________________
२०५
उद्देशकः ४, मूलं-१२५, [भा. ५३७२] शैक्षः कोऽपिलब्धः तदर्थम् एष शैक्षो मे भूयाद्' इति कृत्वा आकर्षति ततश्चतुर्गुरुकाः ।।
एवं बहिरावर्ण्य किं करोति? अत आह[भा.५३७३] अक्खर-वंजणसुद्धं, मंपुच्छह तम्मिआगए संते।
घोसेहि य परिसुद्धं, पुच्छह निउणे य सुत्तत्थे ।। वृ-सआचार्य शिष्यान् प्रतीच्छकान् वा भणति-यदा युष्माकमभिलापशुद्धगुणनया रञ्जितः स उपाश्रयमागच्छति तदा तस्मिन्नागते अक्षर-व्यअनशुद्धं सूत्रं मां पृच्छत अक्षराणि प्रतीतानि, व्यञ्जनशब्देन अभिव्यञ्जकत्वाद् अत्र पदमुच्यते ।तैरक्षरैर्व्यञ्जनैश्चसुद्धंतथा घोषैश्च उदात्तादिभिः परिशुद्धं सूत्रं पठनीयम्, निपुणांश्च सूत्रार्थानमा तदानीं पृच्छत । एवमनया भझ्या तमन्यत्र गच्छे गच्छन्तं प्रतिषेधयति ।गतं प्रतिषेधकद्वारम् । अथ परिसिल्लद्वारमाह[भा.५३७४] पाउयमपाउया घट्ट मट्ठ लोय खुर विविधवेसहरा ।
. परिसिल्लस्स तुपरिसा, थलिए वन किंचि वारेति ॥ वृ-यः परिसिल्लआचार्यस संविग्नायाअसंविग्नायाश्चपर्षदः समहं करोति, ततस्तस्य साधवः केचित् प्रावृताः, केचिदप्रावृताः, केचिद् 'घृष्टाः' फेनादिना घृष्टजवाः, केचिद् ‘मृष्टः' तैलेन मृष्टकेशा मृष्टशरीरा वा, अपरे लोचलुञ्चितकेशाः, अन्ये क्षुरमुण्डिताः, एवमादिविविधवेषधरा तस्य पर्षत् । स्थली-देवद्रोणी तस्यामिवासौ न किञ्चिरपि वारयति ॥ [भा.५३७५] तत्थ पवेसे लहुगा, सच्चित्ते चउगुरुंच आणादी ।
. उवहीनिप्फन्नं पिय, अचित्त चित्ते य गिण्हते। वृ-'तत्र' पर्षद्वतो गच्छे प्रवेशं कुर्वतस्तस्य चतुर्लधु । अथ सचितेन शैक्षेण साद्ध प्रविशति ततश्चतुर्गुरव आज्ञादयश्च दोषाः । अथाचित्तेन वस्त्रादिना सह प्रविशति तत उपधिनिष्पन्नम्। मिश्रे संयोगप्रायश्चित्तम् । तथा सचित्ता-ऽचित्तं ददतो गृह्णतश्चैवमेव प्रायश्चित्तम् ।।
अथ पिशुकादिद्वारं गुरुप्रेषितद्वारं चाह[भा.५३७६] ढिंकुण-पिसुगादि तहिं, सोतुंनाउं व सन्निवत्तंते।
अमुगसुतत्यनिमितं, तुज्झम्मि गुरूहि पेसविओ॥ -दिडण-पिशुक-दंश-मशकादीन शरीरोपद्रवकारिणस्तत्र श्रुत्वा ज्ञात्वा वा सन्निवर्तमानस्य मासलघु। तथा 'अमुकश्रुतार्थनिमित्तं गुरुभिर्युष्मदन्तिके प्रेषितोऽहम्' इति भणतो मासलघु।। आह-एवं भणतः को नाम दोषः? सूरिराह[भा.५३७७] आणाए जिणिदाणं, न हु बलियतरा उ आयरियआणा।
जिनआणाए परिभवो, एवं गव्यो अविनतोय॥ वृ-जिनेन्द्रैरेव भगवद्भिरुक्तम्, यथा-निर्दोषो विधिना सूत्रार्थनिमित्तं यः समागतस्तस्य सूत्रार्थो दातव्यौ । न च जिनेन्द्राणामाज्ञायाः सकाशादाचार्याणामाज्ञा बलीयस्तरा । अपि च'एवम् आचार्यानुवृत्त्या श्रुते दीयमाने जिनाज्ञायाः परिभवोभवति, तथा प्रेषयतउपसम्पद्यमानस्य प्रतीच्छतश्च त्रयाणामपि गर्वो भवति, तीर्थकृतां श्रुतस्य चाविनयः कृतो भवति, ततः 'गुरुभिः प्रेषितोऽहम् इतिन वक्तव्यम्। यस्तु भीतादिदोषविप्रमुक्तोऽभिधारिताचार्यस्यान्तिके आयातः सशुद्धः । यस्तु प्रतिषेधकादीनां पार्वे तिष्ठति तत्र विधिमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org