SearchBrowseAboutContactDonate
Page Preview
Page 1244
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ४, मूलं-१२३, [भा. ५३१९] १९३ - एतत् तव कल्पते, अस्माकं तु न कल्पते' एवं भणतश्चतुर्गुरुकम् आज्ञादयश्च दोषाः। शङ्का च तस्य शैक्षस्य आभियोगः-कार्मणं तद्विषया भवति । 'एकेन वा' केनचित् शैक्षेण तद् दीयमानमीप्सितं भवेत् तस्य च ग्लानत्वे यथाभावेन जाते सति द्वितीयशैक्ष उड्डाहं कुर्यात् ।। इदमेव भावयति[भा.५३२०] कम्मोदय गेलने, दळूण गतो करेज उड्डाहं । एगस्स वा वि दिने, गिलाण वमिऊण उड्डाहो॥ वृ-कर्मोदयाद्यथाभावेनैव ग्लानत्वे जाते सति सचिन्तयेत्-एतैः ‘माव्रतादयंप्रतिमज्यताम्' इति कृत्वा ममाभियोग्यं दत्तम् । एवं 'इष्टवा' ज्ञात्वा स भूयो गृहवासं गतः सन् उड्डाहं कुर्यात्एतैः कार्मणं मम दत्तमिति । एकस्य वा दत्ते सति यदा ग्लानत्वं जातं तदा द्वितीयः शैक्षो व्रतं वमित्वा प्रभूतजनसमक्षमुड्डाहं कुर्यात् ।। किं पुनश्चिन्तयित्वा स व्रतं वमति ? इत्याह[भा.५३२१] मा पडिगच्छति दिन्नं, से कम्मण तेन एस आगल्लो। जाव न दिज्जति अम्ह वि, हनुदानि पलामिता तुरियं ।। वृ-मा प्रतिगमिष्यतीति बुध्या कार्मणमस्य दत्तं तेनायं “आगल्लो" ग्लानः सातः, अतो यावदस्माकमपि कार्मणं न दीयते तावत् त्वरितमिदानीमहमपि पलाये। अथवा कश्चिदिदं ब्रूयात्[मा.५३२२ भत्तेण मे न कजं, कल्लं भिक्खं गतो व भोरखामि। अन्न व देह मन्झं, इय अजते उज्झिणिगदोसा ।। वृ-भक्तेन 'मे' मम न कार्यम्, कल्ये वा भिक्षां गतो वा भोक्ष्ये, अन्यद्वा भक्तं मह्यं प्रयच्छत। "इय" एवमयतनया दीयमाने 'उज्झिनिका' पारिष्ठापनिका भवेत् । तस्यांच दोषाः कीटिकामक्षिकादिविराधनारूपा मन्तव्याः ।। अथवा एकस्य ग्लानत्वे जातेऽपरश्चिन्तयेत्[भा.५३२३] हनु व असंदेह, एस मओहंतु ताव जीवामि। वग्घा हुचरंति इमे, मिगचम्मगसंवुता पावा।। -“हनु" ति हः' इति खेदे 'नुः' इति वितर्के। एष तावद्असन्देहं मृतः, अहंतुतावदिदानी जीवामि, इमे च पापाः श्रमणका मृगचर्मसंवृता व्याघ्राश्चरन्ति, बहि साधुवेशच्छन्ना हिंसका अमी इति भावः । अतो यावद् एते मां जीवितान्न व्यपरोपयन्ति तावत् प्रतिगच्छामीति ।। किञ्च[भा.५३२४] अभिओगपरज्झस्स हु, को धम्मोकिं व तेन नियमेणं । अहियकरमाहीण व, अभिजोएंताण को धम्मो॥ वृ-अभियोगेन-कार्मणेन "परन्झस्स"त्ति परवशीकृतस्य मम को नाम धर्मो भविष्यति?, किंवा तेन नियमेन मम कार्यम् ?, तथा अधिककरग्राहिणामिवामीषामप्येवमभियोजयतां को धर्म? न कश्चिदित्यर्थः । एवं विचिन्त्य गृहवासं भूयोऽपि कुर्यात् ॥ यो ग्लानीभूयोगद्रजितः स प्रव्रजन्तमित्यं विपरिणमयेत्[भा.५३२५] किच्छाहि जीवितो हं, जति मरिउं इच्छसी तहिं वच्च । एस तु भणामि भाउग!, विसकुंभा ते महुपिहाणा।। 2013 Jain International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy