SearchBrowseAboutContactDonate
Page Preview
Page 1296
Loading...
Download File
Download File
Page Text
________________ २४५ उद्देशक : ४, मूलं-१३५, [भा. ५५७५] [भा.५५७५] सो निच्छुमति साहू, आयरिएतं च जुञ्जसि गमेतुं। नाऊण वत्थुभावं, तस्स जती निति गिहिसहिया। वृ-येन साधुना त्वया सह कलहितं स साधुराचार्य साम्प्रतं निष्काश्यते, अस्मदीयं च वचो गुरवोनसुष्टु शृण्वन्ति, अतआचार्यान् गमयितुं त्वं 'युज्यसे युक्तोमवसि। एवमुक्ते यद्याचार्य गमयति क्षामयति च ततो लष्टम् । अथ ब्रूते-पश्यामस्तावत् तं कलहकारिणम्। ततो ज्ञात्वा वस्तुनः-गृहस्थस्य भावं-'किमयं हन्तुकामस्तमानाययति? उत क्षामयितुकामः?' एवमभिप्रायं ज्ञात्वातस्य ये सुहृदस्तैहिभिः सहितायतयस्तं साधुंतत्र नयन्ति॥अथासौ गृही तीव्रकषायतय नोपशाम्यति ततस्तस्य सादोर्गच्छस्य च रक्षणार्थमयं विधिः[भा.५५७६] वीसुंउवस्सए वा, ठवेंति पेसंति फडपतिणो वा। देति सहाते सव्वे, व नेति गिहिते अनुवसंते॥ वृ-'विष्वग्' अन्यस्मिन्नुपाश्रयेतं साधुंस्थापयन्ति, अन्यग्रामे वायःस्पर्द्धकपतिस्तस्यान्तिके प्रेषयन्ति । निर्गच्छतश्चतस्य सहायान् ददति । अथ मासकल्पः पूर्णस्ततः सर्वेऽपि नियन्ति' निर्गच्छन्ति ॥एषगृहस्थेऽनुपशान्ते विधिः अथगृहस्थ उपशाम्यतिन साधुस्तदातस्येदप्रायश्चित्तम्[भा.५५७७] अविओसियम्मि लहुगा, भिक्ख वियारे य वसहि गामेय। गणसंकमणे भन्नति, इहं पितत्थेव वच्चाहि ॥ वृ- अधिकरणेऽव्यवशमिते यदि भिक्षां हिण्डते, विचारभूमि विहारभूमि वा गच्छति, वसतेर्निर्गत्यापरसाधुवसतिं गच्छति, ग्रामानुग्राम विहरति; एतेषु सर्वेषु चतुर्लघु अथापरंगणं सङ्क्रामति ततस्तैरन्यगणसाधुभिर्मण्यते-इहापि गृहिणः क्रोधनाः सन्ति ततस्तत्रैव व्रज ।। इदमेव सुव्यक्तमाह[भा.५५७८] इह वि गिही अविसहणा, न य वोच्छिना इहं तुह कसाया। अनेसिं पाऽऽयासं, जनइस्ससि वच्च तत्थेव ।। वृ.इहापि' ग्रामे गृहिणः ‘अविषहणाः' क्रोधनाः सन्ति, न चेह समागतस्य तव कषाया व्यवच्छिन्नाः, अतः 'अन्येषामपि अस्मदादीनामायासं जनयिष्यसि तस्मात तत्रैव व्रज ॥ {भा.५५७९] सिम्मि न संगिण्हति, संकंतम्मि उ अपेसणे लधुगा। गुरुगा अजयणकहणे, एगतरपतोसतो जंच॥ वृ.अनुपशान्ते साधौ गणान्तरं सङ्क्रान्ते मूलाचार्येण साधुसङ्घाटकस्तत्र प्रेषणीयः । तेन च साटकेन 'शिष्टे' कथिते सति द्वितीयाचार्यो न सङ्गृह्णीयात् । अथ मूलाचार्यः सङ्घाटकं न प्रेषयति तदा चतुर्लधु । सङ्घाटको यद्ययतनया कथयति ततश्चतुर्गुरु । अयतनाकथनं नामबहुजनमध्ये गत्वा भणति-एष निर्धर्मा गृहिभिः सममधिकरणं कृत्वा समायातः, सकलेनापि गच्छेन भणितो नोपशान्तः । एवमयतनया कथिते स साधुरेकतरस्य-गृहिणः साधुसङ्घाटकस्य मूलाचार्यस्य वा प्रद्वेषतो यत् करिष्यति तनिष्पन्न प्रायश्चित्तम्॥तस्मादयं विधि[मा.५५८०] उवसामितो गिहत्थो, तुम पि खामेहि एहि वच्चाहि । दोसा हु अनुवसंते, न य सुन्झति तुल्झ सामइगं॥ वृ-पूर्वं गुरूणामेकान्ते कथयित्वा ततः स्वयमेकान्ते सभण्यते-उपशामितः स गृहस्थः, एहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy