बध्नाति तेषामुपरिष्टादुपधिं सुनियन्त्रितं करोति । "पुव्व पच्छ समगं व” त्ति किं गृहिभ्यः पूर्वमारोढव्यम् ? उत पश्चात् ? उताहो सभकम् ? अत्रोत्तरम् - यदि भद्रका नाविकादयो यदि च स्थिरा नौर्न दोलायते ततः पूर्वमारोढव्यम्; अथ प्रान्ताः ततः पूर्वं नारुह्यते, मा 'अमङ्गलम्' इति कृत्वा प्रद्वेषं गमन् तेषां प्रान्तानां भावं ज्ञात्वा समकं पश्चाद्वा आरोहणीयम् । "सीसे”त्ति नावः शिरसि न स्थातव्यम्, देवतास्थानं तदिति कृत्वा ; मार्गतोऽपि न स्थातव्यम्, निर्यामकस्तत्तर तिष्ठतीति कृत्वा; मध्येऽपि यत्र कूपकस्थानं तत्र न स्थातव्यम्, तद् मुक्त्वा यद् अपरं मध्ये स्थानं तत्र स्वेयम् । अथ मध्ये नास्ति स्थानं ततः शिरसि पृष्ठतो वा यत्र ते स्थापयन्ति तत्र निराबाधे स्थीयते । साकारं सक्तं प्रत्याख्याय नमस्कारपरस्तिष्ठति । उत्तरन्नपि न पूर्वमुत्तरति न वा पश्चात् किन्तु मध्ये उत्तरति । सारोपधिश्च पूर्वमेवाल्पसागारिकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org