________________
२१४
बृहस्कल्प-छेदसूत्रम् -३-४/१२५ सुन्दरम्, अथ न निर्मातस्ततः पुनरपि कुलादिषु कुलादिस्थविरेषु वा तेनैव क्रमेणोपतिष्ठन्ते, तावन्तमेव कालं कुलादीनि यथाक्रमं पाठयन्ति, नच सचित्तादिकं हरन्ति, एवमेतान्यपि द्वादश वर्षाणिभवन्ति।पूर्वद्वादशमिश्चमीलितानिजातावर्षाणांचतुर्विशति। यदिएतावताकालेनैकोऽपि निर्मातस्तदा विहरन्तु, अथ न निर्मातस्ततो भूयोऽपि कुल-गण-सद्धेषु तथैवोपतिष्ठन्ते, तेऽपि तथैव पाठयन्ति। एतान्यपि द्वादश वर्षाणि चतुर्विशत्या मील्यन्ते जाता षटत्रिंशता वषैरेकोऽपि निर्मातस्ततो विहरन्तु ।। अथैकोऽपिन निर्माताः, कथम् ? इति चेद् उच्यते[भा.५४१९] ओमादिकारणेहि व, दुम्मेहत्तेण वान निम्माओ।
काऊण कुलसमायं, कुल थेरे वा उवट्ठति ।। १. अवमा-ऽशिवादिभिः कारणैरनवरतमपरापरग्रामेषु पर्यटतां दुर्भधस्तया वा नैकोऽपि निर्मातस्ततः कुलसमवायं कृत्वा (कुल) कुलस्थविरान् वा सर्वेऽप्युपतिष्ठन्ते ततस्तैरुपसम्पदं ग्राहयितव्याः॥कुत्र पुनः? इति चेद् उच्यते[भा.५४२०] पव्वजएगपक्खिय, उवसंपय पंचहा सए ठाणे ।
छत्तीसाऽतिकते, उपसंपय पत्तुवादाए। कृयः प्रव्रज्यया एकपाक्षिकस्तस्यपाचे उपसम्पदंतान्कुलस्थविराग्राहयेयुः।साचउपसम्पत् पञ्चधा वक्ष्यमाणनीत्या 'स्वकम् आत्मीयं स्थानम् 'उपादाय गृहीत्वा तैरुपसम्पत्तव्यम् ।।
इदमेव भावयति[भा.५४२१] गुरुसज्झिलओ सझंतिओ व गुरुगुरु गुरुस्स वा नत्तू।
अहवा कुलिघतो ऊ, पव्वजाएगपक्खीओ॥ -'गुरुसज्झिलकः गुरुणांसहाध्यायी पितृव्यस्थानीयः सन्झन्तिकः' आत्मनःसब्रह्मचारी भ्रातृस्तानीयः, 'गुरुगुरु' पितामहस्थानीयो गुरु-, गुरोः सम्बन्धी 'नप्ता प्रशिष्य आत्मानो भ्रातृव्यस्थानीयः, एते प्रव्रज्यया एकपाक्षिका उच्यन्ते । अथवा 'कुलसत्कः' समानकुलोद्भवः सोऽपि प्रव्रज्ययैकपाक्षिकः। एतेषां समीपे यथाक्रममुपसम्पत्तव्यम्॥ [मा.५४२२] पव्वजाए सुएण य, चउभंगुवसंपया कमेणंतु।
पुवाहियवीसरिए, पढमासइ ततियभंगेउ॥ वृ. इहैकपाक्षिकः प्रव्रज्यया श्रुतेन च भवति । तत्र प्रव्रज्यैकपाक्षिकोऽनन्तरमुक्तः, श्रुतैकपाक्षिकः-येनसहकवाचनिक सूत्रम्।अत्रचतुर्भही-प्रव्रज्ययैकपाक्षिकः श्रुतेनच प्रव्रज्यया न श्रुतेन २ श्रुतेन न प्रव्रज्यया ३ न प्रव्रज्यया न श्रुतेन ४। एतेषु चामुना क्रमेणोपसम्पत् प्रतिपत्तव्या । “पढमा" इत्यादि, प्रथमतः प्रथमतः प्रथममझे उपसम्पत्तव्यम्, तदभावे तृतीये भङ्गे । कुतः ? इत्याह- यतः पूर्वाधीतं श्रुतं विस्मृतं सत् तेषु सुखेनैवोज्ज्वालयितुं शक्यते, श्रुतैकपाक्षिकत्वात्॥अथ पञ्चविधामुपसम्पदमाह[मा.५४२३] सुय सुह-दुक्खे खेते, मग्गे विनओवसंपयाएय।
बावीस संथुय वयंस दिट्ठभट्ठे यसवे य॥ -श्रुतोपसम्पत् १ सुख-दुःखोपसम्पत् २ क्षेत्रोपसम्पद् ३मार्गोपसम्पद् ४ विनयोपसम्पत् ५ एवमेषापञ्चविधा उपसम्पत्। एतासुपञ्चस्वप्याभवव्यवहारमाह-"बावीस" इत्यादि, श्रुतोपसम्पदि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org