SearchBrowseAboutContactDonate
Page Preview
Page 1305
Loading...
Download File
Download File
Page Text
________________ २५४ बृहत्कल्प-छेदसूत्रम् -३-४/१३७ उद्दिट्ठाओ गणियाओ वंजियाओ अंता मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरितए वा । तं जहा- गंगा जउणा सरऊ कोसिया मही ॥ वृ- अस्य सम्बन्धमाह[भा. ५६१८] अद्दाणमेव पगतं, तत्य थले पुव्ववन्निया मेरा । जति हो तत्थ तोयं, तत्थ उ सुत्तं इमं होति ॥ वृ- अनन्तरसूत्रे “छिन्नावाएसुपंथेसु" इति वचनाद् 'अध्वा' मार्ग एव तावत् प्रकृतः । तत्र च स्थले गच्छतां 'पूर्ववर्णिता' प्रथमोद्देशके अध्वसूत्रे भणिता मर्यादा अवधारणीया । यत्र तु मार्गे तोयं भवति तद्विषयविधिप्रतिपादकमिदं सूत्रं भवति || अनेन सम्बन्धेनायातस्यास्य व्याख्या'नो कल्पन्ते' न युज्यन्ते, सूत्रे एकवचननिर्देशः प्राकृतत्वात्, निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'इमाः' प्रत्यक्षासन्नाः पञ्च 'महार्णवाः' बहूदकतया महार्णवकल्पा महासमुद्रगामिन्यो वा 'महानद्यः' गरुनिम्नगाः 'उद्दिष्टाः' सामान्येनाभिहिता यथा महानद्य इति, गणिता यथा पश्ञ्चेति, 'व्यञ्जिताः' व्यक्तीकृता यथा गङ्गेत्यादि, 'अन्तर' मध्ये मासस्य द्विकृत्वो वा त्रिकृत्वो वा उत्तरीतुं वा बाहुजङ्घादिना सन्तरीतुं वा नावादिना । तद्यथा गङ्गा १ यमुना २ सरयू: ३ कोशिका ४ मही ५ । एष सूत्रार्थः ॥ अष भाष्यकारः कानिचिद् विषमपदानि विवृणोति [भा. ५६१९] इमाउ ति सुत्तउत्ता, उद्दिट्ठ नदीउ गणिय पंचेव । गंगादि वंजिताओ, बहुओदग महन्नवातो तू ॥ -इमा इति प्रत्यक्षवाचिना सर्वनाम्ना सूत्रोक्ता उच्यन्ते । उद्दिष्टा नद्य इति । गणिताः पञ्चेति । व्यञ्जिता गङ्गादिभिः पदैर्व्यक्तीकृताः । यास्तु बहूदकास्ता महार्णवा उच्यन्ते ॥ कृता विषमपदव्याख्या भाष्यकृता । अथ नियुक्तिविस्तरः[भा. ५६२०] पंच गणेणं, सेसा विउ सूइया महासलिला । तत्थ पुरा विहरिंसु य, न य तातो कयाइ सुक्खति ॥ वृ- 'पञ्चानां' गङ्गादीनां ग्रहणेन शेषा अपि याः 'महासलिला:' बहूदका अविच्छेदवाहिन्यस्ताः सूचिता मन्तव्याः । स्याद् बुद्धिः किमर्थं गङ्गादीनां ग्रहणम् ? इत्याह- " तत्थ" इत्यादि, येषु विषयेषु गङ्गादयः पञ्च महानद्यो वहन्ति तेषु पुरा साधवो विहृतवन्तो न च ताः कदाचनापि शुष्यन्ति अतस्तासां ग्रहणम् ॥ [भा. ५६२१] पंच परूवेतूणं नावासंतारिमे 'उ जं जत्थ । उत्तरणम्मि वि लहुगा, तत्थ वि आणाइणो दोसा || वृ-पञ्चापि महानदीः प्ररूप्य या याध्शी यत्र विषये तां तथा वर्णयित्वा प्रस्तुतमभिधातव्यम् । तच्चेदम्-नीसन्तारिमं यत्रोदकं तत्र यत् षट्कायविराधनामात्मविराधनां वा प्राप्नोति तन्निष्पन्नं प्रायश्चित्तम् । यत्रापि जङ्घादिनोत्तरणं भवति तत्रापि चतुर्लघुकाः, अपिशब्दात् सन्तरणेऽपि चतुर्लघु । 'तत्रापि' उत्तरणे आज्ञादयो दोषाः, किं पुनः सन्तरमे ? इत्यपिशब्दार्थः ॥ तत्र सन्तरणे तावद्दोषानाह[भा. ५६२२] Jain Education International अनुकंपा पडिनीया, व होज बहवो उ पञ्चवाया ऊ। एतेसि नाणत्तं वोच्छामि अहानुपुवीए ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy