________________
२३०
बृहत्कल्प-छेदसूत्रम् -३-४/१३३
ते तेसि अनाएसा, वावारेउ न कप्पंति ॥
दृ- ' तेनापि ' प्रतीच्छकाचार्यादिना तस्याचार्यस्य सहिष्णोरसहिष्णोर्वा वैयावृत्यादिकं सर्वमपि कर्तव्यम् | 'तेऽपि' साधवः 'तेषां' आचार्याणामादेशमन्तरेण व्यापारयितुं न कल्पन्ते ॥
मू. (१३४) भिक्खू य रातो वा वियाले वा आहच्च वीसुं भिजा, तं च सरीरगं केइ वेयावच्चकरे भिक्खुइच्छिञ्जा एगते बहुफासुए पएसे परिद्ववित्तए, अत्थियाई थ केइ सागारियसंतिए उवगरणजाए अचित्ते परिहरणारिहे, कप्प से सागारिकडं गहाय तं सरीरगं एगंते बहुफासुए पएसे परिट्ठवित्ता तत्थेव उवनिक्खिवियव्वे सिया ॥
वृ· अस्य सम्बन्धमाह
[मा. ५४९७ ] तिहिं कारणेहिं अनं, आयरियं उद्दिसिज तहि दुन्नि । मुत्तुं तइए पगयं, वीसुंभणसुत्तजोगोऽयं ॥
वृ- 'त्रिभिः कारणैः' अवसन्नतादिभिरन्यमाचार्यमुद्दिशेदित्युक्तम् । तत्राद्ये 'द्वे' अवसन्नाऽवधावितलक्षणे मुक्त्वा 'तृतीयेन' कालगतरूपेण कारणेन प्रकृतम्, तद्विषयो विधिरनेनाभिधीयत इति भावः । एष विष्वग्भवनसूत्रस्य 'योगः' सम्बन्धः ॥
[ भा. ५४९८ ] अहवा संजमजीविय, भवग्गहणजीवियाउ विगए वा । अनुद्देसो वृत्तो, इमं तु सुत्तं भवच्चाए ॥
वृ- अथवा संयमजीविताद्भवग्रहणजीविताद्वा विगतेऽन्ययाचार्यस्य उद्देशः पूर्वसूत्रे उक्तः । इदं तु सूत्रं भवजीवितपरित्यागविषयमारभ्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या- भिक्षु चशब्दाद् आचार्योपाध्यायौ वा रात्रौ वा विकाले वा “आहञ्च" कदाचिद् 'विष्वग् भवेत्' जीवशरीरयोः पृथग्भावमाप्नुयात्, म्रियत इत्यर्थः । तच्च शरीरकं 'कश्चिद्' वैयावृत्यकरो भिक्षुरिच्छेत् 'एकान्ते' विविक्ते 'बहुप्राशुके कीटिकादिसत्त्वरहिते प्रदेशे परिष्ठापयितुम् । अस्ति चात्र किञ्चित् सागारिकसत्कं 'अचित्तं' निर्जीवं 'परिहरणाई' परिभोगयोग्यमुपकरणजातम्, वहनकाष्ठमित्यर्थः । कल्पते "से" तस्य भिक्षोस्तत् काष्ठं 'सागारिककृतं ' 'सागारिकस्यैव सत्कमिदं नास्माकम्' इत्येवं गृहीत्वा तत् शरीरमेकान्ते बहुप्राशुके प्रदेशे परिष्ठापयितुम् । तच परिष्ठाप्य यतो गृहीतं तत् काष्ठं तत्रैवोपनिक्षेप्तव्यं स्यादिति सूत्रार्थः । सम्प्रति नियुक्तिविस्तरः
[ भा. ५४९९ ] पुवि दव्वोलोयण, नियमा गच्छे उवक्कमनिमित्तं । भत्तपरित्र गिलाणे, पुव्वुग्गहो थंडिलस्सेव ॥
सृ- यत्र साधवो मासकल्पं वर्षावास वा कर्तुकामास्तत्र पूर्वमेव तिष्ठन्तः द्रव्यस्यवहनकाष्ठादेरवलोकनं नियमाद् गच्छ्वासिनः कुर्वन्ति । किमर्थम् ? इत्याह-उपक्रमः-मरणं तत् कस्यापि संयतस्य भवेदित्येवमर्थम् । तच्च मरणं कदाचिद् भक्तपरिज्ञावतो भवेत्, कदाचित् तु ग्लानस्य, उपलक्षणमिदम्, तेनाशुकारेण वा मरणं भवेत्, ततः पूर्वमेव महास्थण्डिलस्य वहनकाष्ठादेश्च 'अवग्रहः' प्रत्युपेक्षणं विधेयम् ॥ अथ द्वारगाथात्रयमाह
[भा. ५५०० ] पडिलेहणा दिसा नंतए य काले दिया व राओ य । जग्गण-बंधन-छेयण, एयं तु विहिं तहिं कुज्जा ।।
[भा. ५५०१ ] कुसपडिमाइ नियत्तण, मत्तग सीसे तणाई उवगरणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org