SearchBrowseAboutContactDonate
Page Preview
Page 1307
Loading...
Download File
Download File
Page Text
________________ २५६ बृहत्कल्प-छेदसूत्रम् - ३-४/१३७ तन्निमित्तं सञ्जातवैराग्यौ श्रावकेणानुशिष्टौ भक्तं प्रत्याख्याय कालगती नागकुमारेषूपपन्नौ || ततस्ताभ्यां किं कृतम् ? इत्याह [मा. ५६२८ ] वीरवरस्स भगवतो, नावारूढस्स कासि उवसग्गं । मिच्छद्दिट्ठि परद्धो, कंबल - सबलेहिं तारिओ भगवं ॥ वृ- वीरवरस्य भगवतो नावारूढस्य सुदाढो नागकुमार उपसर्गमकार्षीत् । तेन मिध्यादृष्टिना प्रारब्धो जले बोलयितुं कम्बल-शबलाभ्यां मोचितो भगवान् । कथानकमावश्यकादवधारणीयम्। एवं नावारूढस्य साधोर्बोलनादिकं सम्भवतीति ॥ अथ वाहनादिपदानि व्याचष्टे [भा. ५६२९] सीसगता वि न दुक्खं, करेह मज्झं ति एवमवि वोत्तुं । जा छुमंतु समुद्दे, मुंचति नावं विलग्गेसु ॥ वृ- 'सिद्धार्थका इव शिरसि गता अपि मम दुःखं न कुरुथ' एवमप्युक्त्वा कश्चित् प्रत्यनीको यदा साधवो नावं विलग्नास्तदा । नावं नदीमुखेषु मुञ्चति येन समुद्रे प्रक्षिप्यन्ते तत्र पतिताः क्लिश्यन्तां म्रियन्तां चेति कृत्वा । गतं वाहनम् । अथ सेचनं बोलनं चाह [भा. ५६३०] सिंचति ते उवहिं वा, ते चैव जले छुभेज उवधिं वा । मरणोवधिनिष्पन्नं, अनेसिग तणादि तरपन्नं ॥ वृ- नाविकोऽन्यो वा प्रत्यनीकस्तान् साधूनुपधिं वासिञ्चति, तानेव साधूनुपधिं वा जले प्रक्षिपेत्, बोलयेदित्यर्थः । तत्र चात्मविराधनायां मरणनिष्पन्नम्, उपधिनाशे उपधिनिष्पन्नम् । यच्चानेषणीयमुपधिं ग्रहीष्यन्ति तृणानि वा सेविष्यन्ते तन्निष्पन्नं सर्वमपि प्राप्नोति । तरपण्यं वा स मार्गयेत्, अदीयमाने चिरं निरुन्ध्यात्, दीयमानेऽधिकरणम् ॥ गताः प्रत्यनीकदोषाः । अथ 'बहवः प्रत्यपायाः' इति व्याचष्टे [भा. ५६३१] संघट्टणाऽऽयसिंचण, उवगरणे पडणं संजमे दोसा । सावत तेने तिण्हेगतर, विराधना संजमा ऽऽयाए ॥ - त्रसादीनां सङ्घट्टना, जलेन वा सेचनमुपकरणस्यात्मनो वा, पतनं वा, एते संयमे दोषाः । श्वापदकृता स्तेनकृता वा आत्मविराधना । “तिहेगयर" त्ति अनुकम्पा - प्रत्यनीकतातदुभयादिरूपाणां त्रयाणामेकतरस्मिन् संयमविराधनाऽऽत्मविराधना च भवति । एष सङ्ग्रहगाथासमासार्थः ।। अथैनामेव विवृणोति [ भा. ५६३२] तस - उदग-वणे घट्टण, सिंचण लोगे अ नावि सिंचणता । वुष्मण उवधाऽऽतुभये, मगरादि समुद्दतेना य ॥ वृ- जलोद्भवानां त्रसानाम् उदकस्य वा सेवालादिरूपस्य वनस्पतेर्वा सङ्घट्टनं भवेत् । लोकेन नाविकेन वा साधोरुपकरणस्य वा सेचनं क्रियेत । अतिसम्बाधे वा उपधेरात्मनस्तदुभयस्य वा स्ताधेऽस्ताधे वा जले 'वुमणं” बोलनं भवति । मकरादयः श्वापदाः समुद्रस्तेनाश्च तत्र भवेयुः । इदमेव व्याचष्टे [भा. ५६३३] ओहार-मगरादीया, घोरा तत्थ उ सावया । सरीरोवाहिमादीया, नावातेना य कत्थई ॥ वृ- ओहार - मकरादयः 'तत्र' नद्यां घोराः श्वापदा भवन्ति । ओहारः- मस्त्यविशेषः, स किल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy