________________
उद्देशक :
: ४, मूलं- १२३, [भा. ५३३०]
[भा. ५३३०] परतित्थियपूयातो, पासिय विविहातो संखडीतो य । विप्परिणमेज सेधो, कक्खडचरियापरिस्संतो ||
१९५
वृ- क्वापि क्षेत्रे परतीर्थिकानां पूजाः सादरस्निग्ध-मधुरभोजनादिरूपास्तदुपासकैर्विधीयमाना दृष्ट्वा विविधाश्च सङ्घडीरवलोक्य शैक्षः कर्कशचर्यापरिश्रान्तः सन् विपरिणमेत ॥ ततः[ भा. ५३३१] नाऊण तस्स भावं, कप्पति जतणाए ताहे दाउं जे । संथरमाणे देतो, लग्गइ सट्टाणपच्छित्ते ॥
वृ- ज्ञात्वा 'तस्य' शैक्षस्य 'भावं' स्निग्ध-मधुरभोजनविषयमभिप्रायमेषणीयालाभे यतनया तस्यानेषणीयमपि दातुं कल्पते । अथ संस्तरतोऽपि ददाति ततः स्वस्थानप्रायश्चित्ते लगति, येन दोषेणाशुद्धं तन्निष्पन्नं प्रायश्चित्तमापद्यत इति भावः ॥
- [भा. ५३३२]
सेहस्स व संबंधी, तारिसमिच्छंते वारणा नत्थि । कक्खडे व महिडीए, बितियं अद्धाणमादीसु ॥
वृ- शैक्षस्य वा सम्बन्धिनः केऽपि स्नेहातिरेकत उत्कृष्टं भक्तमानीय दद्युः, तस्य च ता शं भोक्तुंमिच्छतः 'वारणा' प्रतिषेधो नास्ति “कक्खडे व " ति कर्कशम्-अवमौदर्यं तत्रासंस्तरणेऽशुद्धं शैक्षस्य दातव्यम्, शुद्धामात्मना भोक्तव्यम् । "महिडीए "त्तिकर्कशम् अवमीदयं तत्रासंस्तरणेऽशुद्धं शैक्षस्य नाद्यापि भावितः तावत् प्रायोग्यभनेषणीयं दीयते । “बिइयं अद्धाणमादीसु" त्ति अध्वादिषु कारणेषु द्वितीयपदं भवति, स्वयमप्यनेषणीयं भुञ्जानाः शुद्धा इति भावः । एषा पुरातनी गाथा ।। साम्प्रतमेनामेव विवृणोति
[भा. ५३३३] नीया व केई तु विरूवरूवं, आज मतं अनुवट्ठियस्सा । स चावि पुच्छेज जता तु थेरे, तदा न वारेति णं मा गुरूगा ॥
वृ- निजकाः केचिद् 'विरूपरूपं' मोदका ऽशोकवर्ति शाल्योदनप्रभृतिकमुत्कृष्टं भक्तमनुपस्थितस्य शैक्षस्यार्थायानयेयुः । स च तैर्निमन्त्रितो यदा 'स्थविरान्' आचार्यान् पृच्छेत्गृह्णाम्यहमिदम् ? न वा ? इति तदा गुरवो "ण" मिति 'तं' शैक्षं न वारयन्ति । कुतः ? इत्याह"मा गुरुग "त्ति मा वारयतां चत्वारो गुरुकाः प्रायश्चित्तं भवेत् ॥ किमर्थं पुनर्न वार्यते ? इत्याह[ भा. ५३३४ ] लोलुग सिनेहतो वा, अग्रहभावो व तस्स वा तेसिं । गिuse तुम्मे वि बहुं, पुरिमही निव्विगतिगा मो ॥
- लोलुपतया संज्ञातकस्नेहतो वा स तद् भक्तं भोक्तुमभिलषेत् ततो यदि वार्यते तदा 'तस्य' शैक्षस्य 'तेषां वा' संज्ञातकानाम् 'अन्यथाभावः' विपरिणमनं भवेत् । संज्ञातकाश्च यदि साधूनामन्त्रयन्ते- बह्येतद् भक्तम् अतो यूयमपि गृह्णीत; ततो वक्तव्यम्-"मो" इति वयं पूर्वार्द्धप्रत्याख्यानिनो निर्विकृतिका वा ॥ अथ ते संज्ञातका ब्रवीरन्
।
[ भा. ५३३५] मंदक्खेण न इच्छति, तुब्मे से देह बेह नं तुम्मे किं वा वारेमु वयं, गिण्हतु छंदेण तो बिंति ॥
वृ- एष युष्माभिरनुज्ञातः 'मन्दात्रेण' लज्जया न ग्रहीतुमिच्छति ततो यूयं तस्य प्रयच्छत, भगत वा यूयम्-गृहाणेति । तत्र ब्रुवते किं वा वयं वारयामः ? गृह्णातु स्वयमेव छन्देन यदि रोचते । अथ 'कक्खडे व महिड्डीए" त्ति पदद्वयं व्याख्याति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org