________________
२५२
सर्वमपि तूष्णीकभावेन करोति ।। अथ भिक्षाहिण्डनादौ विधिमाह[भा. ५६०९ ] नीनेति पवेसेति व, भिक्खगए उग्गहं तउग्गहियं । रक्खति य रीयमाणं, उक्खिवइ करे य पेहाए ।
वृ- मिक्षां गतस्य पारिहारिकस्य 'अवग्रहं' प्रतिग्रहं तेन-पारिहारिकेण गृहीतमनुपारिहारिकः पात्रबन्धा निष्काशयति तत्र वा प्रवेशयति, 'रीयमाणंच' पर्यटन्तं श्वान-गवाद्युपद्रवात् प्रपतनादेर्वा रक्षति, भाण्डप्रत्युपेक्षणायामशक्तस्य 'करी' हस्तावनुपरिहारिक उत्क्षिपति येन स्वयमेव प्रत्युपेक्षते । आह-यदि नामाशक्तस्तर्हि कस्मादसौ भिक्षाहिण्डनादिकं विधाप्यते ? इत्याह
बृहत्कल्प-छेदसूत्रम् -३-४/१३६
[ भा. ५६१० ] एवं तु असढभावो, विरियायारो य होति अनुचित्रो । भयजननं सेसाण य, तवो य सप्पुरिसचरियं च ॥
बृ- ' एवं ' यथाशक्ति कुर्वतस्तस्याशठभावो भवति, वीर्याचारश्चानुचीर्णो भवति, 'शेषाणामपि ' साधूनां भयजननं कृतं भवति, तपः सम्यगनुपालितं भवति, सत्पुरुषचरितं च कृतं भवति ॥ अथ “छिन्नवाएसु पंथेसु" इत्यादि सुतरं व्याचष्टे
[ मा. ५६११] छिन्नावात किलंते, ठवणा खेत्तस्स पालणा दोन्हं । असहुस्स भत्तदानं, कारणे पंथे व पत्ते वा ॥
वृ- छिन्नापातेऽध्वनि गच्छन् परिहारिको यदि बुभुक्षया तृषा च क्लान्तो ग्रामं प्राप्तुं न शक्नोति ततोऽनुपारिहारिको भक्त - पानं गृहीत्वा तस्यान्तरग्रामे ददाति । अथवा स भगवान् अनिगूहितबल - वीर्यो बहिग्रमे भिक्षां पर्यटि, तत्र हिण्डित्वा तपः क्लान्तो यदा न शक्नोत्यागन्तुं तत आगन्तुमसमर्थे तस्मिन् क्षेत्रस्य स्थापना कर्तव्या, मूलग्राम एव स हिण्डते न बहिर्भिक्षाचर्यां गच्छतीत्यर्थः । " पालणा दोन्हं " ति 'द्वयोरपि' पारिहारिका - ऽनुपारिहारिकयोः पालना कर्तव्या । कथम् ? इत्याह-“असहुस्स भत्तदानं कारणे" त्ति यदि स पारिहारिकः स्वग्रामेऽपि हिण्डितुं न शक्नोति ततोऽनुपारिहारिको हिण्डित्वा तस्य प्रयच्छति अनुपारिहारिकस्तु मण्डलीतः समुद्दिशति; अथानुपारिहारिकोऽपि ग्लानत्वेनासहिष्णुर्भिक्षां गन्तुं न शक्नोति तत एवंविधे कारणे द्वयोरपि गच्छसत्काः साधवः प्रयच्छन्ति; एवं द्वावपि पालितौ-अनुकम्पितौ भवतः । एवं स्थानस्थितानां यतना भणिता । सम्प्रति पूर्णे मासे वर्षावासे वा ग्रामानुग्रामं विहरतां "पंथे व पत्ते व "त्ति पथि वा ग्रामे प्राप्तानां वा यतनाऽभिधीयते ॥
[मा. ५६१२]
उवयंति डहरगामं, पत्ता परिहारिए अपावंते ।
तस्सऽट्ठा तं गामं, ठविंति अन्नेसु हिंडंति ॥
- पथि व्रजन्तो डहरं लघुतरं ग्रामं प्राप्ताः परिहारिकश्चाद्यापि न प्राप्नोति ततस्तस्यार्थ तं ग्रामं स्थापयन्ति । स्वयं तु गच्छसाधवोऽन्येषु ग्रामेषु भिक्षां हिण्डन्ते ॥
[ भा. ५६१३]
Jain Education International
वेलवाते दूरम्मिय गामे तस्स ठाविउमद्धं ।
अद्धं अडंति सो वि य, अद्धमडे तेहि अडिते वा ॥
वृ- अथ यावत् ते गच्छन्ति तावदन्यग्रामेषु वेलाया अतिपातो भवति दूरे वा स ग्रामस्ततः 'तस्यैव' मूलग्रामस्यार्द्धं परिहारिकस्यार्थाय स्थापयित्वा द्वितीयमर्द्ध स्वयमटन्ति । एवं तावत् पथि वर्तमाने पारिहारिके भणितम् । यत्र तु साधवः पारिहारिकश्च समकमेव प्राप्तात्राप्यर्द्धे ग्रामे
For Private & Personal Use Only
www.jainelibrary.org