________________
२३१
-
उद्देशकः ४, मूलं-१३४, {मा. ५५०१]
काउस्सग्ग पदाहिण, अब्मुट्ठाणे य वाहरणे॥ [भा.५५०२] काउस्सग्गे सज्झाइए य खमणस्स मग्गणा होइ।
योसिरणे ओलोयण, सुभा-ऽसुभगइ-निमित्तट्ठा ॥ वृ- वहनकाष्ठस्य स्थण्डिलस्य च प्रथमत एव प्रत्युपेक्षणं विधेयम् । “दिस"त्ति दिग्भागो निरूपणीयः । “नंतए य"त्ति औपग्रहिकान्तकं मृताच्छादनार्थं गच्छे सदैव धारणीयम्; जातिप्रधानश्चायं निर्देशः, ततो जघन्यतोऽपि त्रीणि वस्त्राणि धारणीयानि । “काले दिया व राओ अ"त्ति दिवा रात्री वा कालगते विषादो न विधेयः । रात्रौ च स्थाप्यमाने मृतके जागरणं बन्धनं छेदनंच कर्तव्यम् । एवं विधिं तत्र कुर्यात् ॥तथा नक्षत्रं विलोक्य कुशप्रतिमाया एकस्या द्वयोर्वा करणभकरणं वा । “नियत्तणि"त्ति येन प्रथमतो गताः न तेनैव पथा निवर्तनीयम् । मात्रके पानकं गृहीत्वा पुरत एकेन साधुना गन्तव्यम् । यस्यां दिशि ग्रामस्ततः शीर्ष कर्तव्यम् । तृणानि समानि प्रस्तरणीयानि । “उपकरणं' रजोहरणादिकं तस्य पार्वे धारणीयम् । अविधिपरिष्ठापनायाःकायोत्सर्गस्थण्डिले स्थितैर्न कर्तव्यः। निवर्तमानैःप्रादक्षिण्यं न विधेयम्। शबस्य चाभ्युत्थाने वसत्यादिकं परित्यजनीयम् । यस्य च संयतस्य 'व्याहरणं' नामग्रहणं स करोति तस्य लोचः कर्तव्यः ।। गुरुसकाशमागतैः कायोत्सर्गो विधेयः । स्वाध्यायकस्य क्षपणस्य च मार्गणा कर्तव्या । उच्चारादिमात्रकाणां व्युत्सर्जनं कर्तव्यम् । अपरेऽह्नितस्यावलोकनं शुभाऽशुभगतिज्ञानार्थनिमित्तग्रहणार्थंचविधेयमिति द्वारगाथात्रयसमासार्थः ।। अथैतदेव विवरीषुराह[भा.५५०३] जं दध्वं घनमसिणं, वावारजढंच चिट्ठए बलियं ।
वेणुमय दारुगंवा, तं वहणट्ठा पलोयंत ।। वृ-यद् द्रव्यं वेणुमयं दारुकं वा घनमसृणं 'व्यापारमुक्तम्' अवहमानकं बलीयः' दृढतरं सागारिकस्य गृहे तिष्ठतितत् कालगतस्य वहनार्थं प्रथममेव प्रलोकयन्ति, महास्थण्डिलं च प्रत्युपेक्षणीयम्॥अथ न प्रत्युपेक्षन्ते तत इमे दोषाः[भा.५५०४] अस्थंडिलम्मिकाया, पवयणघाओ य होइ आसन्ने।
छड्डावण गहणाई, परुग्गहे तेन पेहिज्जा ॥ वृ-अस्थण्डिले परिष्ठापयन्षटकायाविराधयति। प्रवचनघातश्चग्रामादेरासन्ने परिष्ठापयतो भवति । परावग्रहे च परिष्ठापयतः छपिनं भवेत् । छपिनं नाम-ते बलादपि साधुपादिन्यत्र तं शबं परित्याजयेयुः । ग्रहणा-ऽऽकर्षणादयो दोषा भवेयुः । ततो महास्थण्डिलमवश्यं प्रागेव प्रत्युपेक्षेत ।। गतं प्रत्युपेक्षणाद्वारम् । अथ दिग्द्वारमाह[भा.५५०५]दिस अवरदक्खिणा दक्खिणा य अवरा य दक्खिणापुव्वा ।
अवरुत्तरा य पुव्वा, उत्तर पुव्वुत्तराचेव॥ वृ-प्रथमम् 'अपरदक्षिणा' निक्रती दिग् निरीक्षणीया, तदभावे दक्षिणा, तस्या अभावेऽपरा, तदप्राप्तौ 'दक्षिणपूर्वा' आग्नेयी, तदलाभे 'अपरोत्तरा' वायवी, तस्या अभावे पूर्वा, तदभावे उत्तरा, तदभावे उत्तरपूर्वा ।। सम्प्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिठापने दोषानाह[भा.५५०६] समाही य भत्त-पाने, उवकरणे तुमंतुमा य कलहोय ।
भेदो गेलनं वा, चरिमा पुन कडए अनं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org