________________
२३८
बृहत्कल्प-छेदसूत्रम् -३-४/१३४ वृ-वसती वासउत्तिष्ठेत्, 'निवेशने वा पाटके 'साहिकायांवा गृहपङ्क्तिरूपायां ग्राममध्ये वा ग्रामद्वारे वा ग्रामोद्यानयोरन्तरा वा उद्याने वा उद्यान नैषेधिक्योरन्तरा वा 'नषेधिक्यां वा' शबपरिष्ठापनभूम्याम्, एतेषु उस्थिते यो विधिस्तं वक्ष्यामि ॥ प्रतिज्ञातमेव करोति[भा.५५४२] उवस्सय निवेसन साही, गामद्धे दारे गामो मोत्तव्यो ।
मंडल कंड इसे, निसीहियाए य रज्जंतु ॥ कृतत्कडेवरंनीयमानं यदि वसतावृत्तिष्ठतितत उपाश्रयोमोक्तव्यः।अथनिवेशने उत्तिष्ठति ततो निवेशनं मोक्तव्यम् । साहिकायामुत्थिते साहिका मोक्तव्या । ग्राममध्ये उत्थिते ग्रामाद्ध मोक्तव्यम् । ग्रामद्वारे उत्थिते ग्रामो मोक्तव्यः [ग्रामस्य चोधानस्य चान्तरा यदि उत्तिष्ठति तदा विषयमण्डलं मोक्तव्यम् । उद्याने उत्थिते 'कण्ड' देशखण्डं मण्डलाद् बृहत्तरं परित्यक्तव्यम् । उद्यानस्य नैषेधिक्याश्चान्तरालेउत्तिष्ठति देशः परिहर्तव्यः। नैषेधिक्यामुत्थितेराज्यपरिहरणीयम्।। एवं तावन्नीयमानस्योत्थाने विधिरुक्तः । परिष्ठापिते च तस्मिन् गीतार्था एकस्मिन् पार्श्वे मुहूर्त प्रतीक्षन्ते, कदाचित् परिष्ठापितोऽप्युत्तिष्ठेत् तत्र चायं विधिः[भा.५५४३] वचंतेजो उ कमो, कलेवरपवेसणम्मि वोच्चत्यो।
नवरंपुन नाणतं, गामदारम्मिबोद्धव्वं ॥ वृ. 'व्रजता निर्गच्छतां कडेवरस्योत्थाने यः क्रमो भणितः स एव विपर्यस्तः कडेवरस्य परिष्ठापितस्य भूयः प्रवेशने विज्ञेयः । नवरं पुनरत्र नानात्वं ग्रामद्वारे बोद्धव्यम्, तत्र वैपरीत्यं न भवति किन्तु तुल्यतैवेति भावः । तथा चात्र वृद्धसम्प्रदायः-निसीहियाएपरिविओजइ उद्देत्ता तत्थेवपडिजाताहे उवस्सओमोत्तव्यो । निसीहियाए उज्जानस्स य अंतरा पडइनिवेसनंमोत्तव्वं। उज्जाने पडइ साहीमोत्तव्वा । उज्ज्ञानस्स य गामस्सय अंतरापडइ गामद्धं मोत्तव्यं । गामदारेपडइ गामो मोत्तब्बो । गाममज्झे पडइ मंडलं मोत्तव्यं । साहीए पडइ देसखंडं मोत्तव्वं । निवेसने पडइ देसो मोत्तव्यो । वसहीए पडइ रज्जं मोत्तव्वं ।। अत्र निर्गमने प्रवेशनेच ग्रामद्वारोत्याने ग्रामत्याग एवोक्त इति ग्रामद्वारे तुल्यतैवन वैपरीत्यम् ॥
अथ परिष्ठापितो द्व्यादिवारान् वसतिं प्रविशति ततोऽयं विधिः[भा.५५४] बिइयं वसहिमतिते, तगंच अत्रं च मुद्यते रजं ।
तिप्पभिति तिनेवउ, मुयंति रजाई पविसंते॥ वृ-निर्मूढो यदि द्वितीयं वारंवसतिं प्रविशति तदा चान्यन्त्र राज्यं मुच्यते, राज्यद्वयमित्यर्थः। अथ 'त्रिप्रभृतीन्' त्रीन्चतुरो बहुशोवा वारान् वसतिं प्रविशति तदात्रीण्येवराज्यानि मुञ्चति ।। [भा.५५४५]असिवाई बहिया कारणेहिं, तत्थेव वसंतिजस्स जो उतवो।
अभिगहिया-5नभिगहितो, सा तस्स उजोगपरिवुद्दी॥ वृ-यदि बहिरशिवादिभिः कारणैर्न निर्गच्छन्ति ततस्तत्रैव वसतां यस्य यत् तपोऽभिगृहीतमनभिगृहीतं वातेन तस्य वृद्धिः कर्तव्या, सा च योगपरिवृद्धिरभिधीयते । किमुक्तं भवति?. येन नमस्कारप्रत्याख्यायिनस्ते पौरुषीं कुर्वन्ति, पौरुषीप्रत्याख्यायिनः पूर्वाद्धं कृत्वा शक्ती सत्यामाचाम्लं पारयन्ति, शक्तेरमावे निर्विकृतिकमेकासनकं यावद् व्यासनकमपि । यदाह चूर्णिकृत्-सइ सामत्ये आयंबिलं पारिति, असइ निब्बीयंएकासनयं, असमत्था सबीइयंपित्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org