________________
उद्देशक : ४, मूलं- १३८, [ भा. ५६५१]
नाकायेन ॥ [ भा. ५६५२ ]
तेऊ - बाउविहूणा, एवं सेसा वि सव्वसंजोगा । उदगस्स उ कायव्वा, जेनऽ हिगारो इहं उदए ।
वृ- 'तेजो- वायुकाययोर्गमने न सम्भवति' इति कृत्वा तेजो- वायुविहीना एवं शेषा अपि संयोगाः सर्वेऽपि कर्तव्याः । तत्राप्कायस्य वनस्पतिना त्रसैश्च सह भङ्गका उक्ताः, अथ वनस्पति-त्रसानां द्विकसंयोगेन भङ्गा उच्यन्ते किं वनस्पती गम्यताम् ? उत त्रसेषु ? उच्यते- त्रसेषु सान्तरेषु गन्तव्यम्, पुनर्वनस्पती, तत्र हि नियमेन त्रसा भवेयुः । आह च निशीथचूर्णिकृत् पुव्वं तसेसु थिराइसु गंतव्वं, जतो वने वि नियमा तसा अस्थि । पृथिव्यप्काय वनस्पतित्रयसम्भवे कतमेन गम्यताम् ? उच्यते पूर्वं पृथिवीकायेन, ततो वनस्पतिना, ततोऽप्कायेनापि । पृथिव्युदक वनस्पतित्रसलक्षणचतुष्कसंयोगसम्भवे कथमेन गन्तव्यम् ? उच्यते- पूर्वमचित्तपृथिव्यां प्रविरलत्रसेषु, ततः सचित्तपृथिव्याम्, ततो वनस्पतिना, ततोऽप्कायेनापि गम्यम् । एवमिह बहुभङ्गविस्तरे बीजमात्रमिदमुक्तम् । हच उदकपदममुञ्चता ये भङ्गाः प्राप्यन्ते ते कर्तव्याः, येनेह सूत्रे उदकस्याधिकारः । शेषास्तु विनेयव्युत्पादनार्थमभिहिताः ॥
"अंतो मासस्स दुक्खुत्तो वा" इत्यादि सूत्रं व्याख्याति
[ भा. ५६५३ ] एरवइ जत्य चक्किय, तारिसए न उवहम्मती खेत्तं । पडिसिद्धं उत्तरणं, पुन्त्रासति खेत्तऽणुन्नायं ॥
२६१
वृ- या एरावती नदी कुणालाजनपदे योजनार्द्धविस्तीर्णा जङ्घार्द्धमानमुदकं वहति तस्याः केचित् प्रदेशाः शुष्का न तत्रोदकमस्ति तामुत्तीर्य यदि भिक्षाचर्यां गम्यते तदा ऋतुबद्धे त्रय उदकसङ्घट्टाः, ते च गता ऽऽगतेन षड् भवन्ति; वर्षासु सप्त दकसङ्घट्टाः, ते च गता ऽऽगतेन चतुर्दश भवन्ति । एवमीद्दशे सङ्घट्टप्रमाणे क्षेत्रं नोपहन्यते, इत एकेनाप्यिके सङ्घट्टे उपहन्यते । अन्यत्रापि यत्राधिकतराः सङ्घट्टास्तत्रोत्तरणं प्रतिषिद्धम् । पूर्णे मासकल्पे वर्षावासे वा यद्यनुत्तीर्णानामपरं मासकल्पप्रायोग्यं क्षेत्रमस्ति ततो नोत्तरणीयम् । अथानुत्तीर्णानामन्यत् क्षेत्रं नास्ति ततोऽसति क्षेत्रे उत्तरणमनुज्ञातम् । इदमेव व्याचष्टे
[ भा. ५६५४ ] सत्त उ वासासु भवे, दगघट्टा तिन्नि होंति उडुबद्धे । जे तु न हणंति खेत्तं, भिक्खायरियं व न हणंति ॥
वृ- सप्तोदकसङ्घट्टा वर्षासु त्रयः शङ्खट्टा ऋतुद्धे भवन्ति एतावन्तः क्षेत्रं नोपघ्नन्ति, न वा भिक्षाचर्यामुपघ्नन्ति ॥
[ भा. ५६५५ ] जह कारणम्मि पुत्रे, अंतो तह कारणम्मि असिवादी ।
उवहिस्स गहण लिंपण, नावोयग तं पि जतणाए ।
- यथा कारणे पूर्णे मासकल्पे वर्षावासे वाऽपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिकारणैरुपधेर्वा ग्रहणार्थं लेपस्यानयनार्थं वा उत्तरणीयम् । कारणे यत्र नावाऽप्युदकं तीर्यते तत्रापि यतनया सन्तरणीयम् । तत्र चायं विधि
[मा. ५६५६ ]
नाव थल लेवहेट्ठा, लेवो वा उवरि एव लेवस्स दोन्नी दिवड्डमेक, अद्धं नावाए परिहाती ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org