________________
उद्देशक : ४, मूलं- १३६, [भा. ५५९५ ]
[भा. ५५९५ ]
२४९
वीसुंभणसुते वा, गीतो बलवं च तं परिट्ठप्पा | चोयण कलहम्मि कते, तस्स उ नियमेण परिहारो ॥
वृ- अथवा 'विष्वग्भवनसूत्रे' मरणसूत्रे गीतार्थ 'बलवांश्च' प्रथमसंहननयुक्तः 'तद्' मृतकं परिष्ठाप्य काष्ठमानयन् गृहस्थेन नोदितो यदि कलहं करोति तदा तस्य नियमेन परिहारो दातव्यः, तस्य च विधिरनेनाभिधीयते ॥ अनेन मस्बन्धेनायातस्यास्य व्याख्या परिहारकल्पस्थितस्य भिक्षोः कल्पते आचार्योपाध्यायेन तद्दिवसम्' इन्द्रमहाद्युत्सवदिने एकस्मिन् गृहे 'पिण्डपातं ' विपुलमवगाहिमादिभक्तलाभं दापयितुम् । ततः परं “से” तस्य नो कल्पते अशनं वा पानं वा खादिमं वा स्वादिमं वा दातुमनुप्रदातुं वा । तत्र दातुं एकशः, अनुप्रदातुं पुनः पुनः । किन्तु कल्पते "से" तस्य परिहारिकस्यान्यतरद् वैयावृत्यं कर्तुम् । तद्यथा- उत्थापनं वा निषादनं वा त्वग्वर्तापनं वा उच्चार-प्रश्रवण- खेल - सिङ्घानादीनांच विवेचनं वा परिष्ठापनं 'विशोधनं वा' उच्चारादिखरण्टितोपकरणादेः प्रक्षालनं कर्तुम् । अथ पुनरेवं जानीयात् 'छिन्नापातेषु' व्यवच्छिन्नगमा ऽऽगमेषु पथिषु 'आतुरः' ग्लान: 'झिञ्झितः ' बुभुक्षार्त्त 'पिपासितः' तृषितो न शक्नोति विवक्षितं ग्रामं प्राप्तुम्, अथवा ग्रामादावपि तिष्ठतां सः 'तपस्वी' षष्ठाऽष्टमादिपरिहारतपः कर्म कुर्वन् दुर्बलो भवेत्, ततो भिक्षाचर्यसा क्लान्तः सन् मूर्चेद्वा प्रपदेद्वा, एवं "से" तस्य कल्पते अशनादिकं दातुमनुप्रदातुं वा । एष सूत्रार्थः ॥ अथ नियुक्तिविस्तरः
[ भा. ५५९६ ]
कंटगमादीसु जहा, आदिकडिल्ले तहा जयंतस्स । अवसं छलणाऽऽलोयण, ठवणा जुते य वोसग्गो ॥
वृ- ननु स भगवान् 'प्रमादो न कर्तव्यः' इत्युपदेशेन संयमाध्वनि गच्छन् कथं परिहारकत्वं प्राप्तः ? इति उच्यते यथा कण्टकाकीर्णे मार्गे उपयुक्तस्यापि कण्टको लगति, आदिशब्दाद् विषमे वा यथोपयुक्तोऽ प्यागच्छन् प्रपतति, कृतप्रयत्लो वा यथा नदीवेगेन हियते, सुशिक्षितोऽपि यथा स्वङ्गेन लाञ्छयते; एवं कण्टकादिस्थानीयमादिकडिल्लम्-आद्यगहनं यद् उद्गमोत्पादनैषणारूपं ज्ञानादिरूपं वा तत्र यतमानस्याप्यवश्यं कस्यापि च्छलना भवति, छलितेन चावश्यमालोचना दातव्या । ततो यः संहनना ऽऽगमादिभिर्गुणैर्युक्तः सहितस्तस्य 'स्थापना' परिहारतपः प्रायश्चित्तदानं कर्तव्यम् । तत्र चायं विधिः प्रशस्तेषु द्रय-क्षेत्र काल-भावेषु तस्य साधोर्निर्विघ्नतपः कर्मसमाप्तये शेषसाधूनां च भयजननार्थं सकलेनापि गच्छेन 'व्युत्सर्गः' कायोत्सर्गः कर्तव्यः । तत्राचार्यो भणति - "एत्स साधुस्स निरवसग्गनिमित्तं ठामि काउस्सग्गं जाव वोसिरामि" ततश्चतुर्विंशतिस्तवमनुप्रेक्ष्य "नमो अरिहंताणं" इति भणित्वा चतुर्विंशतिस्तवं मुखेनोच्चार्य भणति ॥
भा. (५५९७ ] एस तवं पडिवज्जति, न किंचि आलवति मा न आलवहा । अत्तट्टचिंतगस्सा, बाघातो भे न कायव्वो ॥
वृ- 'एषः' आत्मविशुद्धिकारकः परिहारतपः प्रतिपद्यते अतो न किञ्चिद् युष्मानालपति, अत्र "सत्सामीप्ये सद्वद्वा" इति सूत्रेण भविष्यदर्थे वर्तमाना, ततो नालप्स्यतीत्यर्थः यूयमपि “णं” एनं माऽऽलपत । एष युष्मान् सूत्रा - ऽर्थी शरीरोदन्तं वा न पृच्छति, यूयमप्येनं मा पृच्छत । एवमन्येष्वपि परिवर्तनादिपदेषु भावनीयम् । इत्थमात्मार्थचिन्तकस्यास्य ध्यानस्य परिहारतपसश्च व्याघातः “भे" भवद्भिर्न कर्तव्यः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org