________________
२६२
बृहत्कल्प-छेदसूत्रम् -३-४/१३८ -अत्र पूर्वाद्ध-पश्चाद्धपदानां यथासक्येन योजना-नावुत्तरणस्थानाद् यदि वे योजने वक्र स्थलेन गम्यते तेन गन्तव्यं न च नौरारोढव्या, “लेवहिट्ट"त्ति लेपस्याधस्ताद् दकसट्टेन यदि सार्द्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न च नावमधिरोहेत्, एवं योजनपर्याहारेण लेपेन गच्छतु मा च नावमधिरुहत्, अर्द्धयोजनपर्यवहारेण लेपोपरिणा गच्छेत् न च नावमधिरोहेत; एवं नावुत्तरणस्थानात् स्थलादिषु योजनद्वयादिकं परिहीयते । एवमेव लेपोपरिस्थानात सार्द्धयोजनपरिहारेणस्थलेन, एकयोजनपरिरयेण साडेन, अर्द्धयोजनपरिहारेणवालेपेनगम्यतां नचलेपोपरिणा। लेपोत्तरणस्थानादेकयोजनपर्यवहारेणस्थलेन, अर्द्धयोजनपरिहारेणवासकट्टेन . गन्तव्यं न लेपेन । साट्टोत्तरणस्थानादड़योजनपर्यवहारेण स्थलेनगम्यतांनच सट्टेन। एतेषां परिहारपरिमाणानामभावे नावा लेपोपरिणा लेपेन सरटेन वा गम्यते न कश्चिद्दोषः ।।
अत्र “नाव थल"त्ति पदं व्याचष्टे[भा.५६५७] दोजोयणाइंगंतुं, जहियं गम्मतिथलेण तेन वए।
माय दुरूहे नावं, तत्थावाया बहू वुत्ता ।। -द्वेयोजनेगत्वा यत्रस्थलेन गम्यतेतेनपथाव्रजेमाच नाक्मारोहतायतस्तत्रबहवोऽपायाः पूर्वमेवोक्ताः। कारणेत तत्रापि गम्यते॥ तत्र सट्टे गच्छतांतावद् यतनामाह[भा.५६५८] थलसंकमणे जयणा, पलोयणा पुच्छिऊण उत्तरणं।
परिपुच्छिऊण गमनं, जति पंथो तेन जतनाए॥ वृ-स्थलसङ्क्रमणे यतना कार्या, एकंपादं जले एकंच पादं स्थले कुर्यादित्यर्थः । प्रलोकना नाम-लोकमुत्तरन्तं प्रलोकयति, यस्मिन् पार्वे जकार्द्धमात्रमुदकं तत्र गच्छति । अथोत्तरतो न पश्यति ततः प्रातिपथिकमन्यं वा पृच्छति, ततो यत्र नीचतरमुदकं तत्रोत्तरणं विधेयम् । "परिपुच्छिऊण" इत्यादि, यदि तस्योदकस्य परिहारेण पन्था विद्यते तदातं परित्यज्य यतनया तेन गन्तव्यम् ।। अथ स्थलपथेऽमी दोषा भवेयुः[भा.५६५९] समुदानं पंथो वा, वसही वा थलपण जति नथि।
सावत-तेनभयं वा, संघदेणं ततो गच्छे।। वृ-'समुदानं भिक्षा तत्र नास्ति, स्थलपथ एव वा नास्त, वसतिर्वा स्थलपथे यदि न समस्ति, श्रावपभयं स्तेनभयं वा तत्र विद्यते ततः स्थलपथं मुक्त्वा सबट्टेन प्रथमतो गच्छेत्, तदभावे लेपेन । तत्रेयं यतना[भा.५६६०] निभये गारस्थीणं, तुमग्गतो चोलपट्टमुसारे।
सभए अत्थग्धे वा, उत्तिन्नेसुंधनं पढें ॥ वृ- यदि स साधुर्मूहिसार्थसहायस्तत उदकसमीपं गत्वोर्द्धकायं मुखवस्त्रिकयाऽघःकायं रजोहरणेन प्रमाज्योर्पकरणमेकतः कृत्वा यदि निर्भयं-चौरभयं नास्ति ततो गृहस्थानां 'मार्गतः' सर्वपश्चादुदकमवतरति । यथा यथा चोण्डमुण्डतरं जलमवगाहते तथा तथोपर्युपरि चोलपट्टकमुत्सारयेद् येन न तीम्यते । अथ तत्र सभयम् अस्ताचं वाजलं ततो यदा कियन्तोऽपि गृहस्था अग्रतोऽवतीर्णास्तदा मध्ये साधुनाऽवतरणीयम् चोलपट्टकं च 'घन' दृढं बघ्नीयात् ।। एतेन विधिनोत्तीर्णस्य यदि चोपट्टकोऽन्यद्वा किञ्चिदुपकरणजातं तीमितं तदाऽयं विधिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org