________________
उद्देशक : ४, मूलं- १२५, [भा. ५३९३]
[ भा. ५३९३]
पंथ सहाय समत्यो, धम्मं सोऊण पव्वयामि त्ति । खेत्ते य बाहि परिणये, वाताहडे मग्गणा इणमो ॥
वृ-योऽसौ ज्ञानार्थं प्रस्थितस्तस्य पथि गच्छतः कश्चिद् मिध्यादृष्टिः 'वाताहृतः' वातेनाऽऽहृत इव वाताहृतः, आकस्मिक इत्यर्थः, समर्थ सहायो मिलितः, स च तस्य पार्श्वे धर्मं श्रुत्वा 'प्रव्रजामि' इति परिणाममुपगतवान् । स च परिणामः साधुपरिगृहीते क्षेत्रे जातो भवेत्, 'क्षेत्रात् वा बहिः' इन्द्रस्थानादौ वा अपरिगृहीते वा क्षेत्रे, ततस्तत्र वाताहते प्रव्रजितुं परिणते इयं मार्गणा भवति || [ भा. ५३९४] खेत्तम्मि खेत्तियस्सा, खेत्तवहिं परिणए पुरिल्लस्स । अंतर परिणय विष्परिणए य नेगा उ मग्गणता ॥
२०९
वृ- साधुपरिगृहीते क्षेत्रे प्रव्रज्यापरिणतः क्षेत्रिकस्याभवति । क्षेत्राद् बहिः परिणतस्तु " पुरिल्लस्स'' त्ति तस्यैव साधोराभवति । अथान्तराऽन्तरा स प्रव्रज्यायां परिणतो विपरिणतश्च भवति ततः क्षेत्रेऽ क्षेत्रे च धर्मकथिकस्य राग-द्वेषौ प्रतीत्यानेका मार्गणा । तद्यथा-यदि धर्मकथी ऋजुतया कथयति तदा क्षेत्रे परिणतः क्षेत्रिकस्याभवति, अक्षेत्रे परिणतो धर्मकधिकस्य । अथ विपरिणते भावे रागेण न कथयति, यदा क्षेत्रान्निर्गतो भविष्यति तदा कथयिष्यामि येन मे आभवति । एवं क्षेत्रनिर्गतस्य कथिते यदि परिणतः तदा क्षेत्रिकस्याभवतीत्येवं विभाषा कर्तव्या ।। [भा. ५३९५ ] वीसज्जियम्मि एवं अविसज्जिए चउलहुं च आणादी । तेसि पि हुति लहुगा, अविधि विही सा इमा होइ ||
वृ- एवमेष विधिर्गुरुणा विसर्जिते शिष्ये मन्तव्यः । अथाविसर्जितो गच्छति तदा शिष्यस्य प्रतीच्छकस्य च चतुर्लघु । अथ विसर्जितो द्वितीयं वारमनापृच्छय गच्छति तदा मासलघु आज्ञादयश्च दोषाः । येषामपि समीपेऽसौ गच्छति तेषामप्यविधिनिर्गतं तं प्रतीच्छतां भवन्ति चत्वारो लघवः, सचित्तादिकं चाभाव्यं न लभन्ते । एषोऽ विधिरुक्तः, विधि पुनरयं वक्ष्यमाणो भवति ।। स पुनराचार्य एभि कारणैर्न विसर्जयति[मा. ५३९६ ]
परिवार - पूयहे, अविसज्यंते ममत्तदोसा वा ।
अनुलोमेन गमेजा, दुक्खं खु विमुचिरं गुरुणो ॥
वृ- आत्मनः परिवारनिमित्तं न विसर्जयति, बहुभिर्वा परिवारितः पूजनीयो भविष्यामि, 'मम शिष्योऽन्यस्य पार्श्वं गच्छति' इति ममत्वदोषाद्वा न विसर्जयति, एवमविसर्जयन्तं गुरुम् 'अनुलोम्ना' अनुकूलैर्वचोभि 'गमेत्' प्रज्ञापयेत् । कुतः ? इत्याह- 'दुःखं' दुष्करं 'खुः' अवधारणे गुरून् विमोक्तुम्, परमपकारकारित्वाद् न ते यतस्ततो विमोक्तुं शक्या इति भावः । ततः प्रथमत एव विधिना गुरूनापृच्छय गन्तव्यम् ।। कः पुनर्विधिः ? इति चेद् उच्यते
[मा. ५३९७] नाणम्मि तिनि पक्खा, आयरि-उज्झाय से सगाणं च ।
एक्केक पंच दिवसे, अहवा पक्खेण एक्केकं ॥
सृ- ज्ञानार्थं गच्छता आचार्योपाध्याय शेषसाधूनां त्रीन् पक्षान् आपृच्छा कर्तव्या । तत्र प्रथममाचार्यं पञ्च दिवसानापृच्छति, यदि न विसर्जयति तत उपाध्यायं पञ्च दिवसानापृच्छेत्, यदि सोऽपि न विसर्जयति तदा शेषाः साधवः पञ्च दिवसान् प्रष्टव्याः, एष एकः पक्षो गतः; ततो
2014
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org