________________
२१८
बृहत्कल्प-छेदसूत्रम् -३-४/१२५ [भा.५४०] चरित्तद्व देसे दुविहा, एसणदोसा य इत्थिदोसाय।
गच्छम्मिय सीयंते, आयसमुत्थेहिं दोसेहि। वृ-चारित्रार्थं गमनं द्विधा-देशदोषैरात्मसमुत्थदोषैश्च । देशदोषाद्विविधाः-एषणादोषाः स्त्रीदोषाश्च । आत्मसमुत्था अपि द्विधा-गुरुदोषा गच्छदोषाश्च । तत्र गच्छो यदि 'आत्मसमुत्यैः' चक्रवालसामाचारीवितथकरणलक्षणैर्दोषैः सीदेत् तत्र पक्षमापृच्छनास्ते, तत ऊध्र्व गच्छति ।। इदमेव व्याचष्टे. [भा.५४१] जहियं एसणदोसा, पुरकम्माई न तत्थ गंतव्वं ।
उदगपउरोव देसो, जहिं व चरिगाइसंकिन्नो। वृ-यत्र देशे पुरः कर्मादय एषणादोषा भवेयुः तत्र न गन्तव्यम् । यो वा उदकप्रचुरो देशः सिन्धुविषयवयोवा चरिकादिभिः-परिव्राजिका-कापालिकी-तच्चनिकादिभिर्बहुमोहाभिराकीर्णो विषयस्तत्रापि न गन्तव्यम् ।। अथाशिवादिभिः कारणैस्तत्र गता भवेयुस्ततः[मा.५४४२] असिवाईहिगता पुन, तकजसमाणिया तओ निंति।
आयरियमन्तेि पुन, आपुच्छिउ अप्पण निति ।। वृ-अशिव-दुर्भिक्ष-परचक्रादिभिः कारणैस्तत्र गता अपि "तकनसमाणिय" त्ति प्राकृते पूर्वापरनिपातस्यातन्त्वात् समापिततत्कार्या, संयमक्षेत्रे यदाऽशिवादीनिस्फिटितानि भवन्तीति भावः, तदा 'ततः' असंयमक्षेत्राद् निर्यन्ति निर्गच्छन्ति। यद्याचार्या केनापि प्रतिबन्धेन सीदन्तो न निर्गछेयुः ततो ये एको द्वौ बहवोऽसीदन्तस्ते गुरुमापृच्छय आत्मना निर्गच्छन्ति।
तत्र चायं विधिः[भा.५४३] दो मासे एसणाए, इत्थिं वजेज्ज अढदिवसाई।
गच्छम्मि होइ पक्खो, आयसमुत्थेगदिवसंतु॥ -एषणायामशुध्यमानायां यतनयाऽनेषणीयमपि गृह्णन् द्वौमासी गुरुमापृच्छन् प्रतीक्षते। अथ स्त्री-शय्यातरीप्रतिका उपसर्गयति आत्मनश्च दृढं चित्तं ततोऽष्टौ दिवसान् गुरुनापृच्छय ततस्तत् क्षेत्रं वर्जयेत् । यत्र च गच्छः सीदति तत्र पक्षमापृच्छय गन्तव्यम् । अथ स्त्रियां स्वयमध्युपपनस्तत ईशो आत्मसमुत्ये आगाढदोषे एकदिवसमापृच्छय गच्छति ॥ [मा.५४) सेञ्जयरिमाइ सएज्झए व आउत्थ दोस उभए वा।
आपुच्छइ सन्निहियं, सन्त्राइगतं व तत्तो उ॥ वृ-अथात्मनाशय्यातर्यादौ स्त्रियां 'सज्झिकायां वा प्रातिवेश्मिक्यामतीवाध्युपपन्नः, 'उभयं वा' परस्परमध्युपपनं ततो यद्याचार्य सन्निहितस्तदा तमापृच्छय गच्छति । अथासन्निहितः संज्ञाभूम्यादौ गत आचार्यस्तदा ततएवानापृच्छया गच्छति,अपरंवा सन्निहितसाधुंभणति-मम वचनेन गुरुणामाप्रच्छनं निवेदनीयम् ॥ [भा.५४५] एयविहिमागयं तू, पडिच्छ अपडिच्छणे भवे लहुगा।
अहवा इमेहिं आगय, एगागि(दी) पडिच्छणे गुरुगा ।। [मा.५४४६] एगेअपरिणए या, अप्पाहारे यथेरए।
गिलाणे बहुरोगीय, मंदधम्मे य पाहुडे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org