________________
१२६
बृहत्कल्प-छेदसूत्रम् - १
[ भा. ४९४] सेसे वि पुच्छिऊणं, कयउस्सग्गो गुरूण नमिऊण । मल्लग - रूए गेण्हइ, जति तेसिं कप्पितो होति ॥
वृ- कृतं कृतिकर्म-वन्दनं येन स कृतकृतिकर्मा । किमुक्तं भवति ? - स लेपानयनाय गन्ता प्रथममाचार्याणां वन्दनकं ददाति, दत्त्वा ब्रूते - इच्छाकारेण सन्दिशत। एवमुक्ते सूरयोऽभिदधति“छन्देण” छन्दसाविज्ञपयेति भावः । एवं छन्दसा 'छन्दितः' निमन्त्रितः सन् भणति - गत्वा लेपं ग्रहीष्यामि । एवमुक्त्वाऽऽचार्यान् शेषसाघूँश्च वक्ति- युष्माकमप्यस्ति लेपेन प्रयोजनमानीयताम्। तत्र यो वक्ति आमं तं प्रति ब्रूते - कियन्तमानयामि ? किं वा लेपम् ? । तत्र यद् भणति तद् इच्छामीति प्रतिपद्य 'कृतोत्सर्ग' उपयोगकायोत्सर्गं कृत्वा गुरून् नमस्कृत्य आवश्यिकीं कृत्वा यदि तेषां पात्र वस्त्राणां कल्पिकस्ततो गृहेषु गत्वा मल्लकं रूतं च गृह्णाति ॥
अथाकल्पिकस्तत आह
[ भा. ४९५ ] गीयत्थपरिग्गहिते, अयाणओ रूय-मल्लए घेत्तुं । छारं च तत्थ वच्चति, गहिए तसपणरक्खट्ठा ॥
वृ-यः 'ज्ञायकः' अगीतार्थः स गीतार्थेन परिगृहीतानि रूत- मल्लकानि 'गृहीत्वा' गृहीते सति लेपे सम्पातिमत्रसप्राणरक्षार्थं तत्र मल्लकेषु क्षारं च गृहीत्वा व्रजति । सम्प्रति यदधस्ताद् भणितं "सागारिय" त्ति तद्याख्यानार्तमाहवच्चंतेन य दिडं, सागारिदुचक्कगं तु अब्भासे ।
[भा.४९६]
तत्थेव होइ गहणं, न होति सो सागरियपिंडो ।
कृ- तेन गृहीतरूत- मल्लक- क्षारेण व्रजता यदि सागारिकस्य शय्यातरस्य द्विचक्रकं शकटम् 'अभ्यासे' निकटे प्रदेशे दृष्टम् ततस्तत्रैव तस्य लेपग्रहणं भवति । यतः स न भवति सागारिकपिण्ड इति ।। सम्प्रति प्रभुद्वारमाह[भा.४९७]
गंतुं दुचक्कमूलं, अणुन्नविज्जा पभुं तु साहीणं । एत्यय पभुत्ति भणिए, कोई गच्छे निवसमीवं ।।
वृ- गत्वा द्विचक्रमूलं शकटस्य 'स्वाधीनं' प्रत्यासन्नं प्रभुमनुज्ञापयेत्, अननुज्ञापने प्रायश्चित्तं मासलघु, तस्मात् प्रायश्चित्तभीरुणा नियमतः प्रभोरनुज्ञापना कर्त्तव्या । अत्र प्रभुरित्युक्ते कश्चिच्चिन्तयति-राजानं मुक्त्वा कोऽन्यः प्रभुः ? इति राजाऽनुज्ञापनीय उक्तः, एवं चिन्तयित्वा नृपसमीपं गच्छेत्, गत्वा च तं राजानं धर्मलाभयेत् ॥
[भा. ४९८ ] किं देमित्ति नरवई, तुब्धं खरमक्खिया दुचक्कि त्ति । सोय सत्थो लेवो, एत्य य भद्देयरे दोसा ॥
वृ-तत्र स नरपतिर्ब्रूयात् किं ददामि ? | साधुर्वदति - युष्माकं 'द्विचक्राणि' शकटानि खरेणतैलेन प्रक्षितानि सन्ति, तत्र च यो लेपः स प्रशस्त इति तमनुजानीत । अत्र 'भद्रेतरदोषाः ' भद्रकदोषाः प्रान्तदोषाश्च । तत्र भद्रकदोषा इमे स राजाऽनुज्ञापितः सन् ब्रूयाद्-अहो ! निर्ममत्वा भगवन्त एतदप्ययाचितं न गृह्णन्ति, ततः स आज्ञापयेत् यानि कानिचन्मम विषये शकटानि तानि सर्वाण्यपि तैलेन प्रक्षणीयानि । प्रान्तः पुनरवं चिन्तयेत् - अहो ! अमी अशुचयो यदेतन्मां याचन्ते, नूनं सर्वमिदं नगरममीभिर्धर्षयितव्यमिति प्रद्वेषं यायात्, प्रद्विष्टश्च घोषापयेत्, यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org