________________
२५०
वृहत्कल्प-छेदसूत्रम् -३-४/१३६
अथ यानि पदानि तेन साधुभिश्च परस्परं परिहर्तव्यानि तानि दर्शयति[मा.५५९८] आलावण पडिपुच्छण, परियटुट्ठाण वंदनग मत्ते।
पडिलेहण संघाडग, भत्तदान संभुंजणा चेव।। वृ. 'आलपन' सम्भाषणमनेन युष्माकं न कर्तव्यं युष्माभिरप्यस्य न विधेयम् । एवं सूत्राऽर्थयोः शरीरवार्ताया वा प्रतिप्रच्छनम्, पूर्वाधीतस्य श्रुतस्य परिवर्तनम्, कालग्रहणनिमित्तं "उठाणं"तिउत्थापनम्, रात्री सुप्तोत्थितैर्वन्दनककरणम्, खेल-कायिका संज्ञामात्रकाणांसमर्पणम्, उपकरणस्य प्रत्युपेक्षणं भिक्षा-विचारादौ गच्छतां सञ्चाटकेन भवनम्, भक्तस्य वापानकस्य वा दानम्, एकमण्डल्यां वा सम्-एकीभूय भोजनंन कर्तव्यम् ।।अथ कुर्वन्ति तत इदं प्रायश्चित्तम्[भा.५५९९] संघाडगाओ जाव उ, लहुओ मासो दसह उपयाणं ।
. लहुगा य भत्तदाणे, संभुंजण होतऽणुग्घाता।। वृ-एतेषामालपनादीनांदशानांपदानांमध्यादालपनादारभ्ययावत्सबाटकपदंतावद्अष्टानां पदानांकरणे गच्छसाधूनां प्रत्येकंमासलघु।अथ भक्तदानं कुर्वन्ति ततश्चतुर्लघु । एकमण्डल्यां सम्मुञ्जते ततस्तेषामेव चत्वारोऽनुद्धाता मासाः ॥परिहारकस्य इदं प्रायश्चित्तम्[भा.५६००] अट्ठण्हंतु पदाणं, गुरुओ परिहारियस्स मासो उ।
भत्तपदाने संभुंजणे य चउरो अनुग्घाया।। वृ-पारिहारिकस्याष्टानां पदानां सङ्घाटकान्तानां करणे मासगुरु । भक्तप्रदानं सम्भोजनं वा कुर्वतश्चत्वारोमासा अनुद्धाताः । इमे च दोषाः[भा.५६०१] कुव्वंताणेयाणि उ, आणादि विराधना दुवेण्हं पि।
देवय पमत्त छलणा, अधिगरणादी य उदितम्मि॥ वृ-'एतानि' आलपनादीनि कुर्वतामाज्ञादयो दोषाः, विराधनाच द्वयोरपि पारिहारिकगच्छसाधुवर्गयोर्भवति । प्रमत्तस्य च देवतया छलनम्। अन्येन वासाधुना भणितः-'किमित्यालपनादीनि करोषि ?' एवं 'उदिते' भणिते सति अधिकरणादयो दोषा भवन्ति ॥
अथ “कप्पइ० एगगिहंसि" इत्यादि सूत्रं व्याख्यानयति[भा.५६०२] विउलं व भत्त-पानं, दणं साहुवज्जणंचेव ।
नाऊण तस्स भावं, संघार्ड देति आयरिया। इ-सङ्खड्यामुत्सवे वा विपुलं भक्त-पानं साधुभिरानीतं दृष्ट्वा तद्विषय ईषदभिलाषो भवेत्, 'साधुवर्जनां च 'साधुभिः खदुश्चरितैः परित्यक्तोऽहम्' इत्येवं मनसि चिन्तयेत् । एवं ज्ञात्वा तदीयं भावमाचार्या सङ्घाटकं ददति ॥अथेदमेव भावपदं व्याचष्टे. [भा.५६०३] भावो देहावत्था, तप्पडिबद्धो व ईसि भावो से।
अप्पातित हयतण्हो, वहति सुहं सेसपछित्तं ।। दृ-भावो नाम 'देहावस्था' देहस्य दुर्बलता 'तप्रतिबद्धो वा' विपुलभक्त-पानविषय ईषद् 'भावः अभिलाषः तस्य सातः, ततश्च यथाभिलषिताहारेणाप्यायितोहततृष्णश्च सन्सुखेनैव शेषं प्रायश्चित्तं वहतीति मत्वा सङ्घाटको दीयते ॥
अमुमेवार्थमन्याचार्यपरिपाट्या किञ्चिद् विशेषयुक्तमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org