________________
उद्देशक : ४, मूलं- १३७, [भा. ५६२२]
२५५
वृ- अनुकम्पादोषाः प्रत्यनीकदोषा बहवो वा प्रत्यपाया नावमारूढानां भवन्ति । एतेषां च 'नानात्वं' विभागं यथाऽऽनुपूर्व्या वक्ष्यामि ॥ तदेवाह
[ भा. ५६२३] छुभणं जले थलातो, अन्ने वोयारिता छुभति साहू । ठवणं व पत्थिताए, दठ्ठे नावं व आनेती ॥
वृ - साधुं तरणार्थिनं ज्ञात्वा नौवाणिजो नाविको वा अनुकम्पया नावं स्थलाद् जले प्रक्षिपेत्, ये वा पूर्व नावमारोपितास्तानुदके तटे वा अवतार्य साधून प्रक्षिपेद् नावमारोपयेदित्यर्थः, सम्प्रस्थितां वा नावं 'साधव उत्तरिष्यन्ति' इति कृत्वा स्थापयेत् साधून् वा दृष्ट्वा परकूलाद् नावमानयेत् ॥ अत्र चामी दोषा:
[ भा. ५६२४ ] नावित-साधुपदोसो, नियत्तणऽच्छंतगा य हरियादी । जं तेन - सावएहि व, पवहण अन्नाए किणणं वा ॥
वृ- ये बेडिकाया अवतारितास्ते नाविकस्य वा साधूनां वा उपरि प्रद्वेषं गच्छेयुः, यद्वा ते निवर्तमानाः तटे वा तिष्ठन्तो हरितादीनां विराधनामन्यद्वाऽधिकरणं यत् कुर्वन्ति, यद्वा स्तेनश्वापदेभ्य उपद्रवं प्राप्नुवन्ति, अवहन्तीं वा नावं यत् प्रवयिष्यन्ति, अन्यस्या वा नावः क्रयणं करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् ।। परकूलाद् नावानयने दृष्टान्तमाह[भा. ५६२५] जगतो मुरुंडी, नावं दङ्कण अप्पणा नेति ।
कहिगा जति अक्खेवा, तत लहुगा मग्गणा पच्छा ॥
कृ- 'मज्जनगतः' स्नानं कुर्वन् मुरुण्डो राजा साधून् ध्ष्ट्वा नावमात्मना नयति, ततो नावारूढः साधुः कथिकाः कथयितुं लग्नः, यावन्तश्च तत्रावल्लकक्षेपास्तावन्ति चतुर्लघूनि, पश्चाच्च साधूनां मार्गणा तेनान्तःपुरे धर्मकथनार्थं कृता इत्यक्षरार्थः । भावार्थस्त्वयम् - पाडलिपुत्ते मरूंडो राया गंगाए नावारूढी उदगे हायंतो अभिरमइ । साहुणो परकूले पासित्ता सयमेव नावं नेउंसाहुणो विलग्गावित्ता भणइ कहं कहेह जाव न उत्तरामो । अक्खेवणाइकहालद्धिजुत्तो साहू कहेउमारद्धो । तेन कहिंतेन अक्खित्तो नावियं सनेइ-सणियं कड्डेहि जेण एस साहू चिरं कहेइ। साहूण कारणे सणियं गच्छंताणं जत्तिया आवल्लखेवा तत्तिया चउलहु । उत्तिन्त्रेण रन्ना अंतेउरे कहियं, जहासुंदराओ कहाओ तरङ्गवत्याद्याः कथयन्ति साधवः । अंतेउरियां कोउगं जायं । रायाणं विभवेतिजइ ते साहुणो इहमाणिज्जिज्ज तो अम्हे वि सुणेज्जामो । रन्ना गवेसित्ता पवेसिया साहुणो अंतेउरे ॥ तत्र च प्रविष्टानामेते दोषाः
-
[भा. ५६२६] सुत्त ऽत्थे पलिमंथो, नेगा दोसा य निवघरपवेसे । सइकरण कोउएणव, भुत्ता ऽभुत्ताण गमनादी ।
वृ- सूत्राऽर्थयोः परिमन्थः, स्मृतिकरणेन कौतुकेन च भुक्ताऽभुक्तानां प्रतिगमनादयोऽनेके दोषा नृपगृहप्रवेशे भवन्ति ॥ एते अनुकम्पायां दोषा उक्ताः । अथ प्रत्यनीकतायां दोषानाह[मा. ५६२७] वुब्मण सिंचण बोलण, कंबल-सबला य घाडितिनिमित्तं ।
अनुसट्टा कालगता, नागकुमारेसु उववन्ना ॥
- वाहनं सेचनं बोलनं वा प्रत्यनीकेन साधूनां क्रियते तत्र सामान्येन दृष्टान्तोऽयम्-मथुरायां भण्डीरयक्षयात्रायां कम्बल-शबली वृषभौ घाटिकेन मित्रेण जिनदासस्यानापृच्छया वाहितौ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org