________________
२२०
बृहत्कल्प-छेदसूत्रम् -३-४/१२७
[ भा. ५४५० ] एमेव गणावच्छे, गणि-आयरिए वि होइ एमेव । नवरं पुन नाणत्तं, ते नियमा हुति वत्ता उ ॥
दृ- 'एवमेव ' भिक्षुवद् गणावच्छेदिकस्य ज्ञान - दर्शन - चारित्रार्थमन्यं गणं गच्छतो विधिर्द्रष्टव्यः । गणिनः-उपाध्यायस्याचार्यस्य चैवमेव विधिः । नवरं पुनरिदं नानात्वम्-नियमात् 'ते' गणावच्छेदिकादयो व्यक्ता एव भवन्ति नाव्यक्ताः ॥
[ भा. ५४५१]
एसेव गमो नियमा, निग्गंधीणं पि होइ नायव्वो । ना जो उ नेई, सच्चित्त न अप्पिणे जाव ॥
वृ- 'एष एव ' भिक्षुसूत्रोक्तो गमो निर्ग्रन्थीनामप्यपरं गणमुपसम्पद्यमानानां ज्ञातव्यः । नवरम्नियमेनैव ताः ससहायाः । यः पुनः ज्ञानार्थं ता आर्यिका नयति स यावदद्यापि न वाचनाचार्यस्यार्पयति तावत् सचित्तादिकं तस्यैवाभवति । अर्पितासु पुनर्वाचनाचार्यस्याभाव्यम् ॥
कः पुनस्ता नयति ? इत्याह[भा. ५४५२]
पंचण्हं एगयरे, उग्गहवज्रं तु लभति सच्चित्तं । आपुच्छ अट्ठ पक्खे, इत्थीसत्थेण संविग्गो ॥
वृ- 'पञ्चानाम्' आचार्योपाध्याय प्रवर्तक स्थविर-गणावच्छेदकानामेकतरः संयतीर्नयति । तत्र सचितादिकं परक्षेत्रावग्रहवर्जं स एव लभते । निर्ग्रन्थी च ज्ञानार्थं व्रजन्ती अष्टौ पक्षानापृच्छतितत्राचार्यमेकं पक्षमापृच्छति, यदि न विसर्जयति तत उपाध्यायं वृषभं गच्छं चैवमेव पृच्छति; संयतीवर्गेऽपि प्रवर्तिनी - गणावच्छेदिका -ऽभिषेका-शेषसाध्वीर्यथाक्रममेकैकं पक्षमापृच्छति । ताश्च स्त्रीसार्थेन समं संविग्नेन परिणतवयसा साधुना नेतव्याः ॥
मू. (१२८) भिक्खू य गणाओ अवक्कम्म इच्छेजा अन्नं गणं संभोगपडियाए उवसंपजित्ताणं विहरित्तए, नो से कप्पइ अनापुच्छित्ता आयरियं वा जाव अन्नं गणं संभोगवियाए उवसंपचित्ताणं विहरितए: कप्पइ स आपुच्छित्ता आयरियं वा जाव विहरितए। ते य से वियरंति एवं से कप्पइ जाव विहरित्तए; ते य से नो नियरेज्जा एवं से नो कप्पइ जाव विहरित्तए । जत्थुत्तरियं धम्मविनयं भेजा एवं से कप्पइ अन्नं गणं संभोगपडियाए उवसंपजित्ताणं विहरित्तए; जत्युत्तरियं धम्मविनयं नो लभेजा एवं से नो कम्पइ अन्नं गणं जाव विहरित्तए ।
वृ- अस्य व्याख्या प्राग्वत् । नवरम्-सम्भोगः- एकमण्डल्यां समुद्देशनादिरूपः तत्प्रत्ययं तन्निमित्तम् । " जत्थुत्तरियं" इत्यादि, 'यत्र' गच्छे उत्तरं प्रधानतरं 'धर्मविनयं' स्मारणावारणादिरूपां धार्मिकीं शिक्षां लभेत एवं "से" तस्य कल्पते अन्यं गणमुपसम्पद्य विहर्तुम् । यत्रोत्तरं धर्मविनयं नो लभेत एवं “से” तस्य नो कल्पते उपसम्पद्य विहर्तुमिति सूत्रार्थः ।। अथ भाष्यम्
[ भा. ५४५३ ] संभोगो वि हु तिहि कारणेहि नाणट्ट दंसण चरिते । संकमणे चउभंगो, पढमो गच्छममि सीयंते ॥
वृ- सम्भोगोऽपि त्रिभिः कारणैरिष्यते । तद्यथा ज्ञानार्थं दर्शनार्थं चारित्रार्थं च । तंत्र ज्ञानार्थं दर्शनार्थं वा यस्योपसम्पदं प्रतिपन्नस्तस्मिन् सूत्रार्थदानादौ सीदति गमान्तरसङ्क्रमणे स एव विधिर्य पूर्वसूत्रे भणितः । चारित्रार्थं तु यस्योपसम्पन्नस्तत्र चरण-करणक्रियायां सीदति चतुर्भङ्गी भवति गच्छः सीदति नाचार्य १ आचार्य सीदति न गच्छः २ गच्छोऽप्याचार्योऽपि सीदति ३ न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org