________________
१९४
बृहत्कल्प-छेदसूत्रम् -३-४/१२३ -'कृच्छ्राद्' अतिदुःखेनाहंतावद् जीवितः, अतोयदि त्वमपि मर्तुमिच्छसि तदा तत्र' तेषां साधूनामन्तिकेज, येन भवतोऽप्येवंसम्पद्यत इतिभावः । अपिच-हे प्रातः ! एषोऽहमेकान्तहितो भूत्वा भवन्तं भणामि-ते साधवो विषकुम्भा मधुपिधानाः सन्ति, मुखेनजीवदयाधुपदेशकंमधुरं वचो जल्पन्ति, चेतसा तु विषवत् परव्यपरोपणारिदारुणपरिणामा इति हृदयम् । एवं विपरिणामितोऽसौ प्रव्रज्यामप्रतिपद्यमानः षट्कायविराधनादिकं यत् करोति तनिष्पन्न अयतनादायिनः प्रायश्चित्तम् ।। किञ्च[भा.५३२६] वातादीनं खोभ, जहन्नकालुस्थिए विसाऽऽसंका।
अवि जुञ्जति अनविसे, नेद य संकाविसे किरिया ।। वृ-तस्याशुद्धाहारदानानन्तरं वातादीनां क्षोभे 'जघन्यकालात्' तत्क्षणादेवोत्थिते विषाशा भवति-मन्येविषममीभिर्मम दत्तं येनैवंमेसहसैवधातुक्षोभः समजनि। एवं चिन्तयतस्तस्याचिरादेव मरणं भवेत् । कुतः ? इत्याह-"अवि" इत्यादि, अपि' सम्भावनायाम, सम्भाव्यते अयमर्थ यद् अन्यस्य सर्वस्यापि विषस्य मन्त्रादिक्रिया युज्यते, शङ्काविषस्यतु क्रिया' चिकित्सा नैव भवति, मानसिकत्वेन तस्य प्रतिकर्तुमशक्यत्वात् । यत एते दोषा अतो नायतनया दातव्यम् ।
अत्र परमतमुपन्यस्य दूषयति[भा.५३२७] केइ पुन साहियव्वं, अस्समणो हंति पडिगमो होज ।
दायव्वं जतणाए, नाए अनुलोमणाऽऽउट्टी। कृकेचित् पुनराचार्या ब्रुवते-स्फुटमेव तस्य कथयितव्यम्-भवत एवेदं कल्पते; एतच न युज्यते । यत एवमुक्ते कदाचिदसौ ब्रूयात्-यत् श्रमणानां न कल्पते तद् मम यदि कल्पते तत एवमहम् 'अश्रमणः' न श्रणमो भवामि, अश्रमणस्य न निरर्थकं मे शिरस्तुण्डमुण्डनमः इति विचिन्त्य प्रतिगमनं कुर्यात् । यत एवमतो यतनया दातव्यम् । यतनया च दीयमानं यदि ज्ञातं भवति तदा वक्ष्यमाणवचनैः 'अनुलोमना' प्रज्ञापनातथा कर्तव्यायथा तस्य आवृत्ति समाधान भवति॥प्रज्ञापनाविधिश्चायम्[भा.५३२८]अभिनवधम्मो सि अभावितो सि बालो वतं सि अनुकंपो।
तव चेवट्ठा गहितं, मुंजिजा तो परं छंदा॥ कृ'अभिनवधर्मा' अधुनैव गृहीतप्रव्रजयोऽसि त्वम्, अत एव 'अभावितोऽसि' नाद्यापि भैक्षभोजनेन भावितः, बालश्च त्वमसि अत एव अनुकम्प्यः' अनुकम्पनीयः, तत इदमुत्कृष्टद्रव्यमशुद्धमपितवैवार्थाय गृहीतम्, अतः परं 'छन्दात् स्वच्छन्देन भुञ्जीथाः॥ [भा.५३२९] कप्पो चिय सेहाणं, पुच्छसुअन्ने विएस हु जिनाणा ।
सामाइयकप्पठिती, एसा सुत्तं चिमं वेति ॥ दृ-अपिच-कल्प एवैष शैक्षाणां यदनेषणीयमपि भोक्तुं कल्पते, यदि भवतो न प्रत्ययस्ततः पृच्छ 'न्यानपि' गीतार्थसाधून् । तेऽपि तेन पृष्टाः सन्तो ब्रुवते-एषा हु निश्चितं 'जिनाज्ञा' तीर्थकृतामुपदेशः, सामायिककल्पस्य चैषैव स्थिति। सूत्रंचते साधवः । सूत्रंच ते साधवः 'इदं' प्रस्तुतं “अस्थि या इत्थ केइ सेहतराए" इत्यादिरूपं ब्रुवते । भवेत कारणं येनाकुट्टिकयाऽपि दद्यात् ।। कथम् ? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org