________________
-
उद्देशकः ४,मूलं-१२४, [भा. ५३४९]
१९९ वृ. एवं यदि समान्येनोपाश्रयाणामामुद्देशं करोति तदा सर्वेषामकल्प्यम् । अथ पूर्वेषामआद्यतीर्थकरसाधूनामुपाश्रयानुद्दिशति ततस्तदर्थमुटिष्टं पश्चिमा उपलक्षणत्वात्पूर्वे वा साधवः सर्वेऽपि न भुञ्जते, मध्यमानां पुनः कल्पनीयम् । अथ मध्यमसाधूनामुपाश्रयान् सर्वानुद्दिश्य करोतिततोमध्यमानांपूर्व-पश्चिमानांचसर्वेषामकल्प्यम्।अथ कियतएव मध्यमोपाश्रयानुद्दिशति ततः तद्वर्जानां तेषु-उपाश्रयेषुये श्रमणास्तान्वर्जयित्वा शेषाणांमध्यमश्रमणश्रमणीनांकल्पते। "उद्दिहसम पुव"तिपूर्वे साधवः-ऋषभस्वामिसत्का भण्यन्ते, ते उदिष्टसमाः' यं साधुमुद्दिश्य कृतंतत्तुल्याः, एकमुद्दिश्य कृतं सर्वेषामकल्पनीयमिति भावः ।। एवं तावत्पूर्वेषांमध्यमानांच भणितम् । अथ मध्यमानां पश्चिमानां चाभिधीयते[मा.५३५०] सव्वे समणा समणी, मज्झिमगाचेव पच्छिमा चेव।
मज्झिमग समण-समणी, पच्छिमगा समण-समणीतो।। वृ-सर्वे श्रमणाः श्रमण्यो वा यदोद्दिश्यन्ते ता सर्वेषामकल्प्यम् । “मज्झिमगाचेव" तिअथ मध्यमाः श्रमणाः श्रमण्यो वा उद्दिष्टास्ततो मध्यमानां पश्चिमानां च सर्वेषामकल्प्यम् । “पच्छिमा चेव" त्ति पश्चिमानां श्रमण-श्रमणीनामुहिष्टे तेषां सर्वेषामकल्प्यम्, मध्यमानां कल्यम् । मध्यमश्रमणानामुष्टिं मध्यमसाध्वीनां कल्पते, मध्यमश्रमणीनामुदिष्टं मध्यमसाधूनां कल्पते । पश्चिमश्रमणानामुहिटे पश्चिमसाधु-साध्वीनां न कल्पते, मध्यमानामुभयेषामपि कल्पते । एवं पश्चिमश्रमणीनामप्युद्दिष्टे वक्तव्यम् ।। [भा.५३५१] उवस्सग गणिय-विभाइय, उज्जुग-जड्डा यवंक-जड्डा य।
मज्झिमग उज्जु-पन्ना, पेच्छा सन्नाश्यगाऽऽगमणं ॥ अथोपाश्रयेषु साधून गणित-विभाजितान् करोति । गणिता नाम-इयतांपञ्चादिसङ्ख्याकानां दातव्यम्, विभाजिता नाम-'अमुकस्यामुकस्य' इति नामोत्कीर्तनेन निर्धारिताः।अत्रचतुर्भङ्गीगणिता अपि विभाजिता अपि १ गणितान विभाजिताः२ विभाजिता न गणिताः३न गणिता नविभाजिताः४अत्रप्रथमभङ्गे मध्यमानां गणित-विभाजितानामेवाकल्प्यम्, शेषाणां कल्पते। द्वितीयमों यावद्गणितप्रमाणैर्न गृहीतं तावत् सर्वेषामकल्प्यम्, गणितप्रमाणैर्गृहीते मध्यमानां शेषाणां कल्प्यम् । तृतीयभने यावन्तः सद्दशनामानस्तेषां सर्वेषामकल्प्यम्, शेषाणां कल्प्यम् । चतुर्थभते सर्वेषामकल्प्यम् । पूर्व-पश्चिमानां तु सर्वेष्वपि भङ्गेषु न कल्पते । परः प्राह-ननु सर्वेषां सर्वज्ञानां सहश एव हितोपदेशस्ततः कथं पञ्चयामिकानां चतुर्यामिकानां च विसशः कल्प्याऽकल्प्यविधिः ? अत्रोच्यते-कालानुभावेन विनेयानामपरापरं तथातथास्वभावपरिणाम विमलकेवलचक्षुषा विलोक्य तीर्थकृद्भिरित्यं कल्प्या-ऽकल्प्यविधिवैचित्र्यमकारि। तथाचाह"उनुग-जड्डा य" इति, पूर्वसाधवः ऋजु-जडाः पश्चिमसाधवो वक्र-जडा मध्यमा ऋजु-प्राज्ञाः । एतेषां च त्रिविधानामपि साधूनां नटप्रेक्षाहटान्तेन प्ररूपणा कर्तव्या। त्रिविधानामेव च साधूनां सज्ञातककुलमागतानां गृहिण उद्गमादिदोषान् कुर्युः तत्रापि त्रिधा निदर्शनं कर्तव्यम् ।। तत्र नटप्रेक्षणकदृष्टान्तं तावदाह[मा.५३५२] नडपेच्छंदणं, अवस्स आलोयणा न सा कप्पे।
कउयादी सोपेच्छति, न ते विपुरिमाण तो सव्वे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org