SearchBrowseAboutContactDonate
Page Preview
Page 1293
Loading...
Download File
Download File
Page Text
________________ २४२ बृहत्कल्प-छेदसूत्रम् -३-४/१३४ इति शेषः । द्वितीयपदे उत्थितोऽसौ ग्रामः अशिवगृहीतो वाऽसौ ततस्तत्रैव परिष्ठापयेत्, न सागारिकस्य प्रत्यर्पयेत् ॥ अथ सागारिकवचनं दर्शयति [ भा. ५५६५ ] जइ नीयमनापुच्छा, आनिजति किं पुनो घरं मज्झ । दुगुणो एसऽवराधो, न एस पाणालओ भगवं ! ॥ वृ- यदि अस्माकमनापृच्छ्या नीतं ततः किमर्थमिदानीं पुनपि मदीयगृहमानीयते ? एष द्विगुणोऽपराधः, न चैष भगवन् ! मदीय आवासः पाणानां मातङ्गानामालयो यदेवं मृतकोपकरणमत्रानीतम् ॥ एवमुक्ते गुरुभिर्वक्तव्यम् [ भा. ५५६४ ] किमियं सिट्ठम्मि गुरू, पुरतो तस्सेव निच्छुभति तं तू । अविजाणताण कयं, अम्ह वि अन्ने वि णं बेंति । वृ- किमिदं वृत्तान्तजातमभूत् ? । ततः शेषसाधुभिः शय्यातरेण वा गुरूणां शिष्टम्-अमुकेन साधुना अनापृच्छया काष्ठं नीतम् । ततो गुरवः 'तस्यैव' शय्यातरस्य पुरतः 'तं' साधु 'किमनापृच्छया नयसि ?' इति निर्भर्त्सय कैतवेन निष्काशयन्ति । अन्येऽपि साधवः "ण" मिति तं शय्यातरं ब्रुवते - अस्माकमविजानतामेवममुना कृतम्, अन्यथा जानन्तो वयमपि कर्तुं न दद्य इति ॥ [ मा. ५५६५ ] चारेति अनिच्छुभणं, इहरा अन्नाए ठाति वसहीए । मम नीतो निच्छुभई, कइतव कलहेन वा बितिओ ॥ वृ-यदि सागारिकः 'वारयति' 'मा निष्काशयत, नैवं भूयः करिष्यति' इति ततः 'अनिष्काशनं ननिष्काश्यते । 'इतरथा' अवारयति सामारिकेऽन्यस्यां वसतौ तिष्ठति । द्वितीयश्च साधुः 'कैतवेन' मातृस्थानेन भणति-मम निजको यदि निष्काश्यते ततोऽहमपि गच्छामि । सागारिकेन वा समं कोऽपि कलहयति ततः कोऽपि कलहयति ततः सोऽपि निष्काश्यते, स च तस्य द्वितीयो भवति । मू. (१३५) भिक्खू य अहिकरणं कट्टु तं अहिगरणं अविओसवित्ता नो से कप्पइ गाहावइकुलं भत्ताए वा पानाए वा निक्खमित्तएवा पविसित्तए वा, बहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्तए वा पविसित्तए वा, गामानुगामं वा दूइजित्तए, गणातो वा गणं संकमित्तए, वासावास वा वत्थए । जत्थेव अप्पणी आयरिय-उवज्झायं पासेज्जा बहुस्सुयं बभागमं तस्संतिए आलोइजा पडिक्कमिज्जा निंदिजा गरहिआ विउट्टेजा विसोहेजा अकरणयाए अब्भुट्ठिजा आहारिहं तवोकम्मं पायच्छित्तं पडिवजेज्जा | से य सुएण पट्ठविए आईअव्वे सिया, से य सुएण नो पट्टविए नो आदिइतव्वे सिया, से य सुएणं पट्ठवेज्रमाणे नो आइयइ से निज्जूहियव्वे सिया || वृ- अस्य सम्बन्धमाह [भा. ५५६६ ] केन कयं कीस कयं, निच्छुमऊ एस किं इहानेती । एमादि गिहीतुदितो, करेज कलहं असहमाणो । वृ- केनेदं वहनकाष्टानयनं कृतम् ? कस्माद्वा कृतम् ? निष्काश्यतामेषः, किमर्थमिहानयति ? ; एवमादिभिर्वचोभिर्गृहिणा तुदितः व्यथितः कश्चिदसहमानः कलहं कुर्यात् । अत इदमधिकरणसूत्रमारभ्यते ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या- 'भिक्षु प्रागुक्तः, चशब्दाद् उपाध्यायादिपरिग्रहः, अधिकरणं' कलहं कृत्वा नो कल्पते तस्य तदधिकरणमव्यवशमय्य गृहपतिकुलं भक्ताय वा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy