________________
१२४
बृहत्कल्प-छेदसूत्रम् -१वृ-'एवमपि' तत्र गत्वा पात्रलेपनेऽपि ऊर्द्धस्थितो लेपं गृहीत्वा भाजने प्रक्षिपति, तत्र व्यापृतस्य सतः कदाचिद् हस्ताद् भाजनं पतेत्, तत एवं व्यापृते भाजनभेदः । तथा कथमपि शकटस्य पतनत आत्मनश्चोपघातः । किञ्च पात्रे लेपस्य ग्रहणे गृहीत्वा च तत्रैव पात्रस्य लेपने क्रियमाणे तेषां साक्षात् पश्यतामेवं निशङ्कितं भवति, यथा-एतेनाशुचिना लेपेन भोजनपात्रममी लिम्पन्ति; ततोमहान्प्रवचनोपधातः । इतरथा तत्रपात्रालेपने रावेचलेपस्यग्रहणे शङ्कोपजायतेकिं पात्रस्य लेपनाय उतदुःखयतः पादस्य पिण्डीबन्धनाय लेपमाददते? ततोनप्रवचनोपघातः।।
यदप्युक्तं "भारेण हस्तोपघातः" इति तत्रापि प्रत्युत्तरमाह[भा.४८५] जइ वा हत्थुवघाओ, आणिज्जंतम्मि होइ लेवम्मि।
पडिलेहणादिचेट्टा, तम्हाउन काइकायव्वा ॥ वृ- यदि लेपे आनीयमाने भारेण हस्तोपघात इति नानयनं क्रियते तर्हि न कदाचिदपि प्रतिलेखनादिका क्रिया कर्त्तव्या, तत्रापि यथायोगं हस्त-पादादेरुपघातसम्भवात् । तस्माद्यथा प्रतिलेखनादिका क्रियाऽवश्यं कर्तव्या तत्करणे गुणसम्भवाद् एवं लेपानयनमपि ।। तदेवं 'हत्थोवघाय गंतूण लिंपणा" इतिव्याख्यातम्।अधुना “सोसणाय हत्थम्मि" इति व्याख्यानयति[भा.४८६] जति नेवं तो पुनरवि, आनेउं लिंपिऊण हत्थम्मि ।
अच्छतिधारेमाणो, सद्दवनिक्खेवपरिहारी॥ दृ- यदि नाम तत्र गत्वा पात्रं लेपनीयमिति नैवमिष्यते अनन्तरोदितानेकदोषप्रसङ्गात् ततः पुनरपि किञ्चिद् वक्तव्यम्-लेपमानीय पात्रं लिप्तवा “सद्रवनिक्षेपपरिहारी' सद्रवनिक्षेपपरिहारमिच्छन् हस्ते पात्रं धारयन् तावत् तिष्ठति यावल्लेपस्य शोषो भवति एवं क्रियताम् ।।
अत्राऽऽचार्य प्राह[भा.४८७] एवं पिहुउवघातो, आयाए संजमे पवयणे य ।
मुच्छादी पवडते, तम्हा उन सोसए हत्थे ।। वृ-'एवमपि हस्तेधृत्वा पात्रलेपस्य शोषणेऽपि 'हुः' निश्चितमुपधातः आत्मनःसंयमस्य प्रवचनस्य च । तत्राऽऽत्मोपघातो मूर्छया आदिशब्दात् पात्रभारेण च प्रतिपतति वेदितव्यः । संयमोपघातः षट्कायानामुपरि पतनात् । प्रवचनोपघातः पतन्तं दृष्ट्वा लोको ब्रूयात् 'दुईष्टधर्माणोऽमी' इति । उक्तञ्च
कायाणमुवरि पडणे, आयाए संजमे पवयणे य । उण्हेण व भारेण व, मुच्छा पवडंति आयाए। कायोवरि पवडते, अह होही संजमे विराधनया।
पवयणे अदिट्टधम्मा, पडत द8 वए लोगो।। यस्मादेते दोषास्तस्मान्न हस्ते पात्रंशोषयितव्यम्।अत्र सर्वत्र नोदकस्यैवंब्रुवतो यथाच्छन्द इति कृत्वाचतुर्गुरुकंप्रायश्चित्तम्।। एवमाचार्योनोदकंप्रतिहत्य साम्प्रतमात्मनायतनासामाचारीमाह[भा.४८८] दुविहा य होति पाता, जुण्णा य नवा यजे उलिप्पंति।
___ जुण्णे दाएऊणं, लिंपति पुच्छा य इयरेसिं॥ वृ-यानि पात्राणि लिप्यन्ते तानि द्विविधानि भवन्ति । तद्यथा-जीर्णानि नवानि च । तत्र
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org