________________
उद्देशक : ४, मूलं- १२५, [भा. ५४४७]
[भा. ५४४७]
एयारिसं विओसज्ज, विप्पवासो न कप्पई । सीस- पडिच्छा ऽऽयरिए, पायच्छित्तं विहिजई ||
२१९
वृ-गाथात्रयमपि गतार्थम् भवेत् कारणं येन न पृच्छेत्[ भा. ५४४८ ]
बिइयपदमसंविग्गे, संविग्गे चैव कारणागाढे । नाऊण तस्स भावं, अप्पणो भावं अनापुच्छा ।। वृ- द्वितीयपदमत्रोच्यते- आचार्यादिरसंविग्नो भवेत्, अथवा संविग्नः परम् अहिदष्टादिकमागाढकारणमवलम्ब्य न पृच्छेत्, 'तस्य वा' गुरोः 'भावं' 'सुचिरेणापि न विसर्जयति' इति लक्षणं ज्ञात्वा, आत्मीयं च 'भावम्' 'अहमिह तिष्ठन्नवश्यं विनस्यामि' इति ज्ञात्वाऽ नापृच्छयाऽपि व्रजेत् ॥ अथ गुरोः चारित्रे सीदतो विधिमाह
[ मा. ५४४९] सेजायरकप्पट्टी, चरितठवणाए अभिगया खरिया । सारुविओ गिहत्थो, सो वि उवाएण हायव्वो ।।
वृ- शय्यातरस्य कल्पस्थिकायां आचार्येण चारित्रस्य स्थापना कृता, तां प्रतिसेवत इति भावः, तस्यां चारित्रस्थापनायां जातायाम्, द्व्यक्षरिका वा काचिद् 'अभिगता' जीवाद्यधिगमोपेता श्राविकेत्यर्थः तस्यामाचार्योऽध्युपपन्नः, स च चारित्रवर्जितो वेषधारी भवेत्, सारुपिको वा गृहस्थो वा उपलक्षणत्वात् सिद्धपुत्रको वा । तत्र मुण्डितशिराः शुक्लवासः परिवायी कच्छामबध्नानोऽ भार्यको भिक्षां हिण्डमानः सारुपिक उच्यते । यस्तु मुण्डः सशिखाको वा सभार्थकः स सिद्धपुत्रकः । एवमेषामन्यतर उपायेन हर्तव्यः । कथम् ? इति चेद् उच्यते पूर्वं तावद् गुरवो भण्यन्ते वयं युष्मद्विरहिता अनाथा अतः प्रसीद गच्छामोऽपरं क्षेत्रम् । एवमुक्ते यदि नेच्छन्ति ततो यस्यां स प्रतिबद्धः सा प्रज्ञाप्यते - एष बहूनां साधूनामाधारः, एतेन विना गच्छस्य ज्ञानादीनां परिहानि, अतो मा नरकादिकं संसारमात्मनो वर्धय । यदि सा स्थिता ततः सुन्दरम् । अथ न तिष्ठति ततो विद्या- मन्त्रादिभिरावर्त्यते । तदभावे केवयिका अपि तस्या दीयन्ते, गुरुश्च पूर्वक्रमेण रात्री हर्तव्यः । एवं तावद् भिक्षुमङ्गीकृत्य विधिरुक्ताः ॥
सू. (१२६) गणावच्छेइए य गणादवक्कम्म इच्छेजा अन्नं गणं उवसंपजित्ताणं विहरित्तए, कप्पति गणावच्छेइयस्स गणावच्छेइयत्तं निक्खिवित्ता अन्नं गणं उवसंपजित्ताणं विहरित्तए । नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव अन्नं गणं उपसंपजित्ताणं विहरित्तए: कप्पइ से आउच्छिता आयरियं वा जाव विहरित्तए । ते य से वितरंति एवं से कप्पड़ जाव विहरित्तए; ते य से नो वितरंति एवं से नो कप्पइ जाव विहरित्तए
मू. (१२७) आयरिय-उवज्झा य गणाओ अवकम्म इच्छेजा अनं गणं उवसंपजित्ताणंविहत्तिए, कप्पइ आयरिय-उवज्झायस्स आयरिय-उवज्झायत्तं निक्खिवित्ता अन्नं गणं उवसंपचित्ताणं विहरितए । नो से कप्पइ अनापुच्छित्ता आयरियं वा जाव अन्नं गणं उवसंपञ्जित्ताणं विहरित्तए; कप्पति से आपुच्छित्ता जाव विहरित्तए। ते य से वितरंति एवं से कप्पति अन्नं गणं उवसंपत्रित्ताणं विहरित्तए; ते य से नो वियरांति एवं से नो कप्पति अन्नं गणं उवसंपज्जित्ताणं विहरित्तए ॥
वृ- अस्य सूत्रद्वयस्य व्याख्या प्राग्वत् । नवरम्-गणावच्छेदिकत्माचार्योपाध्यायत्वं च निक्षिप्य गन्तव्यमिति विशेषः ॥ अथ आष्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org