________________
२०८
बृहत्कल्प-छेदसूत्रम् - ३-४/१२५ तस्य सुतरां दातव्या इति भावः । ते च सहाया द्विधा-आत्यन्तिका अनात्यन्तिकाश्च । आत्यन्तिका नाम- ये तेन सार्द्ध तत्रैवासितुकामाः, ये तु तं तत्र मुक्त्वा प्रतिनिवर्तिष्यन्ते ते अनात्यन्तिकाः । तत्रात्यन्तिकेषु सहायेषु यद् व्यक्तः 'क्षेत्रविवर्जं' परक्षेत्रं मुक्त्वा सचित्तादिकं लभते तत् “पुरिल्ले” त्ति यस्याऽऽचार्यस्याभिमुखं व्रजति स पुरोवर्ती भण्यते, अभिधारित इत्यर्थः, तस्य सर्वमपि सचित्तादिकमाभवति । परक्षेत्रे तु लब्धं क्षेत्रिकस्याभाव्यम् ॥
[भा. ५३८९]
जइ नेउं एतुमना, जं ते मग्गिल्ले वत्ति पुरिमस्स । नियमऽव्वत्त सहाया, नेतु नियत्तंति जं सो य ॥
वृ- अथ ते सहायास्तं तत्र नीत्वा आगन्तुकामाः, अनात्यन्तिका इत्यर्थः, ततो यत् ते सहाया लभन्ते तत् सर्वमपि "मग्गिल्ले"त्ति यस्य सकाशत् प्रस्थिताः तस्यात्मीयस्याचार्यस्याभवति । “वत्ति पुरिमस्स'' तति यत् पुनः स व्यक्तः स्वयमुत्पादयति तत् 'पुरिमस्य' अभिधारितस्याभवति । यः पुनरव्यक्तस्तस्य नियमेनैव सहाया दीयन्ते, ते च सहाया यदि आत्यन्तिकास्तदा यद् असौ ते च लभन्ते तद् अभिधारितस्याभाव्यम् । अथ तं तत्र नीत्वा निवर्तन्ते ततो यद् असौ ते च परक्षेत्रं मुक्त्वा लभन्ते तत् सर्वं पूर्वाचार्यस्याभवति यावद् अद्याऽप्यसी नार्पितो भवति ।। बितियं अपहुचंते, न देज्ज वा तस्स सो सहाए तु । वइगादिअपडिबज्झंतगस्स उवही विसुद्धो उ !
[ भा. ५३९०]
वृ- द्वितीयपदमत्र भवति - अपूर्यमाणेषु साधुषु सहायान् साधून् तस्याचार्यो न दद्यादपि । स चात्मना श्रुतेन वयसा च व्यक्तः, तस्य च व्रजिकादावप्रतिबध्यमानस्योपधिर्विशुद्धो भवति, नोपहन्यते । अथ व्रजिकादिषु प्रतिबध्यते तत उपधेरुपघातो भवति ॥
[मा. ५३९१]
एगे तू वच्चंते, उग्गहवज्रं तु लभति सच्चित्तं ।
वच्चंत गिलाणे अंतरा तु तहि मग्गणा होइ ॥
घृ- यो व्यक्त एकाकी व्रजति स यदि अन्यस्याचार्यस्य योऽवग्रहस्तद्वर्जितेऽ नवग्रहक्षेत्रे यत् किञ्चिद् लभते तत् सचित्तमभिधार्यमाणस्याभवति । "वच्चंत" इत्यादि, योऽसौ ज्ञानार्थ व्रजति स द्वौ त्रीन् वाऽऽचार्यान् कदाचिद् अभिधारयेत् 'तेषां मध्ये यो मे अभिरोचिष्यत तस्यान्तिके उपसम्पदं ग्रहीष्यामि' इति कृत्वा । स चान्तरा ग्लानो जातः, तैश्चाचार्यै श्रुतम्, यथा-अस्मानभिधार्य साधुरागच्छन् पथि ग्लानो जात इति; तत्रेयमाभाव्या-ऽनाभाव्यमार्गणा भवति ॥
[ भा. ५३९२ ] आयरिय दोन्नि आगत, एक्के एक्के व नागए गुरुगा । नय लभती सच्चित्तं कालगते विप्परिणए वा ॥
वृ- यदि तौ द्वावपि आचार्यावगातौ ततो यत् तेन लब्धं तद् उभयोरपि साधारणम् । अथैकस्तयोरागतः 'एकञ्च' द्वितीयो नागतः ततोऽनागतस्य चतुर्गुरु, यच सचित्तमचित्तं वा तदसी न लभते, यस्तं गवेषयितुमागतस्तस्य सर्वमाभवति । एवं त्र्यादिसङ्ख्याकेष्वाचार्येष्वभिधारितेषु भावनीयम् । अथासौ ग्लानः कालगतस्तदाऽपि यो गवेषयितुमागच्छति तस्यैवाभवति, नेतरेवाम् । अथासौ विपरिणतस्ततो यस्य विपरिणतः स न लभते । यत् पुनः सचित्ता - दिकमभिधार्यमाणे लब्धं पश्चाद् विपरिणतस्ततो यदविपरिणते भावे लब्धं तद् लभते, विपरिणते भावे लब्धं न लभते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org