________________
उद्देशक : ४, मूलं-१२५, [भा. ५३८३]
२०७ -यस्तेन शैक्ष आनीतः स परममेधावी, तस्य च गच्छे नास्ति कोऽप्याचार्यपदयोग्यः, यच्च तस्य पूर्वगतं कालिकश्रुतं वा समस्ति तस्यापरो ग्रहीता न प्राप्यते, ततस्तयोर्व्यवच्छेदं ज्ञात्वा स्वयमेव तस्यात्मीयं दिग्बन्धं कुर्यात्, न तेषां प्रागभिधारितानां पार्श्वे प्रेषयेत् ॥अथ पर्षद्वतो अपवादमाह[भा.५३८४ असहातो परिसिल्लत्तणं पि कुजा उ मंदधम्मेसू।
पप्प व काल-ऽद्धाणे, सच्चित्तादी वि गेण्हेजा ।। -'असहायः एकाकी स आचार्यस्ततः संविग्नमसंविग्नं वा सहायं गृह्णीयात् । शिष्या वा मन्दधर्माण गुरूणां व्यापारंन वहन्तिततोयंवातंवा सहयं गृह्णानः पर्षद्वत्त्वमपि कुर्यात् । श्राद्धा वा मन्दधर्माणो न वस्त्र-पात्रादि प्रयच्छन्ति ततो लब्धिसम्पन्नं शिष्यं यं वा तं वा परिगृह्णीयात् । दुर्भिक्षादिकंवा कालमध्वानंवा प्राप्यये उपग्रहकारिणः शिष्यास्तान् सङ्ग हीयात् । एवंपर्षद्वत्त्वं कुर्वन् प्रतीच्छकस्य सचित्तादिकं तत्र प्रेषयेत्, पूर्वोक्तकारणे वा साते स्वयमपि गृह्णीयात् ।। अथ योऽसौ प्रतीच्छको गच्छति तस्यापवादमाह[भा.५३८५] कालगयं सोऊणं, असिवादी तत्थ अंतरा वा वि।
परिसेल्लय पडिसेहं, सुद्धो अन्नं व विसमाणो ।। कृयमाचार्यमभिधार्यव्रजतितंकालगतं श्रुत्वा, यद्वा यत्र गन्तुकामस्तत्रअन्तरावाअशिवादीनि श्रुत्वा पर्षद्वतः प्रतिषेधकस्य वा अन्यस्य वा पार्श्वे प्रविशन् शुद्धः । एतद् अविशेषितमुक्तम्। अथात्रैवाऽऽभाव्या-ऽनामाव्यविशेष बिभणिषुराह[भा.५३८६] वच्चंतो वि यदुविहो, क्त्तमवत्तस्स मग्गणा होति ।
वत्तम्मि खेतवलं, अव्वत्ते अणप्पिओ जाव।। वृ-यः प्रतीच्छको व्रजति सोऽपिचद्विविधः-व्यक्तोऽव्यक्तश्च । तयोः सहायः किं दातव्यो? नवा? इति मार्गणा कर्तव्या । तत्र व्यक्तस्य यः सचित्तादिलाभः 'क्षेत्रवर्ज' परक्षेत्र मुक्त्वा भवति स सर्वोऽप्यभिधारिताचार्यस्याभवति । यः पुनरव्यक्तः स सहायैर्यावदद्यापि तस्याचार्यस्यापितोनभवति तावत्परक्षेत्रं मुक्त्वायत्ते सहायालभन्ते तत् पूर्वाचार्यस्यैवाभवति इति सहगाथासमासार्थः॥अथैनामेव विवृणोति[भा.५३८७] सुतअव्वत्तोअगीतो, वएण जो सोलसण्ह आरेणं।
तविवरीओ वत्तो, वत्तमवत्ते य चउभंगो॥ वृ-अव्यक्तोद्विधा-श्रुतेन वयसाच।तत्र श्रुतेनाव्यक्तोऽगीतार्थ, वयसाऽव्यक्तस्तुषोडशानां वर्षाणामगि वर्तमानः, तद्विपरीतो व्यक्त उच्यते । अत्र च व्यक्ता-ऽव्यक्ताभ्यां चतुर्भङ्गी भवति-श्रुतेनाप्यव्यक्तो वयसाऽप्यव्यक्तः १ श्रुतेनाव्यक्तो वयसा व्यक्तः २ श्रुतेन व्यक्तो वयसाऽव्यक्तः ३श्रुतेन व्यक्तो वयसाऽपिव्यक्तः४॥अस्य च सहायाः किंदीयन्ते ? उतन दीयन्ते? इत्याह[भा.५३८८] वत्तस्स वि दायव्वा, पहुप्पमाणा सहाय किमु इयरे।
खेत्तविवजं अचंतिएसुजं लब्भति पुरिल्ले ।। -आचार्येण पूर्यमाणेषुसाधुषुव्यक्तस्यापि सहायादातव्याः किंपुनः ‘इतरस्य' अव्यक्तस्य?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org