________________
१९७
उद्देशकः ४, मूलं-१२४, भा. ५३४०] [भा.५३४०] कपठिइपरूवणता, पंचेव महव्वया चउज्जामा ।
कप्पट्ठियाण पणगं, अकप्प चउजाम सेहे य॥ वृ- कल्पस्थितेः प्रथमतः प्ररूपणा कर्तव्या । तद्यथा-पूर्व-पश्चिमसाधूनां कल्पस्थितिः पञ्चमहाव्रतरूपा, मध्यमसाधूनां महाविदेहसाधूनां च कल्पस्थितिश्चतुर्यामलक्षणा । ततो ये कल्पस्थितास्तेषां “पनगं"ति पञ्चेवमहाव्रतानि भवन्ति । अकल्पस्थितानां तु चत्वारोयामाः' चत्वारि महाव्रतानि भवन्ति, 'नापरिगृहीता स्त्री भुज्यते' इति कृत्वा चतुर्थव्रतं परिग्रहव्रत एव एषामन्तर्भवतीति भावः यश्चपूर्व-पश्चिमतीर्थकरसाधूनामपि सम्बन्धीशैक्षः सोऽपिसमायिकसंयत इति कृत्वाचतुर्यामिकोऽकल्पस्थितश्च मन्तव्यः, यदापुनरुपस्थापितो भविष्यति तदाकल्पस्थित इति ॥ प्ररूपिता कल्पस्थिति । इह "जे कडे कप्पट्टियाणं" इत्यादिनाऽऽधाकर्म सूचितम् अतस्तस्योत्पत्तिमाह[भा.५३४१] साली घय गुल गोरस, नवेसु वल्लीफलेसु जातेसु ।
पुत्रढ करण सहा, आहाकम्मे निमंतणता ॥ वृ-कस्यापिदानरुचेरभिगमश्राद्धस्य वा नकः शालिqयान्गृहे समायातस्ततः सचिन्तयति'पूर्व यतीनामदत्त्वा ममात्मना परिभोक्तुंन युक्तः' इति परिभाव्याऽऽधाकर्म कुर्यात् । एवं घृते गुडे गोरसे नवेषु वा तुम्ब्यादिवल्लीफलेषु जातेषु पुण्यार्थ दानरुचि श्राद्धः “करणं" ति आधाकर्म कृत्वा साधूनां निमन्त्रणं कुर्यात् ॥ तस्य चाधाकर्मणोऽमून्येकार्थिकपदानि[भा.५३४२] आहा अहे य कम्मे, आताहम्मे य अत्तकम्मेय।
तंपुन आहाकम्म, नायव्वं कप्पते कस्स ।। वृ-आधाकर्म अधःकर्म आत्मघ्नम् आत्मकर्म चेति चत्वारि नामानि । तत्र साधूनामाधयाप्रणिधानेनयत् कर्म षट्कायविनाशेनाशनादिनिष्पादनंतआधाकीतथाविशुद्धसंयमस्थानेभ्यः प्रतिपात्य आत्मानं अविशुद्धसंयमस्थानेषु यद् अधोऽधः करोति तद् अधःकर्म । आत्मानंज्ञान-दर्शन-चारित्ररूपंहन्ति-विनाशयतीति आत्मघ्नम्।यत्पाचकादेः सम्बन्धिकर्म-पाकादिलक्षणं ज्ञानावरणीयादिलक्षणंवा तद् आत्मनः सम्बन्धि क्रियते अनेनेति आत्मकर्म तत् पुनराधाकर्म कस्य पुरुषस्य कल्पते ? न वा? यद्वा कस्य तीर्थे कथं कल्पते ? न कल्पते वा? इत्यमीभिद्वरितिव्यम्॥तान्येव दर्शयति[मा.५३४३] संघस्स पुरिम-पच्छिम-मज्झिमसमणाण चेव समणीणं ।
चउण्हं उवस्सयाणं, कायव्वा मग्गणा होति ।। कृ-आधाकर्मकारी सामान्येन विशेषेण वा सङ्घस्योद्देशं कुर्यात्। तत्र सामान्येन-अविशेषितं समुद्दिशति, विशेषेण तु पूर्ववामध्यमंवा पश्चिमंवा सङ्घचेतसि प्रणिधत्ते श्रमणानामप्योघतो विभागतश्चनिर्देशं करोति। तत्रौधतः-अविशेषितश्रमणानाम, विभागतः पञ्चयामिकश्रमणानां चतुर्यामिकश्रमणानां वा । एवं श्रमणीनामपि वक्तव्यम् । तथा चतुर्णामुपाश्रयाणामप्येवमेव सामान्येन विशेषेण च मार्गणा कर्तव्या भवति । तत्र चत्वार उपाश्रया इमे-पञ्चयामिकानां श्रमणानामुपाश्रयमुद्दिशतीतिएकः,पञ्चयामिकानामेव श्रमणीनां द्वितीयः, एवं चतुर्यामिक श्रमणश्रमणीनामप्येवमेव द्वावुपाश्रयौ मन्तव्यौ ॥ इदमेव भावयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org