________________
१९८
[ भा. ५३४४ ] संघ समुद्दिसित्ता, पढमो बितिओ य समण-समणीओ। ततिओ उवस्सए खलु, चउत्थओ एगपुरिसस्स ।।
वृ-आधाकर्मकारी प्रथमो दान श्राद्धादि सङ्घ सामान्येन विशेषेण वा समुद्दिश्याधाकर्म करोति । द्वितीयः श्रमण - श्रमणीः प्रणिधाय करोति । तृतीय उपाश्रयानुद्दिश्य करोति । चतुर्थ एकपुरुषस्योद्देशं कृत्वा करोति ॥ अत्र यथाक्रमं कल्प्या-ऽकल्प्यविधिमाह
बृहत्कल्प-छेदसूत्रम् -३-४/१२४
[ भा. ५३४५] जति सव्वं उद्दिसिउं, संघं कारेति दोण्ह वि न कप्पे । अहवा सव्वे समणा, समणी वा तत्थ वि तहेव ॥
बृ- 'यदीति' अभ्युपगमे । यदि नाम ऋषभस्वामिनोऽजितस्वामिनश्च तीर्थमेकत्र मिलितं भवति पार्श्वस्वामि-वर्द्धमानस्वामिनोर्वा तीर्थं मिलितं यदा प्राप्यते तदा तत्कालमङ्गीकृत्यायं विधिरभिधीयते सर्वमपि सङ्घ सामान्येनोद्दिश्य यदा आधाकर्म करोति तदा 'द्वयोरपि' पञ्चयामिकचतुर्यामिकसङ्घयोर्न कल्पते । अथ सर्वान् श्रमणान् सामान्येनोद्दिशति ततः 'तत्रापि' श्रमणानामपि सामान्येनोद्देशे 'तथैव' सर्वेषामपि पञ्चयामिकानां चतुर्यामिकानां च श्रमणानां न कल्पते। एवं श्रमणीनामपि सामान्येनोद्देशे सर्वासामकल्प्यम् ॥ अथ विभागोद्देशे विधिमाह
[ भा. ५३४६ ] जइ पुन पुरिमं संघं, उद्दिसती मज्झिमस्स तो कप्पे । मज्झिमउद्दि पुन, दो पि अकप्पितं होति ।।
- यदि पुनः पूर्वमृषभस्वामिसत्कं सर्व्वं समुद्दिशति ततः 'मध्यमस्य' अजितस्वामिसङ्घस्य कल्पते । अथ मध्यमं समुद्दिशति तदा 'द्वयोरपि' पूर्व - मध्यमसङ्घयोरकल्प्यं भवति । एवं पश्चिमतीर्थकरसत्कं सङ्घमुद्दिश्य कृतं मध्यमस्य कल्पते, मध्यमस्य कृतं द्वयोरपि न कल्पते ॥ [भा. ५३४७] एमेव समणवग्गे, समणीवग्गे य पुव्वमुद्दिट्ठे । मज्झिमंगाणं कप्पे, तेसि कडं दोण्ह विन कप्पे |
ख़-एवमेव श्रमणवर्गे श्रमणीवर्गे च पूर्वेषाम् ऋषभस्वामिसम्बन्धिनां श्रमणानां श्रमणीनां वा यद् उद्दिष्टम् - उद्दिश्य कृतं तद् मध्यमानां श्रमण-श्रमणीनां कल्पते । 'तेषां' मध्यमानामर्थाय कृतं 'उभयेषामपि' पूर्व मध्यमानां साधु-साध्वीनां न कल्पते । एवं पश्चिम-मध्यमानामपि वक्तव्यम्।। अथैकपुरुषोद्देशे विधिमाह
[भा. ५३४८ ] पुरिमाणं एक्कस्स वि, कयं तु सव्वेसि पुरिम-चरिमाणं । न वि कप्पे ठवणामेत्तगं तु गहणं तहिं नत्थि ॥
वृ- 'पूर्वेषाम्' ऋषभस्वामिसत्कानामेकस्यापि पुरुषस्यार्थाय कृतं सर्वेषामपि पूर्वपश्चिमानामकल्प्यम्, पश्चिमानामप्येकस्यार्थाय कृतं सर्वेषां पूर्व-पश्चिमानामकल्यम् । एतच्च 'स्थापनामात्रं ' प्ररूपणामात्रं संज्ञाविज्ञानार्थं क्रियते, बहुकालान्तरितत्वेन पूर्वपश्चिमसाधूनामेकत्रासम्भवात् तत्र परस्परं ग्रहणं 'नास्ति' न घटते । मध्यमानां तु यदि सामान्येनैकं साधुमुद्दिश्य कृतं तत एकेन गृहीते शेषाणां कल्पते । अथ कमप्येकं विशेष्य कृतं ततः तस्यैवाकल्प्यम्, शेषाणां सर्वेषामपि कल्प्यम्, पूर्व-पश्चिमानां तु सर्वेषामपि तन्त्र कल्पते ।। अथोपाश्रयोद्देशे विधिमाह[ भा. ५३४९ ] एवमुवस्सय पुरिमे, उद्दिट्ठ न तं तु पच्छिमा भुंजे । मज्झिम- तव्वज्जाणं, कप्पे उद्दिट्ठसम पुव्वा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org