________________
२१०
बृहत्कल्प-छेदसूत्रम् -३-४/१२५ द्वितीयं पक्षमेवमेवाचार्योपाध्याय-शेषसाधून प्रत्येमेकैकं पञ्चभिर्दिवसः पृच्छति; तृतीयमपि पक्षमेवमेव पृच्छति, एवं त्रयः पक्षा भवन्ति । अथवा पक्षेणैकैकं पृच्छेत् । किमुक्तं भवति?. निरन्तरमेवाचार्य एकंपक्षमाप्रच्छनीयः,तत उपाध्यायोऽप्येकंपक्षम्, गच्छसाधवोऽप्येकं पक्षम्, एवंवा त्रयः पक्षाः । एवमपि यदि न विसर्जयन्ति ततोऽविसर्जित एव गच्छति ॥ [भा.५३९८] एयविहिमागतं तू, पडिच्छ अपडिच्छणे भवे लहुगा।
अहवा इमेहि आगते, एगादि पडिच्छती गुरुगा। वृ- एतेने विधिना आगतं प्रतीच्छकं प्रतीच्छेत् । अप्रतीच्छतश्चतुर्लघुका भवेयुः । अधामीभिरेकादिभिः कारणैरागतं प्रतीच्छति ततश्चतुर्गुरुकाः॥तान्येव एकादीनि कारणान्याह[भा.५३९९] एगे अपरिणते या, अप्पाहारे यथेरए।
गिलाणे बहुरोगे य, मंदधम्मेय पाहुडे ।। एकाकिनमाचार्यमुक्त्वाससमागतः। अथवा तस्याचार्यस्यपायेतिष्ठन्तिते अपरिणताः' आहार-वस्त्र-पात्र-शय्या-स्थण्डलानामकल्पिकाः तैः सहितमाचार्य मुक्त्वा आगतः ।अथवा स आचार्य 'अल्पाधारः' तमेव पृष्टवा सूत्रा-ऽर्थवाचनां ददाति । स्थविरो वा स आचार्य, यद्वा तदीये गच्छे कोऽपि साधुः स्थविरस्तस्य स एव वैयावृत्यकर्ता ।ग्लानो वाबहुरोगी वासआचार्य। 'ग्लानः' अधुनोत्पनरोगः, 'बहुरोगीनाम चिरकालं बहुभिर्वा रोगैरभिभूतः अथवा शिष्यास्तस्य मन्दधर्माणस्तस्यैव गुणेन सामाचारीमनुपालयन्ति। एवंविधमाचार्य परित्यज्यागतः । “पाहुडे"त्ति गुरुणा समं 'प्राभृतं' कलहं कृत्वा समागतः; अथवा 'प्राभृतकारिणः' आसङ्कडिकास्तस्य शिष्यास्तस्यैव गुणेन नासङ्खडयन्ति॥ [भा.५४००] एयारिसंविओसज, विप्पवासो न कप्पती।
सीस-पडिच्छा-ऽऽयरिए, पायच्छित्तं विहिज्जती ।। वृ-एताशमाचार्य व्युत्सृज्य 'विप्रवासः' गमनं कर्तुन कल्पते। यदि गच्छति ततः शिष्यस्य प्रतीच्छकस्याचार्यस्य च त्रयाणामपि प्रायश्चित्तं विधीयते । तत्रैकं ग्लानं वा मुक्त्वा शिष्यस्य प्रतीच्छकस्य वा समागतस्य चतुर्गुरुकाः, यश्चाचार्यप्रतीच्छति तस्यापि चतुर्गुरु । प्राभृते शिष्य. प्रतीच्छकयोश्चतुर्गुरुकमेव, आचार्यस्यपञ्चरात्रिन्दिवच्छेदः । शेषेषु अपरिणतादिषुपदेषुशिष्यस्य चतुर्गुरु, प्रतीच्छकस्य चतुर्लघु, आचार्यस्यापि शिष्यं प्रतीच्छत एतेषु चतुर्गुरु, प्रतीच्छकं प्रतीच्छतश्चतुर्लघु ।। अथ 'ज्ञानार्थ त्रीन् पक्षानाप्रच्छनीयम्' इत्यत्रापवादमाह[भा.५४०१] बिइयपदमसंविग्गे, संविग्गे चेव कारणागाटे।
नाऊण तस्सभावं, कप्पति गमनं अनापुच्छा॥ वृ-द्वितीयपदमत्र भवति-आचार्यादिष्वसंविग्नीभूतेषु न पृच्छेदपि । संविग्नेष्वपि वा किञ्चिदागाढं-चारित्रविनाशनकारणंस्त्रीप्रभृतिकमात्मनःसमुत्पत्रंततोऽनापृच्छयाऽपिगच्छति। तेषां वा-गुरूणां स्वभावंज्ञात्वा-'नतेपृष्टाः सन्तः कथमपिविसर्जयन्ति' इतिमत्वाअनापृच्छयापि गमनं कल्पते॥अथाविसर्जितेन न गन्तव्यमित्यपवदति[भा.५४०२] अज्झयणं वोच्छिज्जति, तस्स य गहणम्मि अस्थि सामत्थं ।
नवि वियरंति चिरेण वि, एतेनऽविसज्जितो गच्छे॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org