________________
उद्देशक: ४, मूलं- १२५ [ मा. ५४०२ ]
२११
वृ-किमप्यध्ययनं व्यवच्छिद्यते, तस्य च तद्रहणे सामर्थ्यमस्ति, न च गुरवश्चिरेणापि 'वितरन्ति' गन्तुमनुजानते, एतेन कारणेनाविसर्जितोऽपि गच्छेत् || 'अविधिना आगत आचार्येण न प्रतीच्छनीयः' इत्यस्यापवादमाह -
[भा. ५४०३]
नाऊण य वोच्छेदं, पुव्वगते कालियानुओगे य । अविहि-अनापुच्छाऽऽगत, सुत्तत्थविजाणओ चाए ।
- पूर्वगते कालिकश्रुते वा व्यवच्छेदं ज्ञात्वा अविधिना - व्रजिकादिप्रतिबन्धेनागतमनापृच्छयागतं वा सूत्रार्थज्ञायको वाचयेत्, न कश्चिद्दोषः ।। यस्तेन प्रतीच्छकेन शैक्षस्तस्याभिधारितस्यानाभाव्य आनीतः स न ग्रहीतव्यः' इत्यपवदति
[ भा. ५४०४]
नाऊण य वोच्छेदं, पुव्वगते कालियानुओगे य ।
सुत्तत्थजाणगस्सा, कारणजाते दिसाबंधो ॥
वृ- पूर्वगते कालिकश्रुते वा व्यवच्छेदं ज्ञात्वा सूत्रार्थज्ञायकेन कारणजाते अनाभाव्यस्यापि आत्मीयो दिग्बन्धः कर्तव्यः । आह- किमर्थमनिबद्धो न वाच्यते ? उच्यते-अनिबद्धः स्वयमेव कदाचिद् गच्छेत् पूर्वाचार्येण वा नीयेत, कालदोषेण वा ममत्वीभावमालम्ब्य वाचयिष्यन्ति इति दिग्बन्धोऽनुज्ञातः । इदमेव सविशेषमाह
[भा. ५४०५ ]
ससहाय अवत्तेणं, खेत्ते वि उचट्ठियं तु सच्चित्तं । दलियं नाउं बंधति, उभयममत्तट्टया तं वा ॥
वृ- अव्यक्तेन ससहायेन यः शैक्षो लब्धो यश्च परक्षेत्रेऽपि उपस्थितः सचित्तः स पूर्वाचार्यस्य क्षेत्रिकाणां वा यद्यपि आभाव्यस्तथापि तं 'दलिकं' परममेधाविनमाचार्यपदयोग्यं ज्ञात्वा यद्यात्मीये गच्छे नास्त्याचार्यपदयोग्यस्ततस्तस्यात्मीयां दिशं बध्नाति, स्वशिष्यत्वेन स्थापयतीत्यर्थः । कुतः ? इत्याह-उभयस्य-साधु-साध्वीवर्गस्य तत्र सैक्षे ममत्वम्- 'अस्माकमयम् इत्येवं ममीकारो भूयात्' इति कृत्वा, यद्वा स्वगच्छीयसाधूनां तस्य च शैक्षस्य 'परस्परं सज्झिलका वयम् इत्येवं ममत्वं भविष्यति' इति बुध्या तमात्मीयशिष्यत्वेन बध्नाति । "तं व "त्ति यो वा प्रतीच्छक आयातस्तमपि ग्रहण-धारणासमर्थं विज्ञाय स्वशिष्यं स्थापयति । एवं शैक्षः प्रतीच्छको वा कारणे शिष्यतया निबद्धः सन् यदा निर्मातो भवति तदा
[ भा. ५४०६ ]
आयरिए कालगते, परियदृइ तं गणं च सो चेव ।
चोएति य अपढंते, इमा उ तहि मग्गणा होइ ॥
दृ- आचार्ये कालगते सति गच्छस्य निबद्धाचार्यस्य च व्यवहारो भण्यते स स्वयमेव तं गणं परिवर्तयति । स च गच्छो यदि श्रुतं न पठति ततस्तमपठन्तं नोदयति । यदि नोदिता अपि ते गच्छसाधवो न पठन्ति तत इयमाभवद्व्यवहारमार्गणा भवति ॥
[भा. ५४०७ ] साहारणं तु पढमे, बितिए खित्तम्मि ततिय सुह-दुक्खे।
अणहिज्जते सीसे, सेसे एक्कारस विभागा ॥
- कालगतस्याचार्यस्य प्रथमे वर्षे सचित्तादिकं साधारणम्, यदसौ प्रतीच्छकाचार्य उत्पादयति तत् तस्यैवाभवति यद् इतरे गच्छसाधव उत्पादयन्ति तत् तेषामेवाभवतीति भावः । द्वितीये वर्षे यत् क्षेत्रोपसम्पन्नो लभते तत् तेऽपठन्तो लभन्ते । तृतीये वर्षे यत् सुख-दुःखोपसमपन्नो लभते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org