SearchBrowseAboutContactDonate
Page Preview
Page 1310
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं- १३८, [भा. ५६४२ ] २५९ द्विधा - एकतः सालम्बो द्विधा सालम्बश्च । पूर्व द्विधा सालम्बेन, तत एकतः सालम्बेनापि तथा निर्भयेन गन्तव्यं न सभयेन । अत एवाह "पडिपक्खेसुयगमणं" ति अनेकाङ्गिक-चल-परिशाटिनिरालम्ब-समयाख्यानां पञ्चानां पदानां ये एकाङ्गिकादयः प्रतिपक्षास्तेषु गमनं कर्तव्यम् । अत्र पञ्चभि पदैर्द्वात्रिंशद् भङ्गाः- एकाङ्गिकः स्थिरोऽपरिशाटी सालम्बो निर्भय इत्यादि । एषु प्रथमो भङ्गः शुद्धः शेषा अशुद्धाः, तेष्वपि बहुगुणरेषु गमनं यतना च कर्तव्या । सण्डेवका अपि सङ्क्रमभेद एव, अत आह-तज्जातकाः 'इतरे वा' अथज्जातकाः सण्डेवका भवेयुः । तत्रैव जातास्तज्जाताः शिलादयः, अन्यतः स्थानादानीय स्थापिता अतज्जाताः इट्टालकादयः । तेष्वपि चा ऽचलाSSक्रान्ता ऽना-क्रान्तादयो भेदाः कर्तव्याः । उक्तः सङ्क्रमः । अथ स्थलमाह [भा. ५६४३ ] निदकोप्पर वरणेण व, थलमुदयं नोथलं तु तं चउहा । उवलजल वालुगजलं, सुद्धमही पंकमुदगं च ॥ - नद्या आकुण्टितकूर्पराकारं वलनं नदीकूर्परमुच्यते । जलोपरि कपाटानि मुक्त्वा पालिबन्धः क्रियते स वरण उच्यते । एताभ्यां यदुदकंपरिहत्य गम्यते तत् स्थलं द्रष्टव्यम् । अथ नोस्थलं तत् चतुर्विधम्- 'उपलजलम्' अधः पाषाणा उपरि जलं १ 'वालुकाजलम्' अधो वालुका उपरि पानीयं २ 'शुद्धोदकं' अधः शुद्धा मही उपरि जलं ३ 'पङ्कोदकं' अधः कर्दम उपरि जलम् ४ ॥ पङ्कोदकस्य चामूनि विधानानि [ भा. ५६४४ ] लत्तगपहे य खुलए, तहऽद्धजंघाए जानुउवरिं च । लेवे य लेवउवरिं, अकंतादी उ संजोगा || कृ- यावन्मात्रमलक्तकेन पादो रज्यते तावन्मात्रो यत्र पथि कर्दमः स लत्तकपथः । खुलकमात्रःपादघुण्टकप्रमाणः । अर्द्धजङ्घामात्रः जङ्घाद्धं यावद् भवति । 'जानूपरि' जानुमात्रं यावदू भवति । 'लेपः' नाभिप्रमाणः । तत ऊर्ध्व सर्वोऽपि लेपोपरि । एते सर्वेऽपि कर्दमप्रकाराः । चतुर्विधे नोरथले कर्दमे चाक्रान्ता ऽनाक्रान्त-समय-निर्भयादयः संयोगा यथासम्भवं वक्तव्याः । अमुना दोषेण युक्तः पन्थाः परिहर्तव्यः ॥ [ मा. ५६४५ ] जो विय होतऽकंतो, हरियादि- एतेहि चैव परिहीनो । तेन वि तु न गंतव्वं, जत्थ अवाया इमे होंति ॥ वृ-योऽपि च पन्थाः 'आक्रान्तः' दरमलितो हरितादिमिस्त्रसैश्च परिहीणो भवति तेनापि न गन्तव्यम् । यत्र अमी अपाया भवन्ति ॥ [पा. ५६४६ ] गिरिनदि पुन्ना वाला ऽहि-कंटगा दूरपारमावत्ता । चिक्खल्ल कल्लुगाणि य, गारा सेवाल उवलाय ॥ दृ-यत्र पथि गिरिनदी 'पूर्णा' तीव्रवेगा वहति, मकरादयो व्याला अहयो वा यत्र जलमध्ये भवनत्, कण्टका वा पूरेणानीताः, दूरपारम् आवर्तबहुलं वा जलं भवेत्, चिक्खल्लो वा नदीषु ताशो यत्र पादो निमज्जति, 'कल्लुकाः' गाथायांनपुंसकत्वं प्राकृतत्वात् पाषाणेषु द्वीन्द्रियजातिविशेषा . भवन्ति ते पादी छेदयन्ति, 'गारा' पाषाणशृङ्गिकाः, 'सेवालः ' प्रसिद्धः 'उपलाः' छिन्नपाषाणाः एमिरपायैर्वर्जितेन पूर्वं स्थलेन गन्तव्यम्, तदभावे सङ्क्रमेण, तदभावे नोस्थलेनापि ॥ तत्र चतुर्विधे नोस्थले पूर्वममुना गन्तव्यम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy