________________
उद्देश : ४, मूलं- १२२,
[मा. ५३०९ ]
[भा. ५३०९]
एत्थ होइ भत्तं, बितियम्मि पडिग्गहे दवं होति । गुरुमादीपाउग्गं, मत्त बितिए य संसत्तं ॥
वृ- साधुद्वयस्य द्वौ प्रतिग्रहौ द्वौ च मात्रकौ भवतः । तत्रैकस्मिन् प्रतिग्रहे भक्तं ग्रहीतव्यम्, द्वितीये च 'द्रवं' पानकं भवति । तथैकस्मिन् मात्रके आचार्यादीनां प्रायोग्यं गृह्यते, द्वितीये तु संसक्तं भक्तं वा पानकं वा प्रत्युपेक्षते । यदि शुद्धं ततः प्रतिग्रहे प्रक्षिप्यते ॥
१९१
[भा. ५३१०] जति रिक्को तो दवमत्तगम्मि पढमालियाए गहणं तु । संसत्त गहण दवदुल्लभे य तत्थेव जं पंतं ॥
वृ-यदि रिक्तोऽसौ द्रवमात्रकः ततस्तत्र प्रथमालिकाया ग्रहणं कर्तव्यम्, एवं संसृष्टं न भवति । अथवा तस्मिन् द्रवमात्रके संसक्तं द्रवं गृहीतम्, द्रवं वा तत्र क्षेत्रे दुर्लभं ततः 'तत्रैव' भक्तप्रतिग्रहे यत् प्रान्तं तद् एकेन हस्तेनाकृष्य अन्यस्मिन् हस्ते कृत्वा समुद्दिशति, एवं संसृष्टं न भवति ।। [ भा. ५३११] बिइयपदं तत्थेवा, सेसं अहवा वि होइ सव्वं पि । तम्हा गंतव्वं आननं, व जति वि पुट्ठो तह वि सुद्धो ॥
वृ- द्वितीयपदमत्रोच्यते-अतीव बुभुक्षितास्तत्रैवात्मनः संविभागं भुञ्जते, शेषं सर्वमप्यानयन्ति, अथवा तत्रैव सर्वमात्म-परसंविभागं भुञ्जते । यत एष एवंविधो विधिस्स्माद् विधिना गन्तव्यं विधिना आनेतव्यं विधिना तत्रैव भोक्तव्यम् । एवं सर्वत्र विधिं कुर्वन् यद्यपि दोषैः स्पृष्टो भवति तथापि शुद्धः ॥ कथं पुनः सर्वमसर्वं वा भिक्षाचर्यागतेन भोक्तव्यम् ? इत्याहअंतरपल्लीगहितं, पढमागहियं व भुंजए सव्वं ।
[मा. ५३१२]
संखड धुक्लं वा, जंगहियं दोसिणं वा वि ॥
वृ- यद् अन्तरपल्लिकायां गृहीतं प्रथमपौरुषीगृहीतं वा तत् सर्वमपि भुङ्क्ते । यत्र वा जानन्ति सङ्घड्यां ध्रुवो लाभो भविता तत्र यत् पूर्वं गृहीतं तत् सर्वमपि भोक्तव्यम् । यद् वा दोषानं गृहीतं तदशेषमपि भोक्तव्यम् ॥ [भा. ५३१३]
दरहिंडिएव भाणं, भरियं भुत्तुं पुनो वि हिंडिज्जा । कालो वाऽतिक्कमई, भुंजेज्जा अंतरा सव्वं ॥
वृ- अथवा 'दरहिण्डिते' अर्धपर्यटित एव भाजनं भृतं ततोऽल्पसागारिके तत् पर्याप्तं भुक्त्वा पुनरपि भिक्षां हिण्डेत । अथवा यावद् आचार्यान्तिके आगच्छन्ति तावत् कालोऽतिक्रामति, चतुर्थपौरुषी लगति सूर्यो वाऽस्तमेतीत्यर्थः, ततः सर्वमपि 'अन्तरा' तत्रैव भुञ्जीत ॥
[भा. ५३१४ ] परमद्धजोयणातो, उज्जाण परेण जे भणिय दोसा । आहधुवातिणाविए, ते चेवुस्सग्ग-अववाता ॥
- अथार्धयोजनात्परेण अतिक्रामयति तदा ये उद्यानात् परतोऽतिक्रामणे दोषाः पूर्वं भणितास्त एव द्रष्टव्याः । अथ “आहच्च" कदाचिदनाभोगादिनाऽतिक्रामितं ततस्तावेवोत्सर्गाऽपवादी, उत्सर्गतस्तद् न भोक्तव्यम् अपवादतः पुनरसंस्तरणे भोक्तव्यमिति भावः ॥
पू. (१२३) निग्गंथेण यगाहावइकुलं पिंडवायपडियाए अनुष्पविद्वेणं अनतरे अचित्ते अनेसणिजे पान- भोयणे पडिग्गाहिए सिया, अत्थि या इत्य केइ सेहतराए अनुवट्ठावियए कप्पइ से तस्स दाउं अनुप्पदाउं वा; नत्थि य इत्थ केइ सेहतराए अनुवट्ठावियए तं नो अप्पणा भुंजेज्जा, नो अन्नेसिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org