________________
उद्देशक : ४, मूलं- १२५, [भा. ५४२३]
२१५
द्वाविंशतिर्नालबद्धानि लभ्यन्ते । तद्यथा-माता १ पिता २ भ्राता ३ भगिनी ४ पुत्रो ५ दुहिता ६, मातुर्माता ७ मातुः पिता ८ मातुर्भ्राता ९ मातुर्भगिनी १०, एवं पितुर्माता ११ पिता १२ भ्राता १३ भगिनी १४, भ्रातुः पुत्रो १५ दुहिता १६, भगिन्याः पुत्रः १७ पुत्रिका १८, पुत्रस्य पुत्र १९ पुत्रिका २०, दुहितुः पुत्रः २१ पुत्रिका २२ चेति । एतानि द्वाविंशतिरपि श्रुतोपसम्पदं प्रतिपन्नस्याभवन्ति । सुख-दुःखोपसम्पन्नस्तु एतान् सर्वानपि वयस्यांश्च लभते । मार्गोपसम्पन्न एतान् सर्वानपि लभते, अपरे च ये केचिद् ध्यभाषितास्तानपि प्राप्नोति । विनयोपसम्पदं प्रतिपन्नस्तु 'सर्वानपि ' ज्ञाता - ऽज्ञात- ध्ष्टाऽध्ष्टान् लभते, नवरम्-विनयार्हस्य विनयं प्रयुङ्क्ते ॥
"सए ठाणे" त्ति यदुक्तं तस्यायमर्थः पञ्चविधाऽप्युपसम्पत् स्वस्मिन् स्थाने प्रतिपत्तव्या । किमुक्तं भवति ? श्रुतोपसम्पदं प्रतिपित्सोर्यस्य पार्श्वे श्रुतमस्ति तत् तस्य स्वस्यानम्, सुखदुःखार्थिनः स्वस्थानं यत्र वैयावृत्यकराः सन्ति, क्षेत्रोपसम्पदर्थिनो यदीये क्षेत्रे भक्त-पानादिकमस्ति, मार्गोपसम्पदर्थिनो यत्र मार्गज्ञः समस्ति, विनयोपसम्पदर्शिनो यत्र विनयकरणं युज्यते, एतानि स्वस्थानानि । अथवा स्वस्थानं नाम प्रव्रज्यया श्रुतेन च य एकपाक्षिकस्तत्र प्रथममुपसम्पत्तव्यम्, पश्चात् कुलेन श्रुतेन चैकपाक्षिकस्य पार्श्वे, ततः श्रुतेन गणेन चैकपाक्षिकस्य समीपे, ततः श्रुतेनैकपाक्षिकस्य सन्निवौ, ततः प्रव्रज्ययैकपाक्षिकस्य सकाशे, ततः प्रव्रज्यया श्रुतेन वा नैकपाक्षिकस्यापि पार्श्वे उपसम्पत् प्रतिपत्तव्या ।।
आह-साधर्मिकवात्सल्याराधनार्थं सर्वेणापि सर्वस्य श्रुताध्यापनादि कर्तव्यं ततः किमर्थं प्रथमं प्रव्रज्या कुलादिभिरासन्नतरेषूपसम्पद्यते ? इत्याह
[भा. ५४२४] सव्वस्स वि कायव्वं, निच्छयओ किं कुलं व अकुलं वा । कालसभावममत्ते, गारव - लज्जाहिं काहिंति ॥
वृ-निश्चयतः सर्वेण सर्वस्याप्यविशेषेण श्रुतवाचनादिकमात्पनो विपुलतरां निर्जरामभिलषता कर्तव्यम्, किं कुलकुलं वा इत्यादिविचारणया ? ; परं दुष्षमालक्षणो यः कालस्तस्य यः स्वभावःअनुभावस्तेन 'आत्मीयोऽयम्' इत्यादिकं यद् ममत्वम्, यद्य गुर्वादिविषयं गौरवंबहुमानबुद्धिः, या वा तदीया लज्जा, एतैः प्रेरिताः सुखेनैव करिष्यन्तीति कृत्वा प्रथमं प्रव्रज्यादिभिरासनतरेषूपसम्पद्यत इति ॥ गतं ज्ञानार्थं गमनम् । अथ दर्शनार्थं गमनगमाह
[ भा. ५४२५] कालिय पुव्वगए वा, निम्माओ जति य अत्थि से सत्ती । दंसणदीवगहेउं, गच्छइ अहवा इमेहिं तु ।।
वृ- कालिकश्रुते पूर्वगते वा यद् वा यस्मिन् काले श्रुतं प्रचरति तस्मिन् सूत्रेणार्थेन च यदा निर्मातो भवति, यदि च तस्य ग्रहण- धारणशक्तिस्तथाविधा समस्ति ततो दर्शनदीपकानिसम्यग्दर्शनोज्ज्वालनकारीणि यानि सम्मत्यादीनि शास्त्राणि तेषां हेतोरन्यं गणं गच्छति ॥ अथवा एभिः कारणैर्गच्छेत
[ भा. ५४२६] भिक्खुगा जहिं देसे, वोडिय थलि निण्हएहिं संसग्गी । सिंपन्नवणं असहमाणे वीसज्जिए गमनं ॥
वृ-यत्र देशे 'भिक्षुकाः ' बौद्धा बोटिका वा निहवा वा बहवस्तेषां तत्र स्थली तत्र ये आचार्या स्थितास्तैः सार्द्धमाचार्याणा संसर्गिः प्रीतिरित्यर्थः ते च भिक्षुकादयः स्वसिद्धान्तं प्रज्ञापयन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org