________________
२४६
बृहत्कल्प-छेदसूत्रम् -३-४/१३५ व्रजामः, त्वमपितं गृहस्थंक्षामय, अनुपशान्तस्येह परंत्र च बहवो दोषाः, समभावः सामायिक तच्चैवं सकषायस्य भवतः 'न शुध्धति' न शुद्धं भवति । एवमेकान्ते भणित यदि नोपशाम्यति ततो गणमध्येऽप्येवमेव भणनीयः ।। ततोऽपि कश्चिन्नोपशाम्येत् प्रत्युत खचेतसि चिन्तयेत् 'तस्य गृहिणो निमित्तेनेहाप्यवकाशं न लभे' ततः[भा.५५८१] तमतिमिरपडलभूतो, पावं चिंतेइ दीहसंसारी।
पावं ववसिउकामे, पछित्ते मग्गणा होति ।। -कृष्णचतुर्दशीरजन्यांमास्वरद्रव्यामावस्तमउच्यते, तस्यामवचरात्रीयदारजो-धूमधूमिका भवति तदा तमस्तिमिरं भण्यते, यदा पुनस्तस्यामेव रजन्यां रजःप्रभृतयो मेघदुर्दिनं च भवति तदा तमस्तिमिरपटलमभिधीयते। यया तत्रैवान्धकारे पुरुषः किञ्चिदपिनपश्यति एवं यस्तीव्रतीव्रतर-तीव्रतमेन कषायोदयेनान्धीभूतःसतमस्तिमिरपटलभूतोभण्यते, भूतशब्दस्येहोपमार्थवाचकत्वात्। एवम्भूतश्चेह-परलोकहितमपश्यन्दीर्घसंसारीतस्य गृहस्थस्योपरि पापम् ‘ऐश्वर्याद् जीविताद्वा भ्रंशयिष्यामि' इति रूपं चिन्तयति । एवंच पापं कर्तुं व्यवसिते तस्मिन्त्रियंप्रायश्चित्ते मार्गणा भवति ॥ [भा.५५८२] वच्चामि वच्चमाणे, चउरो लहुगा यहोति गुरुगाय।
. उग्गिनम्मिय छेदो, पहरणे मूलं च जंजत्य ॥ वृ. 'व्रजामि, तं गृहस्थं व्यपरोपयामि' इति सङ्कल्पे चतुर्लघवः । पदमेदादारस्य पथि ब्रजतश्चतुर्गुरवः । यष्टि लोष्टादिकं प्रहरणं मार्गयतिषडलघवः प्रहरणे लब्धे गृहीते चषड्गुरवः। उद्गीर्णे प्रहारे छेदः । प्रहारे पतिते यदि न म्रियते ततश्छेद एव । अथ मृतस्ततो मूलम् । यच्च तत्र परितापनादिकं सम्भवति तत् तत्र वक्तव्यम् ॥ एते चापरे दोषाः. [भा.५५८३] तंचेव निहवेती, बंधन निछुब्मण कडगमहोय ।
आयरिए गच्छम्मि य, कुल गण संघे य पत्यारो॥ कृ-स गृहस्थः “तं संयतं वधार्थमागतं दृष्ट्वा कदाचित् तत्रैव 'निष्ठापयति व्यापादयति, पाणैर्वा बन्धापयति ग्राम-नगरादेर्वा निर्धाटयति, कटकमर्दैन वा मृद्गाति, अथवा 'कटकमर्द एकस्य रुष्टः सर्वमपि गच्छं व्यापादयति, यथा पालकः स्कन्दकार्यगच्छम् । अथवा बन्धननिष्काशनादिकमाचार्यस्यापरगच्छस्य वा करोति।तथा कुलसमवायं कृत्वा कुलस्य बन्धनादिकं कुर्यात्, एवं गणस्य वा सङ्घस्य वा । एष प्रस्तारः ॥ एवमेकाकिनो व्रजत आरोपणा दोषाश्च भणिताः। अथ सहायसहितस्यारोपणामाह. [भा.५५८४] संजतगणे गिहिगणे, गामे नगरेव देस रजे य।
अहिवति रायकुलम्मिय, जाजहि आरोवणा भणिया ।। दृ-बहवः संयता- संयतगणः तं सहायं गृह्णाति । एवं गृहिगणं वा सहायं गृह्णाति । स च गृहिगणो ग्रामं वा नगरं वा देशो वा राज्यं वा भवेत्, ग्रामदिवास्तव्यजनसमुदाय इत्यर्थः । एतेषां वा संयतादीनां येऽधिपतयस्तान् वा सहायत्वेन गृह्णाति, अन्यद्वा राजकुलं गहीत्वा गच्छति, यथा कालकाचार्येण शकराजवृन्दम् । अत्र चैकाकिनो या 'यत्र' सङ्कल्पादावारोपणा भणिता सैवेहापि द्रष्टव्या॥ एतदेव व्याचष्टे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org