________________
उद्देशक : ४, मूलं-१३४, [भा. ५५५८]
२४१ समभूभागे नीतस्य ज्योतिष्केषु व्यन्तरेषुवाउपपातो ज्ञेयः । गर्तायां नीते भवनवासिषु गत इति अवमन्तव्यम् । एषा गति समासेन तस्याभिहिता॥ व्याख्यातस्तिस्रोऽपि द्वारगाथाः । अथात्रैव प्रायश्चित्तमाहभा.५५५९] एक्कक्कम्मिउ ठाणे, हुंति विवच्चासकारणे गुरुगा।
आणाइणो य दोसा, विराधना संजमा-ऽऽयाए॥ वृ-एषां प्रत्युपेक्षणादीनामेकैकस्मिन् स्थाने विपर्यासं कुर्वता चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, संयमा-ऽऽत्मविराधना च द्रष्टव्या॥ [भा.५५६०] एतेन सुत्त न गतं, सुत्तनिवातो तु दव्व सागारे।
उट्ठवणम्मि वि लहुगा, छड्डणे लहुगा अतियणे य॥ वृ- यद् एतद् द्वारकदम्बकमनन्तरं व्याखातम् एतेन सूत्रं न गतं किन्तु सामाचारीज्ञापनार्थं सर्वमेतदुक्तम् । किं पुनस्तात्र सूत्रे प्रकृतम् ? इत्याह-सूत्रनिपातः पुनः सागारिकसत्के वहनकाष्ठलक्षणे द्रव्ये भवति । रात्री कालगते यदि वहनकाष्ठानुज्ञापनाय सागारिकमुत्थापयन्ति तदा चतुर्लघु अरहट्टयोजनादयश्च दोषाः तस्मानोत्थापनीयः किन्तु यदि एकोऽपि कश्चिद् वैयावृत्यकरः समर्थस्त बोढुंततः काष्ठं नगृह्यते। अथासमर्थस्ततो यावन्तः सक्नुवन्ति तावन्तः तेन काष्ठेन वहन्ति । अथ वहनकाष्ठं तत्रैव परिष्ठाप्यागच्छन्ति तदापि चतुर्लघु, अपरेण च गृहीतेऽधिकरणम्, सागारिको वा तद् अपश्यन् ‘एतैः शबवहनाथ नीत्वा तत्रैव परित्यक्तम्' इतिमत्वाप्रद्विष्ट व्यवच्छेद-कटकमर्यादिकं कुर्यात्, तस्मादानेतव्यम्।यदि पुनरानीयतेन गृहीतेनैव अतिगमन-प्रवेशं कुर्वन्ति तदाऽपि चतुर्लघु ॥ एते च दोषाः[भा.५५६१] मिच्छत्तऽदिन्नदानं, समलावन्नो दुगुंछितं चेव ।
दिय रातो आसितावण, वोच्छेओ होति वसहीए।। दृ-सागारिकस्तत् काष्ठं प्रवेश्यमानंष्टवा मिथ्यात्वंगच्छेत्, एतेभणन्ति-अस्माकमदत्तस्यादानं न कल्पते; यथैतदलीकं तथा अन्यदप्यलीकमेव । अथवा ब्रूयात्-समला अमी, अस्थिसरजस्कानामप्युपरिवर्तिनः; एवमवर्णो भूयात् । 'जुगुप्सितं वा' जुगुप्सांस कुर्यात्-मृतकमूढवा मम गृहमानयन्ति।ततो दिवा रात्रौ वासाधूनां "आसियादणं"निष्काशनं कुर्यात्, वसतेश्वव्यवच्छेदं 'नातः परं ददामि' इत्येकस्यानेकेषां वा कुर्यात् ॥यत एते दोषा अतोऽयं विधिः[भा.५५६२] अइगमनं एगेणं, अन्नाए पतिद्ववेति तत्थेव।
नाए अनुलोमण तस्स वयण बितियं उठाण असिवे वा। घृ- एकेन साधुना प्रथमम् 'अतिगमनं प्रवेशनं कार्यम्, यदि सागारिको नाद्याप्युत्तिष्ठते त एवमज्ञाते काष्ठमानीय ततो गृहीतं तत्रैव प्रतिष्ठापयन्ति । अथ सागारिक उस्थितस्ततस्तस्याने निवेद्यते-यूयं प्रसुप्ता इति कृत्वा नास्माभिरुत्थापिताः, रात्रौ साधुः कालगतः युष्मदीयकाष्ठेन निष्काशितः, साम्प्रतं तदानीयताउत परिष्ठाप्यताम् ? । एवमुक्तेयद् असौभणति तत्प्रमाणम्। अथ तैः पूर्वमज्ञायमानैः स्थापितं सागारिकेण च पश्चात् कथमपि ज्ञातं ततः कुपितस्यानुलोमनं विधेयम् । अथ प्रज्ञाप्यमानस्यापि तस्य वक्ष्यमाणं वचनं भवति तदा गुरुभि ससाधुनिष्काशनीय [20/16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org