________________
२०६
बृहत्कल्प-छेदसूत्रम् -३-४/१२५ [मा.५३७८] अन्नं अभिधारेतुं, उप्पडिसेह परिसिल्लमन्नं वा ।
पविसंते कुलादिगुरू, सच्चित्तादी व से हाउं॥ [भा.५३७९] ते दोऽवुवालभित्ता, अभिधारेज्जते देंति तं थेरा।
घट्टण विचालणं तिय, पुच्छा विप्फालनेगट्ठा । वृ-यः पुनरन्यमाचार्यमभिधार्य अप्रतिषेधकंवा पर्षद्वन्तं वाऽन्यं वा प्रविशति, तस्य पार्वे उपसम्पद्यत इत्यर्थः, तं यदि 'कुलादिगुरवः' कुलस्थविरागणस्थविराः सङ्घस्थविरा वाजानीयुस्ततो यत् तेनाचित्त सचित्तं वा सत्याचार्यस्योपनीतं तत् तस्य सकाशाद् हत्वा तौ 'द्वावपि' आचार्यप्रतीच्छकौ स्थविरा उपालभन्ते-कस्मात् त्वया अयमात्मपावें स्थापितः ? कस्माद् वा त्वमन्यमभिधार्य अत्र स्थितः?; एवम् ‘उपालभ्य तं प्रतीच्छकं घट्टयित्वा 'तत्' सचित्तादिकं सर्वमभिधारितस्याचार्यस्य ददति' प्रयच्छन्ति, तदन्तिकेप्रेषयन्तीत्यर्थः ।अथघट्टयित्वेति कोऽर्थः? इत्याह-घट्टनेति वा विचारणेति वा पृच्छेति वा विस्फालेति वा एकार्थानि पदानि ॥ ततः[भा.५३८०] घटेउं सच्चित्तं, एसा आरोवणा उ अविहीते।
बितियपदमसंविग्गे, जयणाए कयम्मि तो सुद्धो॥ वृ-तंप्रतीच्छकं घट्टयित्वा' 'कमभिधार्य भवान्प्रस्थितआसीत् ?' इति पृष्ट्वा सचित्तादिकं तस्याभिधारितस्य पार्वेस्थविराः प्रेषयन्तीति गम्यते । “एसा आरोवणा अविहीए"तिया पूर्व प्रतिषेधकत्वं पर्षन्मीलनं वा कुर्वत आरोपणा भणिता सा अविधिनिष्पना मन्तव्या । विधिना तु कारणे कुर्वाणस्य न प्रायश्चित्तम्, तथा चाह-"बिइयपय" इत्यादि, यमसावभिधारयति स आचार्योऽसंविग्नस्ततो द्वितीयपदे यतनया प्रतिषेधकत्वं कुर्यात् । का पुनर्यतना? इति चेद् उच्यते-प्रथमं साधुभिस्तं भाणयति-मा तत्र व्रज । पश्चादात्मनाऽपि भणेत्, पूर्वोक्तेन वा शिष्यादिव्यापारणप्रयोगेण वारयेत् । एवं यतनया प्रतिषेधकत्वे कृतेऽपि 'शुद्धः' निर्दोषः ।।
अमुमेवार्थमाह[भा.५३८१] अभिधारेतो पासस्थमादिनो तं च जति सुतं अत्थि।
जे अपडिसेहदोसा, ते कुव्वंतो वि निदोसो।। वृ-यान् अभिधारयन्त्रसौ व्रजति ते आचार्या पार्श्वस्थादिदोषदुष्टाः, यच्च श्रुतमसावभिलषति तेद्यदि तस्य प्रतिषेधकस्यास्ति, ततो ये प्रतिषेधकत्वं कुर्वतः ‘दोषाः' शिष्यव्यापारणादयस्तान् कुर्वन्नपि निर्दोषस्तदा मन्तव्यः ।। [भा.५३८२] जंपुन सच्चित्ताती, तं तेसि देति न विसयं गेहे।
वितियऽचित्त न पेसे, जावइयं वा असंथरणे ॥ वृ-यत्पुनः सचित्तादिकंप्रतीच्छकेनागच्छता लब्धंतत् तेषाम्' अभिधारिताचार्याणां ददाति न पुनः स्वयं गृह्णाति। द्वितीयपदे यद् वस्त्रदिकमचित्तं तद् अशिवादिभिकारणैः स्वयमलममानो न प्रेषयेदपि अथवा यावदुपयुज्यते तावद् गृहीत्वा शेषं तेषां समीपे प्रेषयेत् । असंस्तरणे वा सर्वमपि गृह्णीयात्। सचित्तमप्यमुना कारणेन न प्रेषयेत्॥ [भा.५३८३] नाऊणय वोच्छेयं, पुव्वगए कालियानुओगे य।
सयमेव दिसाबंध, करेज तेसिं न पेसेन्जा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org