________________
२२१
उद्देशकः ४, मूलं-१२८, [भा. ५४५३] गच्छो नाप्याचार्य ४ इति । अत्र प्रथमो भङ्गो गच्छे सीदति मन्तव्यः । तत्र च गुरुणा स्वयं वा गच्छस्य नोदना कर्तव्या । कथं पुनः स गच्छः सीदेत् ? इत्याह[भा.५४५४] पडिलेह दियतुअट्टण, निक्खिव आदान विनय सज्झाए।
आलोग-ठवण-भत्त-भास-पडल-सेञातराईसु॥ कृतेगच्छसाधवः प्रत्युपेक्षणांकालेन कुर्वन्ति, न्यूना-ऽतिरिक्तादिदोषैर्विपर्यासेन वा प्रत्युपेक्षन्ते, गरु-ग्लानादीनां वान प्रत्युपेक्षन्ते । निष्कारणे दिवा त्वग्वर्तयन्ति। दण्डकादिकं निक्षिपन्त आददतो वा न प्रत्युपेक्षन्ते, न वा प्रमार्जयन्ति, दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं वा कुर्वन्ति । यथार्ह विनयं न प्रयुञ्जते । स्वाध्याये-सूत्रपौरुषीमर्थपौरुषी वा न कुर्वन्ति, अकालेऽस्वाध्याये वा कुर्वन्ति । पाक्षिकादिषु आलोचनांनप्रयच्छन्ति, अथवा "आलोय"त्ति "ठाणदिसिपगासणया" इत्यादिकं सप्तविधमालोकं न प्रयुञ्जते, सङ्खडी वा आलोकन्ते । स्थापनाकुलानि न स्थापयन्ति ! भक्तार्थ' मण्डल्यां समुद्देशनं न कुर्वन्ति । गृहस्थभाषाभिषिन्ते, सावधं वा भाषन्ते । पटलकेषु आनीतं भुञ्जते शय्यातरपिण्डंभुञ्जते।आदिग्रहणेन उद्गमाघशुद्धं गृह्णन्ति ॥ एतेषु गच्छस्य सीदतो विधिमाह[भा.५४५५] चोयावेइ य गुरुणा, विसीयमानं गणं सयं वा वि।
आयरियं सीयंतं, सयं गणेणं च चोयावे ।। वृ-प्रथमभङ्गेसामाचार्यांविषीदन्तंगच्छंगुरुणानोदयति, अथवा स्वयमेव नोदयति।द्वितीयभङ्गे आचार्य सीदन्तं स्वयं वा गणेन वा नोदयति॥ [भा.५४५६] दुन्नि वि विसीमाणे, सयं वजे वा तहिं न सीयंति ।
ठाणं ठाणाऽऽसज्ज उँ, अनुलोमाईहि चोएति ।। वृ-तृतीयभङ्गे गच्छा-ऽऽचारों द्वावपि सीदन्तौ स्वयमेव नोदयति, ये वा तत्र न सीदन्ति तैर्नोदयति, किंबहुना? स्थानं स्थानम् आसाद्य प्राप्यानुलोमादिभिर्वचोभिर्नोदयति । किमुक्तं भवति?-आचार्योपाध्यायादिकं भिक्षु-क्षुल्लकादिकं वा पुरुषवस्तु ज्ञात्वा यस्य याशी नोदना योग्या यो वा खरसाध्यो मृदुसाध्यः क्रूरोऽक्रूरो वा यथा नोदनां गृह्णाति तं तथा नोदयेत् ।। [मा.५४५७] भणमाणे भणाविंते, अयाणमाणम्मि पक्खो उक्कोसो।
लज्जाए पंच तिन्नि व, तुह किं ति व परिणय विवेगो।। वृ-गच्छमाचार्युमुभयं वा सीदन्तं स्वयं भणन् अन्यैश्च भाणयन्नास्ते । यत्र न जानाति एते भण्यमाना अपि नोद्यमं करिष्यन्ति तत्रोत्कर्षतः पक्षमेकं तिष्ठति । गुरुं पुनः सीदन्तं लज्जया गौरवेण वा जाननपिपञ्च त्रीन् वा दिवसानभणन्नपि शुद्धः । अथ नोद्यमानो गच्छो गुरुरुभयं वा भणेत्-तव किं दुःखयति? यदिवयं सीदामस्तर्हि वयमेव दुर्गतिं गमिष्यामः । एवंविधे भावे तेषां परिणते तेषां विवेकः परित्यागो विधेयः । ततश्चान्यं गणं सङ्कमति। तत्र चतुर्भङ्गी-संविग्नः संविग्नं गणं सङ्क्रामति १ संविग्नोऽसंविग्नम् २ असंविग्नः संविग्नम् ३ असंविग्नोसंविग्नम् ४॥ तत्र प्रथमो भङ्गस्तावदुच्यते[भा.५४५८] संविग्गविहाराओ, संविग्गा दुन्नि एज्ज अन्नयरे ।
आलोइयम्मि सुद्धो, तिविहोवहिमग्गणा नवरि ।। - संविग्नविहाराद् गच्छात् संविग्नौ द्वौ 'अन्यतरौ' गीतार्था-ऽगीतार्थी संविग्ने गच्छे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org