________________
उद्देशक : ४, मूलं-१३६, [भा. ५६१३]
२५३ साधवो हिण्डन्तेऽर्द्ध पारिहारिकः । अथ साधूनामः पर्यटतां न पूर्यते ततस्तैः सर्वस्मिन् ग्रामे पर्यटिते पारिहारिकः पश्चात् पर्यटति॥
अथ पारिहारिको यथा कारणे गच्छसाधूनां वैयावृत्यं करोति तथाऽभिधीयते[भा.५६१४] बिइयपय कारणम्मिं, गच्छे वाऽऽगाढे सो तुजयणाए।
. अनुपरिहारिओ कप्पट्टितो व आगाढ संविग्गो॥ वृ-द्वितीयपदे 'कारणे कुलादिकार्यपारिहारिकोऽपिसाधूनां वैयावृत्यं करोति, यथापाराञ्चिकः "अच्छउ महानुभागो, जहासुहं गणसयागरो संघो।" इत्यादि भणित्वा वैयावृत्यं कृतवान् । तथा गच्छे वा आगाढं कारणं समजनि ततः सोऽपि यतनया' वक्ष्यमाणया भक्त-पानाहरणादिकं वैयावृत्यं करोति। अनुपरिहारिय" इत्यादि पश्चार्द्धम्-अथ गच्छसाधवः प्रज्ञप्तिमहाश्रुतादीनामन्यतरमागाढयोगप्रतिपन्ना उपाध्यायश्च ग्लानः कालगतो वा ततोऽनुपारिहारिकः कल्पस्थितो वा वाचनां गच्छस्य ददाति । अथ तावप्यशक्तौ ततः परिहारिकोऽपि वाचनां ददाति । स च तां ददानोऽपि संविग्न एव मन्तव्यः । इहमा भूत् कस्यापि मति-पूर्वसूत्रेण प्रतिषिद्धं सूत्रार्थदानादिकमनेनानुज्ञातम्, एवंपूर्वापरविरुद्धमाचरन् असंविग्नोऽसाविति तन्मतिव्यपोहार्थं संविग्नग्रहणम्॥
अथ गच्छस्यागाढकारणं व्याचष्टे[भा.५६१५] मयण च्छेव विसोमे, देति गणे सो तिरो व अतिरो वा।
तब्माणेसु सएसुव, तस्स विजोगंजनो देति ।। वृ-मदनकोद्रवकूरेण गच्छः सर्वोऽपिग्लानःजातः,छेवकम्-अशिवंतेनवागृहीतः,प्रत्यनीकेन वा विषं दत्तम्, अवमौदर्ये वा न संस्तरति; तत एवमागाढे कारणे सः' पारिहरिको भक्तपानमौषधानि वा 'तद्भाजनेषु' गछसत्केषु पात्रकेषु तेषामभावे स्वभाजनेषु वा गृहीत्वा तिरोहितमतिरोहितं वा 'गणे' गच्छस्य प्रयच्छति । तिरोहितं नाम-स आनीयानुपारिहारिकस्य ददातिसोऽपिगच्छस्यार्पयति, अथानुपारिहारिकोऽपिग्लानस्तदा कल्पस्थितस्य ददाति सोऽपि तथैव गच्छस्यार्पयति । कल्पस्थितस्यापि ग्लानत्वेऽतिरोहितं-स्वयमेव गच्छस्य ददाति । यच्च तेषां योग्यं जनो ददाति तत् तेषामर्थाय गृह्णाति, यत् तु तस्य योग्यं तद् आत्मनो गृह्णाति ।। [भा.५६१६] एवं ता पंथम्मि, जत्थ विय ठिया तर्हि पि एमेव ।
बाहिं अडती डहरे, इयरे अद्धद्ध अडितेवा। वृ-एवं वत् पथि गच्छतामभिहितम् । यत्रापि च ग्रामादौ स्थितास्तत्राप्येवमेव मन्तव्यम् । मार्गे च यत्र गच्छोन प्राप्तस्तत्र डहरे ग्रामे पारिहारिकः प्राप्तोबहिमि पर्यटति । "इतरे"त्ति अथ वेलातिक्रमो दूरे वा स ग्रामः ततस्तत्रैव मूलनामेऽद्धे पारिहारिकः पर्यटति अर्द्ध गच्छसाधवः, तेन वा अटिते गच्छः पर्यटति ।। किंबहुना? पक्षद्वयस्याप्ययं परमार्थ उच्यते[भा.५६१७] कप्पट्टिय परिहारी, अनुपरिहारी व भत्त-पानेनं ।
पंथे खेत्ते व दुवे, सो वि य गच्छस्स एमेव ।। घृ-पथि वा क्षेत्रे वा द्वयोरपि वर्तमानो ग्लानत्वादौ कारणे कल्पस्थितोऽनुपारिहारिको वा पारिहारिकस्य भक्त-पानेनोपग्रहं करोति । सोऽपिच पारिहारिको गच्छस्यैवमेवोपग्रहं करोति ।
मू. (१३७) नो कप्पइ निग्गंथाण वा निग्गंधीण वा इमाओ पंच महनवाओ महानदीओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org