SearchBrowseAboutContactDonate
Page Preview
Page 1288
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं - १३४, [भा. ५५३४] भवेत्, अतस्त्रयाणामपि रक्षणार्थं सर्वत्र समानि तृणानि कर्तव्यानि ॥ [मा. ५५३५ ] जत्थय नत्थि तिणाई, चुन्नेहिं तत्थ केसरेहिं वा । कायव्वोऽत्थ ककारी, हेट्ठ तकारं च बंधेज्जा ।। वृ-यत्र तृणानि न सन्ति तत्र चूर्णैर्वा नागरकेशरैर्वाऽव्यवच्छिन्नया धारया ककारः कर्तव्यः तस्याधस्तात् तकारं च बध्नीयात् क्त इत्यर्थः । चूर्णानां केशराणां चाभावे प्रलेपकादिभिरपि क्रियते ॥ अथोपकरणद्वारमाह [भा. ५५३६ ] चिंधट्ठा उवगरणं, दोसा तु भवे अचिंधकरणम्मि । मिच्छत सो व राया, कुणति गामाण वहकरणं ॥ वृ- परिष्ठाप्यमाने चिह्नार्थं यथाजातमुपकरणं पार्श्वे स्थापनीयम् । तद्यथा-रजोहरणं मुखपोतिका चोलपट्टकः । यदि एतद् न स्थापयन्ति ततश्चतुर्गुरु । आज्ञादयश्च दोषाः चिह्नस्याकरणे भवन्ति । 'सवा' कालगतो मिध्यात्वं गच्छेत् । राजा वा जनपरम्परया तं ज्ञात्वा 'कश्चिद् मनुष्योऽमीभिरपद्रावितः' इति बुध्या कुपितः प्रत्यासन्नवर्तिनां द्वित्र्यादीनां ग्रामाणां वधं कुर्यात् ।। अथैतदेव भावयति [भा. ५५३७] उवगरणमहाजाते, अकरणे उज्जेनिभिक्खुदिट्टंतो। लिंगं अपेच्छमाणो, काले वइरं तु पाडेत्ति ॥ वृ-यथाजतभुपकरणं यदि तस्य पार्श्वेन कुर्वन्ति ततोऽसौ देवलोकगतः प्रयुक्तावधि 'अहमनेन गृहलिङ्गेन परलिङ्गेन वा देवो जातः' इति मिथ्यात्वं गच्छेत्। उज्जयिनीभिक्षुध्ष्टान्तश्चात्र भवति, स चावश्यकटीकातो मन्तव्यः । यस्य वा ग्रामस्य पार्श्वे परिष्ठापितः तत्र तत्पार्श्वे लिङ्गमपश्यन् 1 लोको राजानं विज्ञपयेत् । सच 'केनाप्यपद्रावितोऽयम्' इति मत्वा कालेन प्रतिवैरं पातयति, वैरं निर्यातयतीति भावः ॥ कायोत्सर्गद्वारमाह [ भा. ५५३८ ] २३७ उड्डाणाई दोसा, हवंति तत्थव काउसग्गम्मि । आगमुवस्सयं गुरुसमीव अविहीय उस्सग्गो || वृ- 'तत्रैव' परिष्ठापनभूमिकायां कायोत्सर्गे क्रियमाणे उत्थानादयो दोषा भवन्ति, अत उपाश्रयमागम्य गुरुसमीपेऽ विधिपरिष्ठायनिकायाः कायोत्सर्ग कर्तव्यः ।। प्रादक्षिण्यद्वारमाह[मा. ५५३९] जो जहियं सो तत्तो, नियत्तइ पयाहिणं न कायव्वं । उट्ठाणादी दोसा, विराधना बाल-वुड्डाणं ॥ वृ• शवं परिष्ठाप्य यो यत्र भवति स ततो निवर्तते, प्रादक्षिण्यं न कर्तव्यम् । यदि कुर्वन्ति तत उत्थानादयो दोषा बाल-वृद्धानां च विराधना भवति ।। अथाभ्युत्थानद्वारमाह [ भा. ५५४०] जइ पुन अनीनिओ वा, नीनितो विविंचिओ वा वि । उद्वेज समाइट्ठो, तत्थ इमा मग्गणा होति ॥ वृ- यदि पुनः स कालगतोऽनिष्काशितो वा निष्काश्यमानो वा 'विविक्तो वा' परिष्ठापितो व्यन्तरसमाविष्ट उत्तिष्ठेत् ततस्तत्रेयं मार्गणा भवति ॥ [भा. ५५४१] Jain Education International वसहि निवेसन साही, गाममज्झे य गामदारे य । अंतर उज्जानंतर, निसीहिया उट्ठितै वोच्छं ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy