SearchBrowseAboutContactDonate
Page Preview
Page 1295
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -३-४/१३५ गुरूणामालोचनीयम् । ततो गुरुभिरुपशमनार्थं वृषभास्तस्य गृहस्थस्य मूले प्रेषणीयाः । यदि न प्रेषयन्ति तदा चतुर्लुघु ॥ [भा. ५५७० ] आणादिणो य दोसा, बंधन निच्छुभण कडगमद्दो य । वुग्गाहण सत्थेण व, अगनुवगरणं विसं वारे ॥ वृ- आज्ञादयश्च दोषाः । स च गृहस्थो येन साधुना सहाधिकरणं जातं तस्य अनेकेषां वा साधूनां बन्धनं निष्काशनं वा कुर्यात् । 'कटकमर्दो नाम' सर्वानपि साधून् कोऽपि व्यपरोपयेत् । व्युद्ग्राहणं वा लोकस्य कुर्यात् नास्त्यमीषां दत्ते परलोकफलम्, यद्वा अमी संज्ञां व्युत्सृज्य विकिरन्ति न च निर्लेपयन्ति । खङ्गादिना वा शस्त्रण साधूनाहन्यत्, अग्निकायेन वा प्रतिश्रयं दहेत्, उपकरणं वा अपहरेत्, विष-गरादिकं वा दद्यात्, भिक्षां वा वारयेत् ॥ तच वारणमेतेषु स्थानेषु कारयेत्[भा. ५५७१] रज्जे देसे गामे, निवेसण गिहे निवारणं कुणति । जा तेन विना हानी, कुल गण संघे य पत्थारो ॥ वृ- राज्ये सकलेऽपि निवारणं कारयेत्-एतेषां भक्तमुपधिं वसतिं वा मा दद्यात् । एवं देशे ग्रामे निवेशने गृहे वा निवारणं करोति । ततो या 'तेन' भक्तादिना विना परिहाणि तां वृषभान् अप्रेषयन् गुरु प्राप्नोति । अथवा यः प्रभवति स कुलस्य गणस्य सङ्घस्य वा 'प्रस्तारं' विस्तरेण विनाशं कुर्यात् ॥ २४४ [भा. ५५७२] एयस्स नत्थि दोसो, अपरिक्खियदिक्खगस्स अह दोसो । पभु कुज्जा पत्थारं, अपभु वा कारवे पभुणा ।। वृ- गृहस्थश्चिन्तयति 'एतस्य साधोर्नास्ति दोषः किन्तु य एनमपरीक्ष्य दीक्षितवान् तस्यायं दोषः, अतस्तमेव घातयामि' इति विचिन्त्य प्रभुः स्वयमेव प्रस्तारं कुर्यात् । अप्रभुरपि द्रव्यं राजकुले दत्त्वा प्रभुणा कारापयेत् ।। यत एते दोषाः [ भा. ५५७३ ] तम्हा खलु पट्टवर्ण, पुव्वं वसभा समं च वसमेहिं । अनुलोमण पेच्छामो, नेति अनिच्छं पि तं वसभा ॥ वृ- तस्माद् वृषभाणां तत्र प्रस्थापनं कर्तव्यम् । “पुव्वं" ति येन साधुनाऽधिकरणं कृतं तं तावद् न प्रेषयन्ति यावद् वृषभाः पूर्वं प्रज्ञापयन् । किं कारणम् ? उच्यते स गृहस्थस्तं दृष्ट्वा कदाचिदाहन्यात् । अथ ज्ञायते 'नाहनिष्यति' ततो वृषभैः समं तमपि प्रेषयन्ति । तत्र गताश्चानुकूलवचोमि 'अनुलोमनं' प्रगुणीकरणं तस्य कुर्वन्ति । अथासौ गृहस्थो ब्रूयात् आनयत तावत् तं कलहकारिणं येनैकवारं पश्यामः पश्चात् क्षमिष्ये न वा । ततो वृषभास्तदभिप्रायं ज्ञात्वा तं साधुं गृहिणः समीपमानयन्ति । अथासौ साधुर्नेच्छति ततो बलादपि वृषभास्तं तत्र नयन्ति ॥ ते च वृषभा ईशगुणयुक्ताः प्रस्थाप्यन्ते [ भा. ५५७४ ] तस्संबंधि सुही वा, पगता ओयस्सिणो गहियवक्का । तस्सेव सुही सहिया, गर्मेति वसभा तगं पुव्वं ।। वृ- तस्य गृहिणः संयतस्य वा सम्बन्धिनः सुहृदो वा ते भवेयुः, 'प्रगताः' लोकप्रसिद्धाः 'ओजस्विनः' बलीयांसः 'गृहीतवाक्याः' आदेयवचसः, ईद्दशा वृषभाः 'तस्यैव' गृहिणः सुहृद्भिः सहिताः 'तर्क' गृहस्थं पूर्वं 'गमयन्ति' प्रज्ञापयन्ति ॥ कथम् ? इत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy