________________
पीठिका - [भा.४८०]
१२३ सहसा तत् पात्रं त्यजेत्, तच्च कण्टकवृत्यादिमध्ये पतितमिति कृत्वा तद्दोहप्रसङ्गतो ‘ग्रामादीनां' ग्रामस्य नगरस्य पाटकस्य वाप्रदीपनं भवेत्, ततो महती अग्निकायस्य विराधना । यत्राग्निस्तत्र वायुरिति वायुविराधना । वनस्पतिविराधनामाह-"रुट्टे"त्यादि । कयाचिदविरत्या रोट्टः' लोट्टो दत्तः, सोऽम्लावयवसंस्पर्शतः प्राणविपत्तिमाप्नोति । तथा भृगु म श्लक्ष्णा राजिस्तासु पनकः सम्मूर्च्छति, सोऽन्न-पानग्रहणतो विध्वंसमापद्यते । एषा 'तरौ' वनस्पतिकाये विराधना । भृगुषु पनके सम्मूर्छिते कुन्थ्वादयोऽपि सम्पूछन्ति, तेऽवयवानामल्मभावेनान्न-पानग्रहणतो वा विराध्यन्ते । एषा षष्ठे' त्रसकाये विराधना । एवं षण्णामपि कायानांपात्रस्यालेपने विराधना॥ यदप्युक्तम् “लेपैषणा भगवद्भिर्नोक्ता" इति तत्र प्रतिविधानमाह[भा.४८१] पायग्गहणम्मि उ देसियम्मि लेवेसणा वि खलु वुत्ता।
तम्हा उ आणणा लिंपणा य लेवस्स जयणाए ।। वृ-पात्रग्रहणेदेशिते खलु लेपैषणाऽप्युक्ता द्रष्टव्या, लेपमन्तरेणावश्यषडजीवनिकायविराधनात्, यथोक्तमनन्तरम्। तस्मानिनोपदिष्टत्वाल्लेपस्य यतनया आनयनम्, तेन च पात्रस्य लेपनं कर्त्तव्यम् ।। पर आह-यतनया लेपस्यानयनादि कर्तव्यं तत एवं क्रियताम्[भा.४८२] हत्थोवघाय गंतूण लिंपणा सोसणा य हत्थम्मि।
सागारिए पभू जिंघणाय छक्कायजयणाए। वृ-'यस्माल्लेपस्यानयने भारेण हस्तोपघातः तस्मात् तत्र गत्वा पात्रस्य लेपनं कर्तव्यम्' इति नोदकवचनम् । इदमपि नोदकवचः-लिप्तस्य पात्रस्य हस्ते धरणतः शोषणा कर्त्तव्या । अत्रोभयत्रापि प्रत्युत्तरमग्रे दास्यते । तथा व्रजता प्रत्यासन्नं शय्यातरशकटमवलोक्य 'सागारिकपिण्डएषः' इतिकृत्वा नवर्जनीयम् किन्तुतत्रैवलेपग्रहणकार्यम्, तथा तस्य शकटस्य यःप्रभुः प्रभउशनअधइष्टोवातमनुज्ञापयेत्, अनुज्ञाप्यचकटुगन्धपरिज्ञानायनाशामसंस्पर्शयन् तं लेपं जिघेत, तदनन्तरं लेपस्य ग्रहणं षट्काययतनया कर्तव्यमित्येष द्वारगाथासक्षेपार्थं ।।
साम्प्रतमेनामेव विवरीषुः प्रथमतः “गंतूण लिंपणे"ति द्वारं व्याख्यानयति[भा.४८३] चोयगवयणं गंतूण लिंपणा आनने बहू दोसा।
संपातिमादिधातो, अहिउस्सग्गो य गहियम्मि ।। वृनोदकवचनम्-तत्र शकटसमीपे गत्वा पात्रस्य लेपनं कर्तव्यम्, यतो लेपस्यानयेन बहवोदोषाः; तथाहि-भारेण हस्तोपघातः पूर्ववत्, तथा सम्पातिमानाम् आदिशब्दादसम्पातिमानां च जीवानां तत्र पतितानामुपघातः, सच कदाचिदधिको लेपो गृहीतो भवेत् ततस्तस्मिन्नधिके गृहीते 'उत्सर्गः' परिषठापनिकादोषः सम्पद्यते । उक्तञ्च
भारे हत्थुवघातो, तत्थ य संपादिणी पडते य ।
पारिद्वावणिदोसो, अहिंगम्मिय हो आणीए । एवमुक्तेआचार्य प्राह-नोदक! तत्र पात्रेलिप्यमानेसविशेषतराआत्मोपघातादयो दोषाः।। तथा चाह[भा.४८४] एवं पि भाणभेदो, वियावडे अत्तणो उ उवघाओ।
निस्संकियं च पायम्मि गिण्हणे इयरहा संका ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org