________________
'पीठिका - [भा. ४८८ ]
यानि जीर्णानि तानि नियमत आचार्याणां दर्शनीयानि, यथा-ईशो लेपः क्षमाश्रमणाः ! पात्राणामग्रेतनो वर्त्तते ततः सम्प्रति लिम्पामि न वा ? । तत्रैवं दर्शयित्वा यद्यनुज्ञा जाता तत स्तानि जीर्णानि लिम्पति नेतरथा । अदर्शयित्वा लेपने प्रायश्चित्तं मासलघु । यानि पुनर्नवानि तान्यवश्यं लेपनीयानीति कृत्वा आचार्यस्यापृच्छयाऽपि तेषाम् 'इतरेषां' नवानां लेपनं कर्त्तव्यम् ।। अथ जीर्णानामदर्शने को दोषः ? इत्यत आह
[भा. ४८९ ] पाडिच्छग सेहाणं, नाऊणं कोइ आगमन मायी । दढलेवे वि उपाए, लिंपति मा तेसि दिज्जिज्जा ।।
वृ- कश्चिन्मायी शिष्याणां प्रातीच्छिकानां चाऽऽगमनं ज्ञात्वा 'मा तेषां दद्याद्' इति कृत्वा ढलेपान्यपि पात्राणि भूयो लिम्पति ॥
[भा.४९०] अहवा वि विभूसाए, लिंपति जा सेसगाण परिहाणी ! अपडिच्छणे य दोसा, सेहे काए यतोऽदाए ।
वृ-अथवा 'न शोभनोऽग्रेतनो लेपः' इति विभूषानिमित्तमजीर्णलेपमपि पात्रं भूयः कोऽपि लिम्पति । एवं मायया विभूषानिमित्तं वा भाजनेषु तेषु लिप्तेषुया 'शेषकाणां' साधूनां प्रातीच्छिकानां शिष्याणां च परिहाणिस्तां स मायी विभूषार्थी वा प्राप्नोति । तमेव दर्शयति- “अपडिच्छणे य" इत्यादि । केचित् प्रातीच्छिकाः समागतास्तद्योग्यानि च पात्राणि न सन्ति लिप्तानि तिष्ठन्तीति कृत्वा, तत एवं पात्रैर्विना तेषां प्रातीच्छिकानामप्रतीच्छने ज्ञान - दर्शनचारित्रपरिहाणि । "सेहे का" त्ति तथा शैक्षः कश्चिदुपस्थितोऽथ च भाजनं न विद्यते लिप्तमस्तीति कृत्वा, ततो भाजनं विना कथं स प्रव्राज्यते इति सोऽप्रव्राजितः कायविराधनां कुर्यात् सा च तन्निमित्तेति ज्ञानदर्शन-चारित्रपरिहाणिप्रत्ययं कायविराधनाप्रत्ययं च प्रायश्चित्तं प्राप्नोति । यत एवमदर्शिते दोषास्तस्माद् जीर्णानि दर्शयेत् ।। अथ केन विधिना लेपस्य ग्रहणादि कर्त्तव्यम् ? अत आह[भा. ४९१] पुव्वण्हे लेवगमं, लेवग्गहणं सुसंवरं काउं । लेवस्स आनना लिंपणा य जयणाए कायच्वा ॥
१२५
वृ- पूर्वाह्णे लेपनिमित्तं गर्म- गमनं कृत्वा तत्र च यतनया लेपग्रहणं च कृत्वा ततः सुसंवरं यथा भवत्येवं लेपस्य यतनयाऽऽनयनं कर्त्तव्यम् । आनीते च यतनया पात्रस्य लेपना ।।
एनामेव गाथां व्याचिख्यासुराह
[भा. ४९२] पुव्वण्हे लेपगहणं, काहं ति चउत्थगं करेज्जाहि । असहू वासियभत्तं, अकारऽलंभे व दिंतियरे ॥
वृ- साधुना प्रतिक्रमचरमकायोत्सर्गस्थितेन चिन्तनीयम् - किमद्य भाजनानि लेपनीयानि नवा ?, तत्र यदि लेपनीयानि ततः पूर्वाह्णे लेपग्रहणमहं करिष्यामीति विचिन्त्य 'चतुर्थकम्' अभक्तकं कुर्याद् । अथ 'असहः' असमर्थश्चतुर्थभक्तं कर्त्तु तर्हि पर्युषितं गृह्णाति भक्तम् । अथ पर्युषितम् 'अकारकम्' अपथ्यं यदि वा न लभ्यते ततः पौरुषीं न करोति किन्त्वितरे साधवो मध्याह्ने हिण्डित्वा तस्मै भक्तं ददति ॥
[भा.४९३] कयकिइकम्मो छंदेण छंदितो भगति लेव धिच्छामि । तुब्भं वियाणिमट्टी, आमं तं कित्तियं किं वा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org