SearchBrowseAboutContactDonate
Page Preview
Page 1311
Loading...
Download File
Download File
Page Text
________________ २६० बृहत्कल्प - छेदसूत्रम् -३-४/१३८ [भा. ५६४७] उवलजलेण तु पुव्वं, अक्कंत- निरडाएण गंतव्वं । तस्सऽसति अनकंते, निरञ्चएणं तु गंतव्वं ॥ वृ- उपलजले कर्दमो न भवति, स्थिरसंहननं च तद् द्भवति, अतः पूर्वं तेन ‘आक्रान्त निरत्येन' क्षुत्र- निष्प्रत्यपायेन गन्तव्यम् । तस्याभावे अनाक्रान्त-निरत्ययेनापि गन्तव्यम् ॥ भा (५६४८ ] एमेव सेसएसु वि, सिगतजलादीहि होति संजोगा । पंक महुसित्य लत्तग, खुलऽद्धजंघा य जंघाय ॥ वृ- उपलाद् वालुका अल्पसंहनना, तत उपलजलाभावे वालुकाजलेन गन्तव्यम् । वालुकायाः शुद्धपृथिवी स्वल्पतरसंहनना, ततो वालुकाजलानन्तरं शुद्धोदकेन गम्यते । तेष्वपि सिकताजलादिषु शेषपदेषु 'एवमेव' प्राग्वद् आक्रान्ता ऽनाक्रान्तादयः संयोगा भवन्ति । पङ्कजलं बहुप्रत्यपायम्, अतः सर्वेषामुपलजलादीनामभावे तेन गम्यते । स च यः 'मधुसिक्थाकृति' क्रमतलयोरेव केवलं लगति यो वा अलक्तकमात्रस्तेन पूर्वं गम्यते, पश्चात् खुलकमात्रेण, पश्चादर्द्धजङ्घामात्रेण, ततो जङ्घामात्रेण जानुप्रमाणेनेत्यर्थः ॥ यस्तु जानुप्रमाणादुपरि पङ्कस्तेन न गन्तव्यम्, यत आह[ भा. ५६४९ ] अड्ढोरुतमित्तातो, जो खलु उवरिं तु कद्दमो होति । कंटादिजढो वि य सो, अत्थाहजलं व सावायं ॥ वृ- 'अद्धरुकमात्राद्' जानुप्रमाणादुपरि यः कर्दमो भवति स कण्टकाद्यपायवर्जितोऽप्यस्ताधजलमिव गन्तुमशक्यत्वात् सापायो मन्तव्यः । एष विधिः सर्वोऽपि सच्चित्तपृथिव्यामक्तः । अथाचित्तपृथिव्यां तमेवाह [मा. ५६५० ] जत्थ अचित्ता पुढवी, तहियं आउ-तरुजीवसंजोगा । जोनिपरित्त - थिरेहि य, अकंत-निरचएहिं च ।। वृ-यत्र पृथिवी अचित्ता तत्राप्कायजीवानां तरुजीवानां च संयोगाः कर्तव्याः । तद्यथा पृथिवी सर्वत्राप्यचित्ता किमप्कायेन गच्छतु ? किं वा वनस्पतिना ? उच्यते - अप्काये नियमाद् वनस्पतिरस्ति तस्मात् तेन मा गात्, वनस्पतिना गच्छतु, तत्रापि परीत्तयोनिकेन स्थिरसंहननेन आक्रान्तेन निरत्ययेन च निष्प्रत्यपायेन । अत्र षोडश भङ्गाः, तद्यथा- प्रत्येकयोनिकः स्थिर आक्रान्तो निप्रत्यपायः, एष प्रथमो भङ्गः, सप्रत्यपायेन द्वितीयः, अनाक्रान्तेऽप्येवमेव द्वौ विकल्पी, एवं स्थिरे चत्वारो विकल्पाः लब्धाः, अस्थिरेऽप्येवं चत्वारः, एते प्रत्येकयोनिकेनाष्टी भङ्गा लब्धाः, अनन्तयोनिकेऽप्येवमेवाष्टौ लभ्यन्ते, एवं सर्वसङ्ख्यया वनस्पतिकाये परीत्तादिभिः पदैः षोडश भङ्गा भवन्ति ॥ अथाप्कायस्य त्रसानां च संयोगानाह [ भा. ५६५१] एमेव य संजोगा, उदगस्स चउव्विहेहि तु तसेहिं । अक्कंत-थिरसरीरे - चिरचएहि तु गंतव्वं ॥ वृ- चतुर्विधास्त्रसाः- द्वीन्द्रियास्त्रन्द्रियाश्चतुरिन्द्रयाः पञ्चेन्द्रियाश्चेति । एतैश्चतुर्विधैरपि त्रसैराक्रान्तादिभिः पदैरेवमेव उदकेन सह संयोगाः कार्या, तद्यथा - आक्रान्ताः स्थिरा निप्रत्यपायाः १ आक्रान्ताः स्थिराः सप्रत्यपायाः २ एवं त्रिभिः पदैरष्टी भङ्गा भवन्ति, एते च द्वीन्द्रियादिषु चतुर्ष्वपि प्रत्येकमष्टावष्टौ लभ्यन्ते, जाता भङ्गकानां द्वात्रिंशत् । अथ सान्तरनिरन्तरविकल्पविवक्षा क्रियते ततश्चतुःषष्टिः संयोगा उत्तिष्ठन्ते । अत्र चाक्रान्त-स्थिरशरीरनिरत्ययैः सान्तरैस्त्रसैर्गन्तव्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy